| YouTube Channel

ईक्षितः (IkSitaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ईक्ष दर्शने”@} 2 ईक्षकः-क्षिका, ईक्षकः-क्षिका, 3 ईचिक्षिषकः-षिका
ईक्षिता-त्री, ईक्षयिता-त्री, ईचिक्षिषिता-त्री
-- ईक्षयन्-न्ती, ईक्षयिष्यन्-न्ती-ती
4 5 कृष्णाय ईक्षमाणः, 6 ईक्षयमाणः, ईचिक्षिषमाणः
ईक्षिष्यमाणः, ईक्षयिष्यमाणः, ईचिक्षिषिष्यमाणः
7 ईट्-ईक्षौ-ईक्षः
-- -- ईक्षितः-तं-तवान्, ईक्षितः, ईचिक्षिषितः-तवान्
ईक्षः, प्रतीक्षः, प्रेक्षी 8, 9 भरतप्रतीक्षः- 10 क्षा, 11 अवसरप्रतीक्षः, ईचिक्षिषुः, ईचिक्षयिषुः
ईक्षितव्यम्, ईक्षयितव्यम्, ईचिक्षिषितव्यम्
ईक्षणीयम्, ईक्षणीयम्, ईचिक्षिषणीयम्
ईक्ष्यम्, ईक्ष्यम्, ईचिक्षिष्यम्
ईषदिक्षः-दुरीक्षः-स्वीक्षः
-- -- ईक्ष्यमाणः, ईक्ष्यमाणः, ईचिक्षिष्यमाणः
ईक्षः, व्यतीक्षा 12, ईक्षः ईचिक्षिषः
ईक्षितुम्, ईक्षयितुम्, ईचिक्षिषितुम्
ईक्षा, परीक्षा, ईक्षणा, ईचिक्षिषा, ईचिक्षयिषा
ईक्षणम्, ईक्षणम्, ईचिक्षिषणम्
ईक्षित्वा, ईक्षयित्वा, ईचिक्षिषित्वा
13 प्रेक्ष्य-परीक्ष्य, समीक्ष्य, समीचिक्षिष्य
ईक्षम् २, ईक्षित्वा २, ईक्षम् २, ईक्षयित्वा २, ईचिक्षिषम्
ईचिक्षिषित्वा २। 14
प्रासङ्गिक्यः
01
=>
(७८)
02
=>
(१-भ्वादिः-६१०। सक। सेट्। आत्म।)
03
=>
[[१। ‘कुहोश्चुः’ (७-४-६२) इत्यभ्यासस्य चुत्वम्।]]
04
=>
[पृष्ठम्००८०+ २७]
05
=>
[[१। ‘राधीक्ष्योर्यस्य विप्रश्नः’ (१-४-३९) इति कृष्णस्य सम्प्रदानसंज्ञा।]]
06
=>
[[आ। ‘वीक्षमाणो मृगं रामः चित्रवृत्तिं विसिष्मिये।।’ (भ। का। ५-५१)। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा। तदुपग्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनि- श्रेणी।।’ इति प्रक्रियासर्वस्वे।]]
07
=>
[[२। ‘स्कोः’ (८-२-२९) इति कलोपः।]]
08
=>
[[३। ‘सुप्यजातौ णिनिः’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
09
=>
[[४। ‘ईक्षिक्षमिभ्यां च’ (वा। ३-२-१) इति कर्मण्युपपदे णः। टाप्।]]
10
=>
[[B। ‘ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले।’ (भ। का। ३-२३)।]]
11
=>
[[C। ‘आसीत राजावसरप्रतीक्षः तदा प्रयासं वितथं कुर्यात्।।’ (भ। का। १२-२९)।]]
12
=>
[[५। कर्मव्यतीहारे विवक्षितेऽपि अभिधानस्वाभाव्यात् अत्र णच् नेष्ट इति स्पष्टं भाष्ये (३-३-४३)।]]
13
=>
[[ड्। ‘सङ्क्लेशितस्वकथदक्षणदीक्षितं तं प्रेक्ष्यैष जन्मफलमीषितवान् महात्मा।।’ (धा। का। १-७७)।]]
14
=>
[पृष्ठम्००८१+ २६]