| YouTube Channel

ईज (Ija)

 
शब्दसागरः
English
ईज r. 1st cl. (ङ) (ईजते) 1. To go.
2. To blame or censure
also (इञ्)
ईजिञ् (ईंजति-ते.)
Wilson
English
ईज r. 1st cl. (ङ) (ईजते)
1 To go.
2 To blame or censure
also (इञ) ईजिञ् (ईंजति-ते.)
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ईज्
मूलधातुः:
ईज
धात्वर्थः:
गति-कुत्सनयोः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ईजते
धातुप्रदीपः
Sanskrit
ईजँ ईज गति, कुत्सनयोः
- ईजते ईजाञ्चक्रे वीज्यते ।। 179 ।।
शब्दकल्पद्रुमः
Sanskrit
ईज, इ, कुत्से गतौ इति कविकल्पद्रुमः
(भ्वादिं -आत्मं -सकं -सेट् -इदित् ।) ईञ्जते ।कुत्सः कैश्चिन्न मन्यते इति दुर्गादासः
ईज, ङ, कुत्से गतौ इति कविकल्पद्रुमः
(न्वादिं -आत्मं -सकं -सेट् ।) दीर्घादिः ङईञ्जते इजते कुत्सः कैश्चिन्न मन्यते इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
ईज गतौ निन्दायाञ्च म्वा० आत्म०
सक०
सेट् ईजते ऐजतऐजिष्ट ईजाम्--बभूव आस चक्रे ईजिता ईजिष्यतेऐजिष्यत
ईज गतौ निन्दने इदित्
भ्वा०
आत्म०
सक०
सेट् ईञ्जतेऐञ्जिष्ठ ईञ्जाम्--बभूव आस चक्रे! ईञ्जितम् अयम्अपाणिनीयः कविकल्पद्रुमे तु पठितः
क्षीरतरङ्गिणी
Sanskrit
ईजँ ईज गति, कुत्सनयोः
ईजते, वीज्यते ईजीति दुर्गः - ईञ्जते वीजेर्लौकिका दवीजयत् 181
धातुवृत्तिः
Sanskrit
ईजँ ईज (अर्थः) गति, कुत्सनयोः
( ईजते ईजांचक्रे ईजिता ) इत्यादि कर्मणि ( ईज्यते ) इत्यादि ( ईजिजिषते ईजयति मा भवानिजिजत् ) द्विर्वचनात्पूर्वं "णौ चङि''ति ह्रस्व इत्युक्तम् वर्चादय उदात्ता अनुदात्तेतः 180
कृदन्तरूपमाला
Sanskrit
1 {@“ईज गतिकुत्सनयोः”@} 2 ईजकः-जिका, ईजकः-जिका, ईजिजिषकः-षिका
ईजिता-त्री, ईजयिता-त्री, ईजिजिषिता-त्री
-- ईजयन्-न्ती, ईजयिष्यन्-न्ती-ती
ईजमानः, ईजयमानः, ईजिजिषमाणः
ईजिष्यमाणः, ईजयिष्यमाणः, ईजिजिषिष्यमाणः
ईक्-ईजौ-ईजः
-- -- 3 ईजितम्-तः-तवान्, 4 ईजितः, ईजिजिषितः-तवान्
ईजः, ईजः, ईजिजिषुः, ईजिजयिषुः
ईजितव्यम्, ईजयितव्यम्, ईजिजिषितव्यम्
ईजनीयम्, 5 ईजनीयम्, ईजिजिषणीयम्
6 ईज्यम्, ईज्यम्, ईजिजिष्यम्
7 ईषदीजः, दुरीजः, स्वीजः
-- -- ईज्यमानः, ईज्यमानः, ईजिजिष्यमाणः
ईजः, ईजः, ईजिजिषः
ईजितुम्, ईजयितुम्, ईजिजिषितुम्
ईजा, ईजना, ईजिजिषा, ईजिजयिषा
ईजनम्, ईजनम्, ईजिजिषणम्
ईजित्वा, ईजयित्वा, ईजिजिषित्वा
समीज्य, समीज्य, समीजिजिष्य
ईजम् २, ईजित्वा २, ईजम् २, ईजयित्वा २, ईजिजिषम्
ईजिजिषित्वा २।
प्रासङ्गिक्यः
01
=>
(८१)
02
=>
(१-भ्वादिः-१८२-सक-सेट्-आत्म।)
03
=>
[[C। ‘अभ्रेजि विभ्राग्भिरनीजितैश्च यत् कदाप्यशोचद्भिरशेषजन्तुभिः।’ धा। का। १-२५।]]
04
=>
[[१। ‘निष्ठायां सेटि’ (६-४-५२) इति णेर्लोपः।]]
05
=>
[[२। ‘णेरनिटि’ (६-४-५१) इति णेर्लोपः।]]
06
=>
[[३। निष्ठायां सेट्त्वात् ‘चजोः--’ (७-३-५२) इति कुत्वं न।]]
07
=>
[पृष्ठम्००८२+ २७]