इष (iSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English इष iSa sappy
ऊर्जव्य Urjavya sappy
ऊर्जस्वत् Urjasvat sappy
इषयति { इषय } iSayati { iSaya } verb be sappy
इषयते { इषय } iSayate { iSaya } verb be sappy
Wilson
EnglishApte
Englishइषः [iṣḥ], 1 One possessed of sap or strength.
The month आश्विन
... ध्वनिमिषे$निमिषेक्षणमग्रतः 6.49.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiइषः
- इष्-अच्
"बलशाली, शक्ति सम्पन्न"
इषः
- इष्-अच्
आश्विन मास
Shabdartha Kaustubha
Kannadaइष - गतौ (दिवा० पर० सक० से०) इष्यति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹೋಗು /ನಡೆ
इष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಆಶ್ವಯುಜ ಮಾಸ
निष्पत्तिः - > इष (गतौ) - "क्विप्" (३-२-१७८) । "अच्" (५-२-१२७)
व्युत्पत्तिः - > एषमिट् यात्रा । सास्मिन्नस्ति
प्रयोगाः - > "श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः"
उल्लेखाः - > माघ० ६-४९
धातुपाठः (Krishnacharya)
Sanskrit इष्
इष
गतौ
दिवादिः
सकर्मकः
सेट्
परस्मैपदी
इष्यति
इष्
इष
आभीक्ष्ण्ये
क्र्यादिः
सकर्मकः
सेट्
परस्मैपदी
इष्णाति
इष्
इष
इच्छायाम्
तुदादिः
सकर्मकः
सेट्
परस्मैपदी
इच्छति
धातुप्रदीपः
Sanskritइषँ इष गतौ
- इष्यति इयेष प्रेषिता प्रेषिष्यति (5) इषितम् अन्वेषणा पर्य्येषणा परीष्टिः एषित्वा इषु इच्छायाम् इष आभीक्ष्ण्ये इति गणान्तरे-इच्छति इष्णाति 21
इषँ इष आभीक्ष्ण्ये
- इष्णाति इयेष एषिता 56
Sanskrit Tibetan
Tibetannya'i tshir
इष
अभिधानचिन्तामणिः
Sanskritज्येष्ठस्तु शुक्रोऽथाषाढः शुचिः स्याच्छ्रावणो नभाः ।
श्रावणिकोऽथ नभस्यः प्रौष्ठभाद्रपरः पदः ॥ १५४ ॥
भाद्रश्चाप्याश्विने त्वाश्वयुजेषावथ कार्तिकः ।
कार्तिकिको बाहुलोर्जौ द्वौ द्वौ मार्गादिकावृतुः ॥ १५५ ॥
ज्येष्ठ (पुं), शुक्र (पुंक्ली), आषाढ (पुं), शुचि (पुं), श्रावण (पुं), नभस् (पुं), श्रावणिक (पुं), नभस्य (पुं), प्रौष्ठपद (पुं), भाद्रपद (पुं), भाद्र (पुं), आश्विन (पुं), आश्वयुज (पुं), इष (पुं), कार्त्तिक (पुं), कार्त्तिकिक (पुं), बाहुल (पुं), ऊर्ज (पुं), ऋतु (पुं)
अभिधानरत्नमाला
Sanskritमधु
मधु, माधव, शुक्र, शुचि, नभस्, नभस्य, इष, ऊर्ज, सहस्, सहस्य, तपस्, तपस्य
चैत्रादिमासा मधुमाधवौ द्वौ,
ततः परं शुक्रशुची क्रमेण ।
नभोनभस्यौ कथिताविषोर्जौ,
सहःसहस्यौ च तपस्तपस्यौ ॥ ११४ ॥
