| YouTube Channel

ईक्ष (IkSa)

 
शब्दसागरः
English
ईक्ष r. 1st cl. (ईक्षते) To see. It most usually occurs compounded with
one or other of the prepositions, as with अप, to expect
with अभि,
to gaze at
with अव, to inspect
with उत् or उप, to expect or
await
with उप, to abandon
with निर्, to see
with परि, to try,
to test, to assay
with प्र, to see, to resemble, or look like
with
वि, to inspect
with प्रति, 1. to took for, to expect, 2. to venerate
with सम्, to compare, to contrast, to select
with प्रति and उत्, to
look up at.
Capeller Eng
English
ईक्ष
f.
looking, seeing (—°)
f.
view,
consideration.
Spoken Sanskrit
English
ईक्ष - IkSa -
adj.
- looking
ईक्ष - IkSa -
adj.
- visiting
ईक्ष - IkSa -
adj.
- seeing
ईक्ष - IkSa -
n.
- anything seen
Wilson
English
ईक्ष r. 1st cl. (ईक्षते) To see. It most usually occurs compounded
with one or other of the prepositions, as
with अप, to expect
with अभि, to gaze at
with अव, to inspect
with उत् or उप, to expect or await
with उप, to abandon
with निर्, to see
with परि, to try, to test, to assay
with प्र, to see, to resemble, or look like
with वि, to inspect
with प्रति,
1 to look for, to expect,
2 to venerate
with सम, to compare, to contrast, to select
with प्रति and उत्, to look up at.
Monier Williams Cologne
English
ई॑क्ष mf(ई)n. ifc. seeing, looking, visiting (See तिर्यग्-ईक्ष, वध्व्-ईक्ष)
ई॑क्ष
n.
anything seen,
ŚBr.
vii, 1, 2, 23 (merely for the
etym.
of अन्तरिक्ष).
Monier Williams 1872
English
ईक्ष, अस्, आ, अम्, looking [cf. तिर्यग्-ईक्ष]
an
opening, hole, mesh, (in क्षुद्रेक्ष, having small
meshes.)
Shabdartha Kaustubha
Kannada
ईक्ष - दर्शने (भ्वा० आत्म० सक० से०) ईक्षते
पदविभागः - > धातुः
कन्नडार्थः - > ನೋಡು /ವೀಕ್ಷಿಸು
प्रयोगाः - > "क्षणलक्ष्यमाणवक्त्रश्रियः सभयकौतुकमीक्षते स्म"
उल्लेखाः - > माघ० ५-१७
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ईक्ष्
मूलधातुः:
ईक्ष
धात्वर्थः:
दर्शने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ईक्षते
धातुप्रदीपः
Sanskrit
ईक्षँ ईक्ष दर्शने
- ईक्षते ।ईक्षाञ्चक्रे ईक्षणम् ।।610।।
शब्दकल्पद्रुमः
Sanskrit
ईक्ष दर्शने इति कविकल्पद्रुमः
(भ्वादिं-आत्मं-सकं-सेट् ।) दर्शनमिह चाक्षुषज्ञानं प्रणिधानञ्च ।ङ ईक्षते चन्द्रं लोकः “न कामवृत्तिर्व्वचनीय-मीक्षते” इति कालिदासः
“निरीक्षिष्यामियान्मुनीन् इति गणकृतानित्यत्वात्” इति रमानाथः
“वस्तुतस्तु निरीक्ष्यते निरीक्षः पचादित्वादन् ततोनिरीक्ष इवाचरतीतिक्वौ साध्यं” इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ईक्ष दर्शने पर्य्यालोचने
