इष्टका (iSTakA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English इष्टका iSTakA clinker
इष्टका iSTakA brick in general
इष्टका iSTakA bakestone
इष्टका iSTakA brick used in building the sacrificial altar
इष्टका iSTakA block
इष्टका iSTakA brick
इष्टका-चिति iSTakA-citi brick-work
इष्टका - चित्र iSTakA - citra block diagram
Apte
Englishइष्टका [iṣṭakā], of a deity (Nārāyaṇa 8).
इष्टका [iṣṭakā], [इष्-तकन् टाप् 3.148]
A brick
3.
A brick used in preparing the sacrificial altar लोकादिमग्निं तमुवाच तस्मै या इष्टकी यावतार्वा यथा वा Kaṭh.1.15.Comp. -गृहम् a brick-house. -चयनम् collecting fire by means of a brick. -चित made of bricks
84
also इष्टकचित
VI.3.35. -न्यासः laying the foundation of a house. -पथः a road made of bricks. -मात्रा size of the bricks. -राशिः a pile of bricks.
Apte 1890
Englishइष्टका [इष्-तकन् टाप् Uṇ. 3. 148] 1 A brick
Mk. 3.
2 A brick used in preparing the sacrificial altar &c.
Comp.
गृहं a brick house.
चयनं collecting fire by means of a brick.
चित a. made of bricks
Dk. 84
also इष्टकचित.
न्यासः laying the foundation of a house.
पथः a road made of bricks.
राशिः a pile of bricks.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiइष्टका
- इष्-तकन्
ईंट
Shabdartha Kaustubha
Kannadaइष्टका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಇಟ್ಟಿಗೆ
निष्पत्तिः - > इषु (इच्छायाम्) - "तकन्" (उ० ३-१४८) । "इष्टकेषीकामालानां चिततूलभारिषु" इति निर्देशात् "प्रत्ययस्थात्" इति इत्वं न ।
Wordnet
Sanskrit इष्टका, ईष्टिका, सुधा
मृद्निर्मितः भर्जितः चतुष्कोणः यः भित्तिनिर्माणे उपयुज्यते।
"अस्य भवनस्य निर्माणे प्रायः लक्षाधिका इष्टिका आवश्यकी।"
Sanskrit Tibetan
Tibetansa pag
इष्टका
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritइष्टका स्त्री इष--तक्न् टाप् इष्टकेषीकामालानाम्” पा०निद्दैशान्नात इत्त्वम् । (इट्) मृददिनिर्म्मिते १ मृत्खण्डभेदेयज्ञिये अग्निचयनार्थे २ मृदादिनिर्मिते द्रव्यभेदे च शत०ब्रा० तु निर्वचनान्तरमुक्तं यथा । “यावद्यावद्वैजुहुयात्ता-वत्तावत् भवतीति तद्यस्मा इष्टेकमभवत्तस्माद्धेवेष्टका” ६, ।, २, २३ । “तं देवा अग्न्योराहुतिभिरभिषज्यन् ते यांयामा-हुतिमजुहवुः सासैनं पक्वेष्टका भूत्वा समपद्यत तद्यदिष्टात्कमभवत्तस्मादिष्टकास्तस्मादग्निना इष्टकाः पचन्त्याहु-तीरेवैनास्तत् कुर्वन्ति” इति च तत्रैव । इष्टकाकरणकाल-प्रकारादि” कात्या० श्रौ० १६, २ क० दर्शितं यथा ।