| YouTube Channel

इषुकृत (iSukRta)

 
वाचस्पत्यम्
Sanskrit
इषुकृत
त्रि०
इषुरिव शीघ्रगामी ऋजुगामी वा कृतः बाण-तुल्यं शीघ्रगामितया ऋजुगामितया कृते “श्रिये पूष-न्निषुकृतेव देवा नासत्या” ऋ० १८४, इषुकृतेव इवशब्दएवार्थे आजिधावनाय इषुवच्छ्रीघ्रमृजुगामिनौ कृता-विव सन्तौ” भा० इषुकृता इव नासत्या इत्यादौ सर्वत्रछान्दस एतेन इषुकृच्छब्दस्योदाहरणतया एतस्याऋच उपन्यासः प्रमादिक एव