भ्वा०
आत्म०
सक०
सेट् ।ईक्षते ईक्षीत ईक्षताम् ऐक्षत ऐक्षिष्ट ईक्षाम्--बभूव आ-स--चक्रे--ईक्षिता ईक्षिषीष्ट ईक्षिष्यते ऐक्षिष्यत ईक्षितव्यःईक्षणीयः ईक्ष्यः ईक्षिता ईक्षितः ईक्षित्वा वीक्ष्य ईक्ष-णम् ईक्षा ईक्षमाणः कर्म्मणि ईक्ष्यते ईक्ष्यमाणः ।धातुनिर्देशे इक्षतिः ईक्षिः “न धर्मवृद्धेषु वयः समी-क्ष्यते” कामवृत्तिर्वचनीयमीक्षते” कुमा० “तदैक्षतबहु स्यां प्रजायेय” श्रुतिः “स प्रजापतिरीक्षां चक्रे”श्रुतिः “सर्वभूतस्थमात्मानं सर्व्वभूतानि चात्मनि ईक्षतेयोगयुक्तात्मा” गीता “कथमीक्षामहे सर्वे, दुर्य्योधन!तवेप्सितम्” भा० व० २९८ श्लो० “ऐक्षिष्ट पुंभिः प्रचि-नान् गोष्ठान्” भट्टिः वेदे पदव्यात्यासोऽपि “कश्चिद्धीरःप्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठो० पृ-ष्टेनशुफाशुभालोचने तद्योगे शुभाशुभसंबन्धिनि चतुर्थी ।“राधीक्ष्योर्यस्य विप्रश्नः” पा० “यदीयः विविधः प्रश्नःक्रियते तस्मिन् चतुर्थीत्यर्थः “कृष्णाय ईक्षते गर्गःपृष्टोगर्गः शुभाशुभं पर्त्यालोचयतीत्यर्थः” सि० कौ० “ईक्षतेर्ना-शब्दम्” शा० सू० “कारणे ईक्षितृत्वश्रवणात्” भा० ।अधि + विवेचने अधीक्षते “कुहकचकितोलोकः सत्येऽप्यपायमधीक्षते” हितो० ।अनु + अनुचिन्तने “तामन्वीक्षत इयं वै वल्मीकवपेयम्”शत० ब्रा० ६, ३, ३, “अन्वीक्षमाणीरामस्तु विषण्णंभ्रान्तचेतनम्” रामा० ।अप--आकाङ्क्षायामनुरोधे अवधिनियमे “अपेक्षतेप्रत्ययमुत्तमं त्वाम्” कुमा० “अपेक्षन्ते स्नेहं पात्रंन दशान्तरम् परोपकारनिरतामणिदीपा इवोत्तमाः”उद्भटः “किमपेक्ष्य फलम् पयोधरान् ध्वनतः प्रार्थयतेमृगाधिपः” किरा० “द्वित्वादयः परार्द्धान्ता अपेक्षा-बुद्धिजामताः” “अपेक्षाबुद्धिनाशाच्च तेषां नाशः प्रकीर्तितः”भाषा० “शब्दोव्यञ्जकत्वेऽर्थान्तरमपेक्षते” सा० द० ।“सापेक्षत्वेऽप्रि गमकत्वात् समासः” पा० भा० “सा प्रक्रियाया कथमित्यपेक्षा” मीमा० “नदीशः परिपूर्णोऽपिमित्रोदयमपेक्षते” चन्द्रा० ।वि + अप + विशेषेणापेक्षयाम् “न व्यपैक्षत समुन्सुकाः प्रजाः”रघु० “व्यपेक्षमाणौ सहसीतयागतौ” रामा० “सभर्थःपदविधिः” पा० भा० व्यपेक्षाऽव्यपेक्षापक्षद्वयमुपन्य-स्तम् तत्र व्यपेक्षापक्षोमतान्तरेण उपन्यस्तः चयुक्तिविरुद्धत्वात् कैयटविररणादौ दूषितः “वाक्यवत्सा व्यपेक्षाऽपि वृत्तावपि हीयते” भर्तृ० सा शब्द-बोधिपयोगिन्याकाङ्क्षारूपा आकाङ्क्ताशब्दे विवृतिः ।अव + चाक्षुषदर्शने “योत्स्यमानानवेक्षेऽहं एतेऽत्र समा-गताः” गीता “अवेक्षमाणोमहतीं मुहुर्मुहुः” माघःसम्यक्पर्य्यालोचने “यदवोचदवेक्ष्य सुन्दरी” किरा० ।अनु + अव + पर्य्यालोचने अनुसन्धाने “सूक्ष्मतां चान्ववेक्षेतयोगेन परमात्मनः” मनुः ।अभि + अव + भोजनार्थेक्षणे “यजमानस्य पशूनभ्यवेक्षते” शत०ब्रा० ११, १, ५, ११, “अभ्यवेक्षते अभ्यवहर्तुं पश्यति” भा० ।