“उखासम्भरणमष्टम्याम्” १ सू० । “उस्वायाः सम्भरणमुखासम्भरणम तदष्टम्यां भवति “अष्टकायामुखां सम्भरतीति(६, २, २, २३) शत० ब्रा० वचनात् । उखा चोपलक्षणम्अषाढाद्यप्यत्र सम्भ्रियतएव ततश्चान्तराले तस्या अपिप्रयोकृत्वम् । सम्प्रदायस्तु फाल्गुनकृष्णाष्टम्याम्” कर्कः“आहवनीयस्य पुरस्तान्मत्या चतुरश्रे श्वभ्रे मृत्पिण्ड-मवदधाति भूमिसमम्” २ सू० । “भूमिसममन्यूनान-तिरिक्तम्” क० । “पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्रांनिदधाति” ३ सू० । “पिण्डाहवनीययोर्व्यध्वे अर्धपथे” क० ।“व्यध्वे पिण्डाहवनीययोर्मध्ये, वन्मीकवपाम् उपदी-काकृतस्य मृच्चयस्य वपामिव वपाम् अन्तःपुटां छिद्रां छिद्र-संयुक्ताम्” संग्र० । “आहवनीयं दक्षिणेन त्रिवृन्मुञ्ज-पञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चोऽश्वगर्दभाजाः पूर्वापरा रास-भोमध्येऽश्वपूर्वाः” ४ सू० । “आहवनीयस्य दक्षिणतःत्रिवृद्भिर्मुञ्जमयीभिः पञ्चाङ्गीभिः पञ्चाङ्ग्यो मुखरिकाःताभिर्बद्धास्तिष्ठन्ति प्राङ्मुखाः अश्वगर्द्धभाजाः पूर्वापर-रीत्या रासभोमध्येऽश्वपूर्वाः” क० । “उत्तरत आहवनी-यस्यारत्निमात्र उभयतस्तीक्ष्णा वैणवी सुषिराभ्रिः कल्मा-ष्यभावेऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा” ५ सू० । “आ-तन्तर्य्यात्पशूनामुत्तरतो मा भूदित्याहवनीयग्रहणम्” क० ।“परिपाकवशात्कर्बुरा” संग्र० । “हिरण्मयीमेके” ६ सू० ।“एके आचार्य्या इच्छन्ति, अतश्च विकल्पः” क० । “अष्ट-गृहीतं जुहोति संततमुद्गृह्णन् युञ्जान इति (११, १)७ सू० । “अष्टगृहीतमाज्यद्रव्यं संततं जुहोति” क० ।“देवस्य त्वेति (११, ३) अभ्रिमादाय “हस्त आधायेत्येनाम-भिमन्त्रयते” । (११, ११) ८ सू० । “अश्वप्रभृतींश्च प्रत्यृचंप्रतूर्त युञ्जाथां योगे योगऽइति (११, १२, १४) ९ सू० ।“अभिमन्त्रयते” क० । “अनुपस्पृशन्नुत्क्रमयत्येनान्प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति”(११, १५, १६) १० सू० । “अग्निषु ज्वलत्सु पिण्डंगच्छन्त्यग्निं पुरीष्यमिति” (११, १६) । (६, ३, ३, १)शत० ब्रा० ११ सू० । “दक्षिणतश्च पशवो युगपत्”१२ सू० । “गच्छतां च दक्षिणतः पशवः, उत्तरतश्चपुरुषाः युगपद्गमनं कुर्वन्ति” क० । “अनद्धा पुरुषमीक्षतेदेवपितृमनुष्यानर्थकमग्निं पुरीष्यमिति” । (११, १६)१३ सू० । “यो देवादीन्नावति स देवपितृमनुष्यार्थ-तकः” क० । “वल्मीकवपामादाय छिद्रेण पिण्डमीक्ष-तेऽन्वग्निरिति” (११, १७) १४ सू० । “दृष्ट्वा निदधात्येनाम् ।