| YouTube Channel

इष्टापूर्त्तं (iSTApUrttaM)

 
शब्दकल्पद्रुमः
Sanskrit
इष्टापूर्त्तं,
क्ली,
(इष्टञ्च पूर्त्तञ्च द्वयोः समाहारः ।)यज्ञखातादिकर्म्म इति हेमचन्द्रः
यथा ।“अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम् ।आतिथ्यं वैश्वदेवञ्च इष्टमित्यभिधीयते
वापीकूपतडागादिदेवतायतनानि ।अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते”
इति मलमासतत्त्वधृतजातूकर्णः
(यथा, मार्क-ण्डेयपुराणे १८ ।“इष्टापूर्त्तविनाशाय तद्राज्ञश्चौरधर्म्मिणः”
तथा महाभारते ३२ ३० ।“इष्टापूर्त्तफलं स्यात् शिष्यो गुरुर्भवेत्” ।)