परि + अव + समन्ताद्दर्शने “ततो वाचस्पतिर्जज्ञे तं मनःपर्य्यवेक्षते भा० आश्व० २१ अ० ।प्रति + अव + प्रतीत्य पर्य्यालोचनया दर्शने “अथेमां प्रत्यवेक्ष-माणो जपति” शत० ब्रा० ५, ३, ४, २० ।सम् + अव + सम्यग्दर्शने “नृपोपमोऽयं समवेक्षते सभाम्”भा० वि० २१८ श्लो० “यदि दृष्टं बलं सर्व्वं वयञ्च समवे-क्षिताः” भा० आ० २५ अ० सम्यक्पर्य्यालोचने “सर्वंतु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः ।आ + सम्यग्दर्शने “स्मयन्निवैक्ष्य पाञ्चालोम्” भा० स० २३८०१उद् + ऊर्द्ध्वदर्शने “सहस्ररश्मिना साक्षात् सप्रणामसुदी-क्षिताः” कुमा० अपेक्षायाञ्च “त्रीणि वर्षाण्युदीक्षेतकुमार्य्यृतुमती सती” मनुः ।उप + हेयत्वज्ञानेन परित्यागे “उपेक्षया स्वत्वहानिः” दाय-भा० टी० “ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्” भा०व० ११ अ० प्रतिचिकीर्षाभावे “उपेक्षते यः श्लथवन्धिनी-र्जटाः” कुमा० “नीपपेक्षेत क्षणमपि राजा साहसिकंनरम्” मनुः अपर्य्यालोचने अनुसन्धानाभावे “गूढेनचरता तत्त्वमुपेक्षितमिदं मया” रामा० ।सम् + उप + सम्यगुपेक्षायाम् “शत्रुपक्षं समाधातु योमो-हात् समुपेक्षते” भा० स० १०६० श्लो० ।निस् + निर् + निःशेषेण दर्शने निश्चयार्थं दर्शने “यावदेता-न्निरीक्षेऽहं योद्धुकामानवस्थितान्” गीता ।परि + तत्त्वानुसन्धाने प्रमाणाद्युपन्यासेन वस्तुतत्त्वावधारणे च“परीक्ष्य लोकान् कर्म्मचितान्” श्रुतिः न्यायसूत्रवृत्त्यादौप्रमाणप्रेमेयादि परीक्षा बहुशो दर्शिता सम्यक्विवेचनेच “नैता रूपपं रीक्षन्ते नासां बयसि संस्थितिः सुरूपंवा विरूपं वा पुमानित्ये भुञ्जते” मनुः लक्षणादिम-त्त्वेन ज्ञाने अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः ।मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये” भा० आश्व० ३०२७ श्लो० “यत्नात् परीक्षितः पुं स्त्वे” या० स्मृ० “सर्व्वस्यहि परीक्ष्यन्ते स्वभावा नेतरे गुणाः” हितो० भक्तिमत्त्वा-दिना ज्ञाने “मायां मयोद्भाव्य परीक्षितोऽसि” रघुः ।विवादे सत्यत्वासत्यत्वादिसंशयनिरासाय स्वपक्षप्रामाण्य-व्यवस्थापनाय शपथकरणे तुलापरीक्षादि परीक्षा-शब्दे विवृतिः ।प्र + प्रकर्षेण दर्शने “प्रेक्षन्ते सर्व्वभूतानि वहुशः पर्व्वसन्धिषु”भा० व० ११ ६५७ “यत् किञ्चिद्दर्शवर्षाणि सन्निधौ प्रेक्षतेधनी” भा० व० मनुः “उदायुधानापततस्तान् दृप्तान् प्रेक्ष्यराघवः” रघुः “पुनः प्रेक्ष्य शूलिनम्” कुमा० ।अभि + प्र + आभिमुख्येन दर्शने “प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्” भा० व० १६३ अ० “दह्यमानमभिप्रेक्ष्यस्त्रियस्ताः संप्रदद्रुवुः” भा० व० ८८ अ० ।उत् + प्र + उत्प्रेक्षायां किञ्चिर्द्धर्म्मसाधर्म्येणान्यस्यान्यरूपताकल्पने उद्भावने “उत्पेक्षामोवयं तावन्मतिमन्तंविभीषणम्” रामा० “तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतां-स्तांश्च दिन सान्” अमरुश० “भवेत् सम्भावनोत्प्रेक्षा प्रकृ-तस्य परात्मना” सा० द० “अलङ्कारशब्दे ३९५ पृष्ठे विवृतिः ।