१५ सू० । “वल्मीकवपाम्” क० । “आगत्येत्यभिमन्त्रयतेऽ-द्यम्” (११ २८) १६ सू० । “आक्रम्येत्येनेन (११, १९)पिण्डमधिष्ठापयति” १७ सू० । “एनेनेत्यश्वोऽभिधीयते”क० “द्यौस्त इति (११, २०) पृष्ठस्योपरि पाणिं धारयन्न-नुपस्पृशन्नुत्क्रामेत्युत्क्रामयति (११, २१) १८ सू० ।“अश्वम्” क० । “उदक्रमीदित्यभिमन्त्रयते (११, २२) १९क० । “अश्वमेव” क० । “आहवनीयवत् स्थापयति पिण्डस्य”२० सू० । “पशून्” क० “उपविश्य मृदमभिजुहोत्यात्वा जिघर्मीति (११, २३) “व्यतिषक्ताभ्यामृग्भ्यामाहुती(११, २२, २३) स्रुवेणाश्वपदे” २१ सू० । “मृत्-संस्कारत्वादुपविश्येत्युच्यते, व्यतिषङ्गश्च एकस्याः पूर्वार्धइतरार्धः इतरयोरप्येवमेव” क० । “अभ्र्या पिण्डं त्रिःपरिलिखति परि वाजपतिरिति (११, २५ २७) बहि-र्बहिरुत्तरयोत्तरयाभ्र्या पिण्डं खनति देवस्य त्वेति(११, २८) २२ सू० । “अभ्रिग्रहणमभ्र्यन्तरनिवृत्त्यर्थम्तथा चाह “अत्र सा वैणव्यभ्रिरुत्सीदतीति “(६, ५, -४, ३ शत० ब्रा० उत्तरया परया ऋचा पूर्वलिखिता-द्बहिबहिर्बाह्यप्रदेशे परिलिखति” । क० “कृष्णाजिनमा-स्तीर्योत्तरतस्तस्मिन् पुष्करपर्णमपां पृष्ठमिति” (११, २९)२३ सू० । “तस्मिन्कृष्णाजिने” क० । “विमार्ष्ट्येनद्दिवइति (११, २९) २४ सू० । “पुष्करपर्णम्” क० “आ-लभत उभे शर्म्म च स्थैति” (११, ३०३१) २५ सू० । “उभेकृष्णाजिनपुष्करपर्णे, शक्यत्वाच्च युगपदालम्भनम्”क० । “पिण्डं पुरीष्योऽसीति (११, ३२) ।” २६ सू०“आलभते” क० । “पाणिभ्यां परिगृह्णोत्येनं दक्षिणीत्त-राभ्यां दक्षिणः साभ्रिस्त्वामग्नैति” (११, ३२ ३८) ।षड्भिः सर्वं सकृद्धृत्वा” २७ सू० “ग्रहणे मन्त्रः “अथैनंपरिगृह्णातीति” शत० ब्रा० (६, ४, २, २) वचनात्” क०इति द्वितीया कण्डिका ।“पुष्कतपर्णे निदधाति” १ सू० । “अपः श्वभ्रेऽपनयत्यपोदेर्वारिति (११, ३८) २ सू० । “श्वभ्रः पिण्डावटः” क० ।सं तैति (११, २९) वा तमपक्षिपति” ३ सू० । “श्वभ्र-एव” क० । “अनामिकया संवपति पुरस्तात्पश्चाद्दक्षिणतउत्तरतश्च” ४ सू० । “संवापश्चावटे पुरीषस्य” क० ।“आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति” (११, ४०)५ सू० । “अस्तीर्णयोः कृष्णाजिनपलाशपर्णयोः” क० ।“बन्धनायोभयोः प्रान्तान् सर्वत ऊर्ध्वान् करोति” सग्र० ।“त्रिवृता मुञ्जयोक्त्रेणोपनह्यति वासोअग्नैति । (११, ४०)६ सू० । “उद्गृहीतानन्तान्” क० । “उत्तिष्ठति पिण्ड-मादायोदु तिष्ठेति” (११, ४१) ७ सू० । “ऊर्ध्वबाहुःप्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षुण इति” (११, ४२) ८ सू० ।“प्रसारितबाहुः पिण्डम्” क० । “अवहृत्यीपरिनाभिधारयन्नश्वप्रभृतीनभिमन्त्रयते स जातः स्थिरो मव शिवोभवेति” । (११, ४२, ४५)” ९ सू० । “अवहृत्य पिण्डं नाभे-रुपरि धारयन्” क० । “धारयत्येषामुपरि पिण्डमनुस्पृशन्प्रैतु वाजी वृषाग्निमित्यश्वखरयोः” (११, ४६) १० सू० ।