verse 1.1.1.114
page 0014
शब्दकल्पद्रुमः
Sanskritइष य सर्पणे । गतौ । इति कविकल्पद्रुमः ॥
(दिवां-परं-सकं-सेट् ।) ह्रस्वादिः । य इष्यति । सर्पणंगतिः । इति दुर्गादासः ॥
इष उ श वाञ्छे । इति कविकल्पद्रुमः ॥
(तुदां-परं-अकं-सेट् । उ एषित्वा इष्ट्वा । वेमसह-लुभेत्यादिसूत्रेणैवेष्टसिद्धेऽप्यस्योदनुबन्धस्तत्सूत्रे इषगाभीक्ष्ये इष्य सर्पणे इत्येतयोरप्राप्तये विशे-षणार्थः । न च पिबादिग्रहणवत्तत्र इच्छ इतिग्रहणेनैवेष्टसिद्धिरिति वाच्यं लाघवाभावे प्राचीन-मतस्यैव न्याय्यत्वात् । श इच्छती इच्छन्ती । अस्यैवइच्छादेशः । इच्छति धनं लोकः । इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritइष गतौ सर्पणे च दिवा० सेट् । १ इष्यति, ऐष्यत् ।ऐषीत् इषितः एषित्वा । “इष्यन् वाचमुपवक्तेव होतः”ऋ० ९, ६४, ९ । “योऽभिवात इषितः प्रवाति” अथ०१०, ८, ३५ । “स तत्कृषीषितस्तूयमग्ने” अथ० ६, ३५, ५ । “हिन्वानो वाचमिष्यसि” ऋ० ९, ६४, ९ । इच्छा-यामपि “अप इष्य होतरित्थप इच्छ होतरित्यैवेतदाह”शत० ब्रा० ३, ९, ३, १५ । गतौ तुदादिरपि इषति निरु० ।अनु + अन्वेषणे गवेषणे “अन्विष्यन्तस्ततःसीताम्” रामा०“यावदेनामन्वेष्यामि” शकु० । “न रत्नमन्विष्यति मृग्यतेहि तत्” कुमा० । “तस्यान्विष्यन् वेतसगूढं प्रभवं सः”रघुः । स्वार्थे णिच् । तत्रैव “राममन्वेषयामि” सा० द० ।प्र + प्रेरणे । “अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्”भा० व० १६ अ० । “गत्वा प्रैषीच्चरावणम्” भट्टिः “अ-ध्वर्युप्रेषितोमैत्रावरुणः प्रेष्यति” आश्व० गृ० । “शौनःशेफं च प्रेष्यति” कात्या० १३, ६, १ “अग्नीषोमाभ्यां छागस्यवपायै मेदसे प्रेष्य” शत० ब्रा० ३, ८, २, २७ । घञ्प्रैष्यः । ण्यत् प्रैषः । स्वार्थेणिच् । प्रेषयति प्रेषयामास ।“स च मां प्रेषयामास” रामा० ।परि + सत्कारपूर्व्वकनियोजने पर्य्येष्यति स्वार्थे णिच् पर्य्येषितः पर्य्येषणा ।
इष वाञ्छायाम् तुदा० सेट् वेट् क्त्वः । १ इच्छति, “इच्छामि संबर्द्धितमाज्ञयाते” कुमा० । इच्छेत् “यदीच्छे-द्विपुलान् भोगान्” मल० त० । “राजान्तेवासि-याज्येभ्यः सीदन्नोच्छेद्धनं क्षुधा” या० स्मृ० । ऐच्छत्ऐषीत् “ऐषीः पुनर्जन्मजयाय यत्त्वम्” भट्टिः इयेष “इयेषसा कर्त्तुमबन्ध्यमात्मनः” कुमा० ईषतुः । इच्छन् “किमच्छन्कस्य कामाय किमर्थमनुसंज्वरेत्” श्रुतिः ।एषिता--ऐष्टा एषित्वा--इष्ट्वा । भावे श इच्छा “आत्मजन्या भवे-दिच्छा” न्यायका० । इष्टः “इष्टोऽसि मे सखा चेति” गीता ।