सम् + प्र + सम्यग्दर्शने “संप्रेक्ष्य नासिकाग्रं स्वा” गीता“योगक्षेमं संप्रेक्ष्य बणिजोदापयेत् करम्” मनुः ।अभि + सम् + प्र + आभिमुख्येन सम्यग्दर्शने “अभिसंप्रेक्ष्य भ-र्त्तारं क्रुद्धा वचनमब्रवीत्” भा० आदि० प० ३० ११ ।प्रति + अनुरोधे अपेक्षायां पूजने “प्रतीक्ष्यं तत् प्रतीक्ष्यायैपितृस्वस्रे प्रतिश्रुतम्” माघः “प्रथमं संस्थिता भार्य्यापतिं प्रेत्य प्रतीक्षते” भा० आ० ३० ३३ नाभिनन्देतमरणं नाभिनन्देत जीवितम् कालमेव प्रतीक्षेत”मनुः “संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः” मनुः ।सम् + प्रति + सम्यक्प्रतीक्षायाम् “मुहूर्त्तं संप्रतीक्षस्व” भा०आ० २९० “एकवेणीधरा हि त्वां नगरी संप्रती-क्षते” रामा० ।वि + विशेषेण दर्शने “वीक्षन्ते त्वां विस्मिताश्चैव सर्वे” गोता ।“सीमाज्ञाने नृणां वीक्ष्य नित्य लोके विपर्य्ययम्” मनुः ।“जडीकृतस्त्र्यम्बकवीक्षणेन” रघुः ।अनु + वि + सन्ततवीक्षणे पश्चाद्वीक्षणे “तस्माद्दिशोऽनु-वीक्षमाणोजपति” शत० ब्रा० ५, २, १, २५ ।अभि + वि + आभिमुख्येन वीक्षणे “नचैनं भुवि शक्नोति कश्चिद-प्यभिवीक्षितुम्” मनुः ।उद् + वि + ऊर्द्धवीक्षणे “उद्वीक्षंमाणा भर्त्तारं मुखेन परिशुष्यता”रामा० “पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत” भा०अनु० अ० “उद्वीक्षितं प्रकृबिभिर्भरतानुगाभिः” रघुः ।सम् + उद् + वि + समन्तादुद्वीक्षणे “निषेदुर्भूमिपाः सर्ते समुद्-द्वीक्ष्य परस्परम्” रामा० ।प्रति + वि + प्रतिदर्शने यत्कर्तृकं स्वदर्शनं तस्य स्वेन दर्शने ।“ततः सराजा प्रतिवीक्ष्य ताः स्त्रियः” रामा० ।सम् + वि + सम्यग्वीक्षणे ।सम् + सम्यग्दर्शने पर्य्याम्रोच्य दर्शने “पुरस्तादेव प्रतीचे स-मीक्षमाणायानुब्रुयात्” शत० ब्रा० ११, ५, ४, १४ ।“समीक्ष्य वसुधां चरेत्” मनुः “अग्रहस्तसुमुक्तेनशीकरेण नागराट् समैक्षत गुडाकेशम्” मा०आश्व० २२३१ श्लो० “तान् समीक्ष्य कौन्तेसः सर्व्वान्वन्धूनवस्थितान्” गीता “उचितमेवैसमीक्ष्यकमतान्मा-रिणः” हितो० “समीक्ष्य कुलधर्म्मांश्च स्वधर्म्मं प्रति-पादयेत्” मनुः ।प्र + सम् + प्रकर्षेण सम्यगीक्षणे “सह सर्व्वाः समुत्पन्नाःप्रसमीक्ष्यापदोभृशम्” मनुः “कुलं ख्यातिञ्च वृत्तं चबुद्ध्या तु प्रसमीक्ष्य च” भा० आ० ४३७४ श्लो०
क्षीरतरङ्गिणी
Sanskrit
ईक्षँ ईक्ष दर्शने
- राधीक्ष्योर्यस्य विप्रश्नः (1439) इति सम्प्रदानम्-चैत्रायेक्षते ईक्षिक्षमिभ्याञ्च (321 वा0) इति णः- ग्रामेक्षा स्त्री प्रेक्षा 604
धातुवृत्तिः
Sanskrit
ईक्षँ ईक्ष (अर्थः) दर्शने