“एषां पशूनामुपरि पिण्डमनुपस्पृशन् धारयति प्रैतुवाजीत्यश्वस्य, वृषाग्निमिति खरस्य” क० । “अग्न आया-हीत्याहृत्य (११, ४६) खराच्छागस्यर्तं सत्यमित्यानिधा-नात्” (११, ४७) ११ सू० । “धारयत्यनुपस्पृशन्नेव”क० । “आयन्त्यावर्त्य पशूनजः पुरस्ताद्रासभो मध्ये”१२ सू० । “स्वस्थानस्थितानामेवावृत्तिः” क० । “अनद्धापुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति” । (११, ४७) १३सू० । “अनन्यार्थत्वात् पूर्ववच्छब्देनाग्निषु प्रज्वलत्-स्वित्युच्यते (२, ११)” क० । “उत्तरत आहवनीयस्यो-द्धतावोक्षिते सिकतोपकीर्णे परिवृते प्राग्द्वारे निद-धात्योषधय इति” (११, ४७, ४८) १४ सू० । “वि पाज-सेति” (११, ४९) प्रमुच्यैनमजलोमान्यादाय प्रागुदीचःपशूनुत्सृजति १५ सू० । “प्रमुच्य पिण्डमजलोमानिगृहीत्वा प्रागुदीचीं दिशं प्रति पशूनुत्सृजति” क० ।“आपो हि ष्ठेति (११, ५०) पर्णकषायप्रक्वमुदकमासिञ्चतिपिण्डे” १६ सू० । “पर्णकषायं पलाशकषायम्”क० । पलाशत्वग्भिःक्वथितमुदकं पलाशकषायपक्वम्”संग्र० । “फेनं च तूणीं ततः कृत्वा” १७ सू० । “ततएवोदकात् पूर्वतरं फेनं कृत्वोदकमासिञ्चति चशब्दात्-फेनम्” क० । “अजलोमभिः संसृजति मित्रःसंसृज्येति (११, ५३)” १८ सू० । “पिण्डम्” ।“शर्करायोरसाश्मचूर्णैश्च रुद्राः संसृज्येति (११, ५४)”१९ सू० । “शर्करा प्रसिद्धा अयोरसो लोहसिङ्घाणः कीटइति यः प्रसिद्धः अश्मचूर्णः पाषाणचूर्णः चशब्दादेतैःपिण्डं संसृजति” क० । “शर्कराः सूक्ष्मकन्दुकाःअथोरसो लोहरसो यस्ताप्यमानाल्लोहात्पृथग्भवतीतिकीट इति लोके प्रसिद्धः अश्मा दृढपाषाणः तेषां चूर्णैःसंसृजति” संग्र० । “संसृष्टामिति” (११, ५५, ५७)संवौति” २० सू० । “पिण्डं मिश्रयति आड्वालयतीत्यर्थः”क० । “अषाढां करीति महिषी प्रथमविन्ना तदाख्या”२१ सू० । “अषाढाख्यामिष्टकां महिषी करोति ।महिषीशब्दस्यान्यत्राप्रसिद्धत्वादाह प्रथमविन्ना तदाख्या”“तद्धैव महिषीति” ब्रा० (६, ५, २, १) क० । “भार्याणांमध्ये प्रथमं लब्धा प्रथमपरिणीता या स्त्री सा तदाख्या”संग्र० । “यजमानपादमात्रीं त्र्यालिखिताम्” २२ सू० ।“महिषीपादमात्री मा भूदिति यजमानग्रहणम्” क० ।