| YouTube Channel

ईङ् (IG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मूलधातुः:
ईङ्
धात्वर्थः:
गतौ
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ईयते
धातुप्रदीपः
Sanskrit
ईङ् गतौ
- ईयते अयाञ्चक्रे केचिद् व्यपदेशिवद्भावमनादृत्यामोऽभावमाहुः-ईये, ईयाते ऐष्ट ऐषाताम् उपेयम् यत् इणस्तु उपेत्ययम् 37
क्षीरतरङ्गिणी
Sanskrit
ईङ् गतौ
- सर्वः स्वार्थ प्रतीयते 34
धातुवृत्तिः
Sanskrit
इङ् (अर्थः) गतौ
( ईयते अयांचक्रे, ) व्यपदेशिवद्भावाद् इजादित्वगुरुमत्त्वयोराम् (एता एष्यते इयताम् ऐयत ईयेत ऐषीष्ट ) लिङौ ( ऐष्ट ईषिषते आययति आयियत प्रेय, प्रतीय, ) ल्यप् (उपेयम्, ) "अचो यत्'' क्यब्विधावेतीति निर्देशान्नास्य ग्रहः अयते इति शपि एति अध्येति अधीयत इति लुकि 35
कृदन्तरूपमाला
Sanskrit
1 {@“ईङ् गतौ”@} 2 ‘अयत्येतीयते गत्यां, अधीतेऽध्येति चेङिकोः।’ 3 देवः।
अीयमानः, एष्यमाणः, आययमानः, आययिष्यमाणः, ईषिषमाणः, ईषिषिष्यमाणः
इति-शानचि रूपाणि।
4 निरीतः, अन्यानि सर्वाण्यपि ‘ई’ धातुवत् 5 रूपाणि ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(८०)
02
=>
(४-दिवादिः-११४३-सक। अनि-आत्म-)
03
=>
(श्लो-१४)
04
=>
[[B। ‘आपीय तद्गिरममाननिरीतरोषः प्रीतिं श्यतोऽस्य करेण शिरोधिमच्छात्।’ (धा। का। २-५९)।]]
05
=>
(७७)