( ईक्षते ईक्षां चक्रे ईक्षिता ईक्षिष्यते ईक्षताम् ऐक्षत ईक्षेत ईक्षिषीष्ट ऐक्षिष्ट ईचिक्षिषते ईक्षयति ऐचिक्षत् देवदत्तायेक्षते नैमित्तिकः ) पृष्टः सन् शुभाशुभं पर्यालोचयतीत्यर्थः "राधीक्ष्योर्यस्य विप्रश्नः'' यद्विषयं पृच्छ्यत इत्यर्थः स्वसंबन्धिनः शुभाशुभस्य विप्रश्नयोगित्वात्कारकमपि तथोच्यते तदिह धातुरर्थात् शुभाशुभपर्यालोचनवृत्तिः अन्यत्र देवदत्तमिति द्वितीयैव ( सुखं प्रतीक्षते सुखप्रतीक्षः सुखप्रतिक्षा ) [ ईक्षिक्षमिभ्यां चेति वक्तव्यम् ] इति कर्मण्युपपदेऽणप्रत्ययः 602
कृदन्तरूपमाला
Sanskrit
1 {@“ईक्ष दर्शने”@} 2 ईक्षकः-क्षिका, ईक्षकः-क्षिका, 3 ईचिक्षिषकः-षिका
ईक्षिता-त्री, ईक्षयिता-त्री, ईचिक्षिषिता-त्री
-- ईक्षयन्-न्ती, ईक्षयिष्यन्-न्ती-ती
4 5 कृष्णाय ईक्षमाणः, 6 ईक्षयमाणः, ईचिक्षिषमाणः
ईक्षिष्यमाणः, ईक्षयिष्यमाणः, ईचिक्षिषिष्यमाणः
7 ईट्-ईक्षौ-ईक्षः
-- -- ईक्षितः-तं-तवान्, ईक्षितः, ईचिक्षिषितः-तवान्
ईक्षः, प्रतीक्षः, प्रेक्षी 8, 9 भरतप्रतीक्षः- 10 क्षा, 11 अवसरप्रतीक्षः, ईचिक्षिषुः, ईचिक्षयिषुः
ईक्षितव्यम्, ईक्षयितव्यम्, ईचिक्षिषितव्यम्
ईक्षणीयम्, ईक्षणीयम्, ईचिक्षिषणीयम्
ईक्ष्यम्, ईक्ष्यम्, ईचिक्षिष्यम्
ईषदिक्षः-दुरीक्षः-स्वीक्षः
-- -- ईक्ष्यमाणः, ईक्ष्यमाणः, ईचिक्षिष्यमाणः
ईक्षः, व्यतीक्षा 12, ईक्षः ईचिक्षिषः
ईक्षितुम्, ईक्षयितुम्, ईचिक्षिषितुम्
ईक्षा, परीक्षा, ईक्षणा, ईचिक्षिषा, ईचिक्षयिषा
ईक्षणम्, ईक्षणम्, ईचिक्षिषणम्
ईक्षित्वा, ईक्षयित्वा, ईचिक्षिषित्वा
13 प्रेक्ष्य-परीक्ष्य, समीक्ष्य, समीचिक्षिष्य
ईक्षम् २, ईक्षित्वा २, ईक्षम् २, ईक्षयित्वा २, ईचिक्षिषम्
ईचिक्षिषित्वा २। 14
प्रासङ्गिक्यः
01
=>
(७८)
02
=>
(१-भ्वादिः-६१०। सक। सेट्। आत्म।)
03
=>
[[१। ‘कुहोश्चुः’ (७-४-६२) इत्यभ्यासस्य चुत्वम्।]]
04
=>
[पृष्ठम्००८०+ २७]
05
=>
[[१। ‘राधीक्ष्योर्यस्य विप्रश्नः’ (१-४-३९) इति कृष्णस्य सम्प्रदानसंज्ञा।]]
06
=>
[[आ। ‘वीक्षमाणो मृगं रामः चित्रवृत्तिं विसिष्मिये।।’ (भ। का। ५-५१)। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा। तदुपग्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनि- श्रेणी।।’ इति प्रक्रियासर्वस्वे।]]
07
=>
[[२। ‘स्कोः’ (८-२-२९) इति कलोपः।]]
08
=>
[[३। ‘सुप्यजातौ णिनिः’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
09
=>
[[४। ‘ईक्षिक्षमिभ्यां च’ (वा। ३-२-१) इति कर्मण्युपपदे णः। टाप्।]]
10
=>
[[B। ‘ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले।’ (भ। का। ३-२३)।]]
11
=>
[[C। ‘आसीत राजावसरप्रतीक्षः तदा प्रयासं वितथं कुर्यात्।।’ (भ। का। १२-२९)।]]
12
=>
[[५। कर्मव्यतीहारे विवक्षितेऽपि अभिधानस्वाभाव्यात् अत्र णच् नेष्ट इति स्पष्टं भाष्ये (३-३-४३)।]]
13
=>
[[ड्। ‘सङ्क्लेशितस्वकथदक्षणदीक्षितं तं प्रेक्ष्यैष जन्मफलमीषितवान् महात्मा।।’ (धा। का। १-७७)।]]
14
=>
[पृष्ठम्००८१+ २६]
Capeller
German
ईक्ष,
f.
(—°) sehend, blickend
f.
Blick, Anblick.
Stchoupak
French
ईक्ष-
a. ifc. qui voit
m.
maille (d'un filet).