“त्रिषु स्थानेषु लिखिताम्” संग्र० । “यजमान उखांकरोति मृदमादाय मखस्य शिर इति (११, ५७) २३सू० । “मृदादाने मन्त्रः” क० । “प्रादेशमात्रीं तिर्य-गूर्ध्वां च” २४ सू० । “तिर्यगायामप्रमाणे विस्तार-प्रमाणे च” क० । “पञ्चप्रादेशामिषुमात्रीं वा तिर्यक्-पञ्चपशौ” २५ सू० । “ऊर्ध्वं तु प्रादेशमात्र्येव पञ्च-पशावपि” क० । “बसवस्त्वेति (११, ५८) प्रथयति” २६सू० । “आत्तं पिण्डम्” क० । “अन्तानुन्नीय सर्वतःप्रथमं धातुमादधाति रुद्रास्त्वेति” (११, ५८) २७ सू०“धातुशब्दान्मृत्प्रक्षेप एव” क० । “प्रथितस्य तल-प्रान्तानुन्नीय ऊर्ध्वान् गमयति, धातुं प्रथमपिण्डिकाम्”संग्र० । “संलिप्य श्लक्ष्णां कृत्वोत्तरमादित्यास्त्वेति”(११, ५८) २८ सू० । “संलिप्य शिथिलया मृदा संलिप्यवारिणा संश्लक्ष्णां सुकुमारां कृत्वा” संग्र० । “विश्वेत्वेति (११, ५८) समीकरोति” २९ सू० । (६, ५, २, ३)शत० ब्रा० । “वितृतीयौत्तरे वर्तिं सर्वतः करोत्यदित्यैरास्नेति (११, ५९) ३० सू० । उखाया ऊर्ध्वप्रमाणस्यो-त्तरे वितृतीये उपरि वर्त्तमाने तृतीये भागे सर्वतःसर्वासु दिक्षु मृण्मयीं वर्त्तिं वृत्त्याकारां रास्नां (काञ्चीगुणस्थानीयाम्) करोति” क० । “ऊर्द्ध्वास्तूष्णीं प्रतिदशं”३१ सू० । “वर्त्तीः करोति चतस्रोऽपरावर्तिं प्राप्ताः” ३२ सू० ।उखाशब्दस्याकृतिवचनत्वाद्वृत्तैवोखा भवति” क० । “सर्वासुदिक्षु पार्श्वमध्ये बाह्यप्रदेश अपराश्चसस्रो वृत्तीरूर्ध्वास्तूर्ष्णोकरोति किम्प्रमाणाः मूलत आरभ्य वृत्तिं प्राप्ताःतिरश्ची रास्नां यावदुच्चाः” संग्र० इति ३ कण्डिका“स्तनानिवाग्रेषून्नयति” १ सू० । “ऊर्ध्ववर्त्ती-नामेकैकस्याः” क० । “आसां चतसृणां वृत्तीनाम-ग्रेषु तिरश्च्या वृत्तेरुपरि स्तनानिव स्तनसदृशान्मृद-वयवानुन्नयति” संग्र० । “द्विस्तनामष्टस्तनामेके” २ सू० ।“तां हैके द्विस्तनामष्टस्तनामिति (६, ५, २, १२) श्रुतेःद्विस्तनपक्षएकस्मिन्नेव वर्त्यग्रे क्रियते अष्टस्तनपक्षे द्धौद्वाविति क० । “बिलं गृह्णात्यदितिष्टैति” (११, ५२) ३ सू० ।“मुखे गृह्णातीत्यर्थः” क० । “कृत्वायेति (११, ५२) निद-धाति उखाम्” ४ सू० । “तिस्रएके” ५ सू० । “उखाःकुर्वन्ति” (६, ५, २, १२) श० ब्रा० । “तथा च मृत्प्रिण्ड-ग्रहणाद्येकैका निधानान्ता क्रियते” क० । “इष्टकास्तुतिस्रो विश्वज्योतिषः पृथग्लक्षणास्त्र्यालिखिताः” ६ सू० ।“तुशब्दश्चार्थे चशब्दाद्यजमान एव तिस्र इष्टकाःविश्वज्यीतिःसज्ञकाः पृथग्लक्षणाः करोति लक्षणकरणंच प्रथमाद्वितीयाप्रज्ञप्त्यत्यर्थमेवोपघानं यथा स्यादिति”क० । “मृदमुपशयां निदधाति” ७ सू० । “उखां क्रिय-माणामुपशेतैत्युपशया तां मृदमतिरिच्यमानां निद-धाति कार्यार्थम्” क० । “अवशिष्टां मृदमुपशयसज्ञां”निदधाति” संग्र० । “सप्तभिरश्वशकृद्भिरुखां धूपयतिदक्षिणाग्न्यादीप्तैरेकैकेन वसवस्त्वेति (११, ६०)प्रतिमन्त्रम् ८ सू० । “शकृद्भिरश्वलेण्डैः” संग्र० ।“अभ्र्या श्वभ्रं चतुरश्रं खनत्यदितिष्ट्वेति (११, ६१)९ सू० । “अभ्रिश्च पूर्वोक्तैव प्रकृतत्वात् अत्र सा वैण-व्यभ्रिरुत्सीदतीति (६, ५, ४, ३) श० ब्रा० वचनात्” क० ।