| YouTube Channel

ईँशुचिँर् (I~zuci~r)

 
धातुप्रदीपः
Sanskrit
ईशुचिर् पूतीभावे
- शुच्यति शुच्यते शुशोच शुशुचे अशुचत् अशोचीत् अशोचिष्ट शुचित्वा शोचित्वा शुशुचिषति शुशोचिषति शुक्तम् शुक्तिः शोचतीति शुच शोक इत्यस्य रूपम् 59
क्षीरतरङ्गिणी
Sanskrit
ईशुचिर् पूतिभावे
-(अर्थविवरणम्) पूतिभावः क्लेदः
शुच्यते, शुच्यति अशुचत्, अशोचीत्, अशुचिष्ट शुक्तम् भ्वादौ शुच शोके (1114)-शोचति, शुच्यी अभिषवे (1341)-शुच्यति 55
धातुवृत्तिः
Sanskrit
ईशुचिर् (अर्थः) पूतीभावे
(शुच्यते शुशुचे शोचिता शोचिष्यते शुच्यताम् अशुच्यत शुच्येत, शोचिषीष्ट, लिङौ ( अशोचिष्ट शुच्यति ) इत्यादि पूर्ववतइरित्त्वाल्लुड्यङ्विकल्पात् ( अशुचत् अशोचीत् ) इति ( शुशुचिषते, शुशोचिषते शुशुचिषति, शुशोचिषति शोशुच्यते शोशोक्ति शोचयति अशूशुचत् शुचित्वा ) "रलो व्युपधात्'' इति क्त्वासनोः कित्त्वविकल्पः ( शुक्तम् ) ईदित्त्वा ( 2 ) ( 2 ) निष्ठायामित्यधिकं पस्तकान्तरे दनिट्त्वम् रसान्तरं गतमित्यर्थः ( शुक्तिः ) "तितुत्र'' इतीण्णिषेधः ( शुक्तिका ) संज्ञायां कन् उदात्तौस्वरितेतौ शोके शोचतीति शपि गतम् 57