| YouTube Channel

इष्टकर्मन् (iSTakarman)

 
शब्दसागरः
English
इष्टकर्म्मन्
n.
(-र्म्म) (In arithmetic, ) Rule of supposition, operation with an
assumed number.
E.
इष्ट wished, and कर्म्मन् act.
Yates
English
इष्ट-कर्म्मन् (र्म्म) 1.
n.
The rule of
posi-
tion in arithmetic.
Spoken Sanskrit
English
इष्टकर्मन् iSTakarman
n.
operation with an assumed number
इष्टकर्मन् iSTakarman
n.
rule of supposition
Wilson
English
इष्टकर्म्मन्
n.
(-र्म्म) (In arithmetic, ) Rule of supposition, operation
with an assumed number.
E.
इष्ट wished, and कर्म्मन् act.
Monier Williams Cologne
English
इष्ट—कर्मन्
n.
(in
arithm.
) rule of supposition, operation with an assumed number.
वाचस्पत्यम्
Sanskrit
इष्टकर्मन्
न०
इष्टप्रसिद्ध्यर्थं कर्म शाक० त० लीलावत्युक्तेगणितभेदे तत्प्रकारो यथा “अथेष्टकर्मसु करणसूत्रंवृत्तम् “उद्देशकालापवदिष्टराशिः क्षुण्णो हृतोऽशैरहितोयुतो वा इष्टाहतं दृष्टमनेन भक्तं राशिर्भवेत् प्रोक्तमितीष्टकर्म अत्रोद्देशकः पञ्चघ्नः स्वत्रिभागोनोदशभक्तः सम-न्वितः राशित्र्यंशार्द्धपादैः, स्यात् कोराशिर्द्यूनसप्ततिः ।न्यासः गुणः स्वत्रिभागः (१/३) हरः १० राश्यंशाः(१/३) (१/२) (१/४) दृश्यम् ६८ अत्र किल कल्पित-राशिः पञ्चघ्नः १५ स्वत्रिभागोनः १० दश-भक्तः कल्पित राशेस्त्र्यंशार्द्धपादैः (३/३) (३/२)३/४ समन्वितोहरोजातः १७/४ अथ दृष्टम् ६८इष्टेन गुणितम् २०४ हरेण १७/४ भक्तंजातोराशिः ४८ एवं सर्वत्रोदाहरणे राशिः केनचि-द्गुणितोभक्तोवा राश्यंशेन रहितोयुतोबा दृष्टस्तत्रेष्टं राशिंप्रकल्प्य तस्मिन्नुद्देशकालापवत्कर्मणि कृते यन्निष्पद्यते तेनभजेद्दष्टमिष्टगुणं फलं राशिः स्यात् तत्र दृष्टजात्यु-दाहरणम् यूथार्द्धं सत्रिभागं वनविवरगतं कुञ्जराणाञ्चदृष्टं षड्भागश्चैव नद्यां पिबति सलिलं सप्तमांशेनमिश्रः पद्मिन्या चाष्टमांशः स्वनवमसहितः क्रीडतेसानुरागोनागेन्द्रोहस्तिनीभिस्तिसृभिरनुगतः का भवेद्यूथ-संख्या न्यासः(१/२) (१/६) (१/८) दृश्यम् एषां सवर्णने(१/३) (१/७) (१/९) द्वाभ्यामपवर्त्तितं (२/३) (४/२१) ।(५/३६) पुनरेषां सवर्णितानामैक्यं नवभिरपवर्त्तितं(२५१/२५२) इष्टोनं (१/२५२) अनेन दृष्टे इष्टगुणितेभक्ते जाता हस्तिसंख्या १००८ अपरोदाहरणम् ।अमलकमलराशेस्त्र्यंशपञ्चांशषष्ठैस्त्रिनयनहरिसूर्यायेन तु-र्येण चार्या गुरुपदमथ षड्भिः पूजितं शेषपद्यैसकलकमलसंख्यां क्षिप्रमाख्याहि तस्य न्यासः ३(१/५) (१/६) (१/४) दृश्यम् अत्रेष्ट राशिम् १प्रकल्प्य प्राग्वज्जातोराशिः १२० अन्यदुदाहरणम् ।हारस्तारस्तरुण्यानिधुवनकलहे मौक्तिकानां विशीर्णोभू-मौ यातस्त्रिभागः शयनतलगतः पञ्चमांशोऽस्य दृष्टः ।प्राप्तः षष्ठः सुकेश्या गणक! दशमकः संगृहीतः प्रियेणदृष्टं षट्कञ्च सूत्रे कथय कतिपयैर्मौक्तिकैरेष हारः ।न्यासः (१/३) (१/५) (१/६) (१/१०) दृश्यम् अत्रेष्टंराशिम् प्रकल्प्य प्राग्वज्जातीराशिः ३० अथशेषजात्युदाहरणम् स्वार्द्धं प्रादात्प्रयागे नवलवयुगलंयोऽवशेषाच्च काश्यां शेषाङ्घ्रिं शुल्कहेतोः पथि दशमल-वान् षट् शेषाद्गयायाम् शिष्टा निष्कत्रिषष्टिर्नि-जगृहमनया तीर्थपान्थः प्रयातस्तस्य द्रव्यप्रमाणं वदयदि भवता शेषजातिः श्रुतास्ति न्यासः ।(१/१) दृश्यम् ६३ अत्र रूपम् राशिं प्रकल्प्य(१ꞏ꣡२) भागान् शेषाम् शेषादपास्य अथवा भागा-(२ꞏ꣡९) पवाहविधिना सवर्णिते जातम् (७/६०)(१ꞏ꣡४) अनेन इष्टगुणिते ६३ दृष्टे भक्ते जातं(६ꞏ꣡१०) द्रव्यप्रमाणम् ५४० इदं विलोमसूत्रे-णापि सिध्यति अथ विश्लेषजात्युदाहरणम् “पञ्चां-शोऽलिकुलात्कदम्बमगमत्त्र्यंशः शिलीन्ध्रं तयोर्विश्लेष-स्त्रिगुणोमृगाक्षि! कुटजं दोलायमानोऽपरः कान्ते!केतकमालतीपरिमलप्राप्तैककालप्रियादूताहूतैतस्ततोभ्रमति खे भृङ्गोऽलिसंख्यां वद न्यासः (१/५) (१/३) (२/५)दृश्यम् जातमलिकुलमानम् १५ एवम् अन्यत्रापि”