“श्रपणमास्तीर्य यथाकृतमवदधाति” १० सू० । श्वभ्रे, येनैवक्रमेण कृता अषाढाद्याः उखायां तु विशेषः, “देबानांत्वेत्युखां (११, ६१) न्युब्जाम्” ११ सू० । “अवदधाति”क० । “श्रपणेनावच्छाद्य दक्षिणाग्निनादीपयति धिष-णास्त्वेति (११, ६१) १२ सू० । “निर्मन्थ्येन वा धूपन-श्रपणे” १३ सू० । “कर्त्तव्ये” क० । “वरुत्रीष्ट्वेतीक्षमाणो(११, ६१) जपति” १४ सू० । “उखाभीक्षमाणः” क० ।“आचरति मित्रस्येति (११, ६२) १५ सू० । “आच-रणं च श्रपणप्रक्षेपः” क० । अषाढादीनामधस्तादुपरिष्टाच्चपुनः श्रपणं प्रक्षिपति” संग्र० “यावद्धाचरेत्” १६ सू० ।“यावद्भिः प्रकारैः श्रपणं प्रक्षिपेत्तावद्धानेनैव मन्त्रेणा-चरेत्” संग्र० । “दिवैव प्रदहनोद्धरणे” १७ सू० । “कर्तव्ये”(६, ५, ४, १०) श० ब्रा० । “प्रदहनं पचनम् उद्धरणं बहि-र्सिष्काशनम्” संग्र० । “उद्वपति श्रपणम्” १८ सू० ।“पदार्थतया” क० । “भस्मसाद्भूतं पराकरोति” संग्र० ।देवस्त्वेत्युखाम्” १९ सू० (११, २३) । “उद्वपति” क० ।“उत्तानां करोत्यव्यथमानेति (११, ६३) २० सू० । “उद्य-च्छत्युखाम्” (११, ६४) २१ स० । “ऊर्ध्वं यच्छति” क० ।“परिगृह्य पात्रे करोति मित्रैतां तैति” (११, ६४, २२ मू० । “अजापयसावसिञ्चति वसवस्त्वेति” (११, ६५)प्रतिमन्त्रम्” २३ सू० । “उखाम् । त्रित्वपक्षे च उत्तान-करणाद्येकैका अजापसावसेकान्ता कर्त्तव्या” क० ।“इष्टकाकियातस्त्र्यालिखितानाम्” २४ सू० । “अतऊर्ध्वमिष्टकास्त्र्यालिखिताः क्रियन्ते” क० । “अपरि-मितालिखिता वोत्तरयोः” २५ सू० । “द्वितीयाच-तुर्थ्योः कुत एतत् ते हि प्रकृत्याम्नायते “रसो हैते चितीअपरिमित उ वै रस इति” (८, ७, २, १७), श० व्रा० ।“अतश्च विकल्पोऽयम्” क० । “पूर्ववदग्निः पाके” २६सू० । “इष्टकानां पाके भवति निर्मन्थ्यो दक्षिणाग्निर्वा” क०फाल्गुनामावास्यायां दीक्षामुक्त्वा कृत्यशेषं तत्राह । “दण्डो-च्छ्रयणान्तं कृत्वाध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽ-धिश्रयति मुञ्जकुलायशणकुलायावस्तीर्णाम् अन्तरेशणां मासु भित्था इति (११, ६८) तिष्ठन्नुदङ्प्राङ्” ३१ सू० ।दण्डीच्छ्रयणान्तमाध्वरिकं कर्म कृत्वा उखामाहवनीये-ऽधिश्रयति, सा च मुञ्जकुलायावस्तीर्णा भवति अन्तरे-शणा । प्रागुदीचीं दिशमभिमुखः । अधिकारसुपजीव-न्नाह” क० “रुक्मप्रतिमोचनविष्णु क्रमवात्सप्रेषुच” ३२ सू०प्रागुदीचीं दिशमभिमुखो भवति” क० “अग्नावारूढेत्रयो-दशास्यां प्रादेशमात्रीः समिधआदधाति” ३३ सू० । “उखाया-मग्नावारूढे त्रयोदश समिधआदधाति, प्रादेशमात्रीग्रहणंच शिष्टानुस्मरणप्रज्ञप्त्यर्थम्” क० । “अनारोहत्यङ्गारानो-प्यैके” ३४ सू० । अनारोहत्यग्नावुखायाम् अङ्गारानोप्यैकेसमिदाधानं कुर्वन्ति” क० । ता इदानीमाह, “घृतोन्नांकार्मुकीं द्र्वन्न इति” (११, ७०) ३५ सू० । “आदधाति, कृमुको धमनः तदीया कार्भुकी” क० । “वैकङ्कतीं परस्याइति (११, ७१) ३६ सू० । “औदुम्बरीं परमस्या इति”(११, ७२) ३७ सू० । “अपरशुवृक्णां यदग्नैति” (११, ७३)३८ सू० । “या परशुना न छिन्ना” क० । “अकुठार-च्छिन्नाम्” संग्र० । “अधःशयां यदत्तीति” (११, ७४)३९ सू० । “भूमिसंलग्ना या सदा रूढा भवति” संग्र० ।“पालाशीः प्रत्यृचमहरहरिति” (११, ७५) । ४० सू० ।“आदधाति अथैताः पालाश्यो भवन्तोति (६, ६, ३, ७) श० ब्रावचनात्, एवं चापरशुवृक्णा अधःशया चौदुम्बर्यावेव भवतःजात्यन्तरादिधानात्” अ० । “उपोत्तमां क्षत्रियस्येच्छन्”४१ सू० । “उत्तमायाः समीपे उपोत्तमा द्धादशी, तांक्षत्रियस्य यजमानस्येच्छयादधाति अन्यस्य क्षत्रियपुरो-हितव्यतिरिक्तस्य उभे उपोत्तमोत्तमे इच्छयाधीयेते, एवंहि श्रूयते” श० ब्रा० (६, ६, ३, १२) क० । “एवं चमति, उत्तमां पुरोहितस्य” ४२ सू० । “इच्छयादधाति”क० । “उत्तमाम् बाहूइति” (११, ८२) संग्र० ।“अन्यस्योभे” ४३ सू० । “अन्यक्षत्रियस्वापुरोहितस्य चएकादश भवन्ति त्रयोदश वा” क० । “क्षत्रियपुरो-हितव्यतिरिक्तस्य द्वादशीत्रयोदश्याविच्छया भवतः” संग्र०“स्वाहाकारः सर्वासूखायाम्” ४४ सू० । “उखाया-माधीयमानासु समित्सु, अतोऽन्यत्रापि स्वाहाकारोभवति सर्वास्वित्यभिधानात्” क० । “उखायां सर्वासुसमित्सु स्वाहाकारो भवति” संग्र० । “औद्ग्रभणादिदण्डान्तमत्रैके” ४५ सू० । “एवं सति प्रागौद्ग्रभणहोमा-दुखाधिश्रयणादि” तान्यु हैकौखायामेवैतान्यौद्ग्रभणानिजुह्वतीति वचनात्” (६, ६, १, २२) क० । “अत्रावसरे”संग्र० इति ४ कण्डिका ।“यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डल-मेकविंशतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्ल-कृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डंदृशानो रुक्म इति” (१२, १) । “रुक्मं हि प्रकृत्य सर्व-मेवैतच्छूयते (६, ६, १, २), यजमानग्रहणाच्च स्वय-मेव यजसानः प्रतिमुञ्चते, द्वादशाहे च सर्वे यजमानाःप्रतिमुञ्चैयुः अत ऊर्ध्वमिण्ड्वाद्यन्वारम्भः एवं हि सर्वैःकृतं भवति” क० । “परिमण्डलं वर्तुलम्, एकविंशति-पिण्डम् पिण्डं निर्बाधम् निर्बाध्यन्ते उन्नताः निःका-श्यन्ते उन्नताः स्यरूपाद्बहिर्निःसृता भवन्ति, कृष्णाजिनशुक्लकृष्णेषु लोमसु निष्यूतं नितरां स्यूतम्, पुनः कीदृ-शम् त्रिगुणे त्रिवृति शणमये सूत्रे ओतं प्रोतम् तथा उपरिनाभि, पुनः बहिष्पिण्डं बहिर्निर्बाधम्” संग्र० ।