कर्मणि इष्यते “त्रिरात्राच्छुद्धिष्यते” स्मृतिः । एष्टव्यः एषि-तव्यः । “एष्टव्या बहवः पुत्रायद्येकोऽपि गयां व्रजेत्” ।अनु + अन्वेषणे । “तं खलन्त इवान्वीषुः” शत० ब्रा० । “हन्ततमात्मानमन्विच्छामो यमन्वेष्टा” छा० उ० । “अनु-पदसन्वेष्टा” पा० “वयं तत्त्वान्वेषात् मधुकर! हतस्त्वंखलु कृती” शकु०प्रति + प्रतिग्रहे प्रतीच्छति (प्रतिगृह्णाति) । “ततःप्रतीच्छ प्रहरेति वादिनी” नैष० “स्नुषां प्रतीच्छमे कन्याम्” प्राप्तौ च “बुद्धौ शरणमन्विच्छ” गीता ।स्वार्थे णिच् वेदे० नि० गुणाभावः । इषयति “इच्छंस्तदा-स्तरायेष मदन्त इपयेम ज्योतिः” ऋ० १, १८५, ९ । “इषयेमइच्छाम” भा० ।परि + अन्वेषणे च परीच्छति (अन्विष्यति) “भगवन्तं वा अह-मेभिरार्त्विज्यैः पर्य्यैषिषम्” छा० उ० ।अभि + मस्मगिच्छायाम् अभोष्टम् ।
इष ओभोक्ष्ण्ये क्र्यादि० पौनःपुन्ये अक० सेट्इष्णाति इष्णातु इषाण । “इष्णन्निषाणामुं महेषाणसर्व्वलोकं मैषाण” यजु० ३१, २२, अ० । ऐष्णात्ऐषीत् । एषितः एषित्वा । प्रेरणे च । “भिनद्गिरिंशबसा वज्रमिष्णन्” ऋ० ४, १७, ३ । इष्णन् प्रेरयन्”भा० । इच्छार्थेऽपि “पूर्वीरिषश्चरति मध्व इष्णन्” ऋ०१, १८१, ६ । “मध्वः मधुनः इष्णन् इच्छन” भा० । आभी-क्ष्ण्यञ्च क्रियापौनःपुन्यम् । क्रिया च धात्वर्थविशेषः सच वाञ्छागत्यादिरेव तस्यैवाभीक्ष्ण्यद्योतनेऽस्य साधुत्वम्
इष गतौ सेट् । एषति ते । ऐषीत् ऐषिषटअनु--अनुसरणे । अन्वेषति । “अन्वेषन्तोवनं राजन्”“देशमन्यं दुराचारमन्वैषन् वानरास्तथा” रामा० ।
इष इष--गतौ क्विप्--इट् यात्रा सास्मिन् मासे जिगीषूणा-मस्ति अर्श आ० अच् । सौरे चान्द्रे च आश्विने १ मासि ।“श्रावण्ये भाद्रमासे युवतिगृहगते चार्थलाभः प्रदिष्टः”राजमा० उक्तेः “सौराश्विनस्य यात्राया अर्थलाभदत्वात्तथा-त्वम्” । अत एव रघौ “सरितः कुर्वती गाधाः पथश्चाश्या-नकर्दमान् । यात्रायै नोदयामास तं शक्तेः प्रथमं शरत्” ।शरत्कालस्य राज्ञां यात्रार्थत्वमुक्तम् । शरदुतुश्च “इषश्चोर्जश्चशरदिति” श्रुत्युक्त आश्विनकार्त्तिकमासरूपःकालः तस्यच सौरत्वमृतुशब्दे वक्ष्यते “आमेखलं सञ्चरतां घनानांछायामिषे सानुगतां निषेव्य” कुमा० पाठान्तरम् । “ध्वनि-मिषेऽनिषेक्षणमग्रतः” माघः । तत्र चान्द्रे “इषे मास्यसितेगक्षे नवम्यामार्दयोगतः” तिथि० देवीपु० अत्र चान्द्रोगौणः“यच्छरद्यूर्जश्च औषधः पच्यन्ते तेनोहैताविषश्चोर्जश्च”शत० ब्रा० ऋ० ४, ३, १, १७, “अन्तर्भूतण्यर्थे भावे घञर्थेक” । २ प्रेषणे “इषवान् मम रेजति” ऋ० १, २९, ६, “इषवान् प्रेषणवान्” भा० । इष--इच्छायां कर्मणिधञर्थे क ३ अन्ने निरु० ।