“इण्ड्वशिक्यासन्दीषुंमुञ्जरज्ज्ववस्त्रिवृतो मृद्दिग्धाः” २ सू०उखा याभ्यां गृह्यते तौ इण्ड्वौ, शिक्यं प्रतिद्धम्, आस-न्दी च । अनुरक्ता रज्ज्ववो मृद्दिग्धा भवन्ति” क० ।“मृद्दिग्धाः कर्दमलिप्ताः” संग्र० । “परिमण्डलाभ्या-मिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति” (१२, २)३ सू० । “हरति आवाक्षामेति” (१२, २) ४ सू० ।“तामेवोखाम्” क० । “आहवनीयस्य पुरस्तादुद्गात्रा-सन्दीवदासन्द्यां चदुरश्राङ्ग्यां शिक्यवत्यां निदधाति देवाअग्निमिति (१२, २) ५ सू० । “उद्गात्रासन्दीवदितिप्रादेशपादी गम्यते” (१३, ४, २) क० । सा च चतुरङ्गीसह पादैः, तस्यां शिक्यवत्यामासन्द्या च, निदधातिउखाम्” क० । “शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वारूपाणीति” (१२, ३) ६ सु० “ग्रीवायाम्” क० ।“सशिक्यं प्राञ्चं प्रगृह्णाति सुपर्णोऽसीति” (१२, ४)पिण्डवत् ७ सू० । “सह शिक्येन प्राञ्चमग्निं प्रगृह्णाति, पिण्डवदित्यूर्ध्वबाहुः (३, ९) । “धारणं च” ८ सू० ।“पिण्डवदेव उपरिनाभि” क० । अत्र द्वाभ्यामङ्काभ्यांशुक्लयजुर्वेदस्याध्यायादि, त्रिभिरङ्कैः कात्यायनश्रौतसूत्रस्या-ध्ययकण्ढिकादि । चतुर्भिरङ्कैः शतपथब्राह्मणस्याध्यायादिज्ञेयं तेन तत्तत्प्रतीकमात्रगृहीतमन्त्रसूत्रादि तत्तत्स्थानेदृश्यम् विस्तरस्तु शत० ब्रा० ६ अ० दृश्या । लौकि-केष्टरचितप्राचीरादौ इष्टकाघनफलेन इष्टकासंख्या-ज्ञानोपायो दर्शितोलीला० यथा “चितौ करणरूत्रंसार्द्धवृत्तम् । उच्छ्रयेण गुणितं चितेः किल क्षेत्रसम्भव-फलं घनं भवेत् । इष्टकाघनहृते घने चितेरिष्टकापरि-मितिश्च लभ्यते ॥
इष्टलोच्छ्रयहृदुच्छ्रितिश्चितेः स्युःस्तराश्चदृषदां चितेरपि ॥
उदाहरणम् । अष्टादशाङ्गुलं दैर्घ्यंविस्तारो द्वादशाङ्गुलः । उच्छ्रितिस्त्र्यङ्गुला यासामिष्ट-कास्ताश्चितौ किल ॥
यद्विस्तृतिः पञ्चकराष्टहस्तं दैर्घ्यंच यस्यां त्रिकरोच्छ्रितिश्च । तस्यां चितौ किं फलमिष्टकानांसङ्ख्या च का ब्रूहि कति स्तराश्च ॥
इष्टकायाः घनहस्त-मानम् (३/३६) चितेः क्षेत्रफलम् ४० । उच्छ्रयेण ३ गुणितंचितेर्घनफलम् १२० । यथोक्तकरणे लब्धा इष्टका सङ्ख्या२५६० । स्तरसङ्ख्या २४ । एवं पाषाणचयेऽपि”ऽव्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः ।पक्वेष्टकाकृतानां दारुकृतानां च स विकल्पः । वृह० स० ।“नेष्टकारचिते पितॄन् संतर्पयेत्” शङ्खलि० । “मृण्मयात्कोटिगुणित फलं स्याद्दारुभिः कृतात् । कोटिकोटिगुणंपुण्यं फलं स्यादिष्टकामये” मठ० त० । वास्तु-यागे ‘आकाशपदे’ इष्टकारोपाचारः वास्तु याग-शब्दे दृश्यः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