क्षीरतरङ्गिणी
Sanskritइषँ इष गतौ
- अन्विष्यति एषित्वः, न क्त्वा सेट् (1218) कित् प्रेषितः प्रैषः, प्रैष्यः-प्रादूहोढोढ्येषैष्येषु (6189 वा0) इति वृद्धिः इषेरनिच्छार्थस्य (33107 वा0) इति युच्-एषणा, अन्वेषणा परेर्वा (33107 वा0) पर्येषणा, परीष्टिः इश्यशिभ्यां तकन् (उ0 3148)-इष्टका क्सुश्चेषेः (द0 उ0 1154)-इक्षुः भ्वादौ ऐषृ गतौ (1409)-अन्वेषते तुदादौ इषु इच्छायाम् (658)-इच्छति क्र्य्यादौ इष आभीक्ष्ण्ये (957) इष्णाति 20
इषँ इष आभीक्ष्ण्ये
- (अर्थविवरणम्) आभीक्ष्ण्यं पौनःपुन्यम्
इष्णाति एषित्वा प्रेषितः दिवादौ इष गतौ (417)-अन्विष्यति तुदादौ इषु गतौ (658)-इच्छति, इष्ट्वा एषित्वा, तीषुसह (तु0 7248) इत्यस्यैव ग्रहणम्-इष्टः अतो यस्य विभाषा (7215) इत्यस्य (957) निषेधो नास्ति-प्रेषितः 52
धातुवृत्तिः
Sanskritइषँ इष (अर्थः) गतौ
( इष्यति ) "इषुगमियमाम्'' इत्यत्र "क्सस्याचि'' इत्यतो ऽचीत्यनुवर्तते, "ष्ठिवुक्लमु'' इत्यतः शितीति च तत्र शितोऽचो विशेषणादित्संज्ञकशकारादावचि छत्त्वविधिरितीह न भवति ये तु तौदादिकमुदितं पठित्वा छत्वविधावपि तथा पठन्ति तेषां न कश्चित्क्लेशः ( इयेष, ईषतुः, इयेषिथ, ईषिव, ) पित्सु गुणे द्विर्वचनम् "अभ्यासस्यासवर्णे'' इतीयङ् अन्यत्र सवर्णदीर्घः ( प्रेषिता प्रेषिष्यति ) गुणे "वृद्धिरेचि'' इति वृद्धिं बाधित्वा, "एङि पररूपम्'' ( इष्यतु इष्य इष्याणि ऐष्यत् इष्येत् ) आशिषि, ( इष्यात् ऐषीत् इषिषिषतिएषयति मा भवानिषिषत्) ओणेरृदित्करणाद् द्विर्वचनात्पूर्वं ह्रस्व इत्युक्तम् (एषित्वा एषितः)"तीषसह'' इति तादौ विधीयमान इड्विकल्पः [इषेस्तकारेश्यन्प्रत्ययात्प्रतिषेधः] इत्युक्तत्वादिह न भवति ( प्रैषः, प्रैष्यः ) घञ्ण्यतौ [ प्रादूहोडोढ्येषैष्येषु वृद्धिर्वक्तव्या ] इति एङि पररूपापवादो वृद्धिः ( अन्वेषणा ) [ इषेरनिच्छार्थस्य युज्वक्तव्यः ] इति युच् ( पर्येषणा, परीष्टिः ) "परेर्वा'' इति युच्क्तिचौ ( एषणी ) "एषण करणे'' इति गौरादिपाठान्ङीष् ( इषीका ) "इषेः किच्च'' इतीकन्प्रत्ययः ( इष्टका ) "इष्य शिभ्यां तकन्'' इति तकन् किदित्यनुवर्तनान्न गुणः इषीकतूलम्, इष्टकचितम् ) "इष्टकेषीका'' इति चिततूलयोरुत्तरपदयोर्ह्रस्वः अत एवेष्टकेति निर्देशात् ""प्रत्ययस्थात्'' इति इत्वं न भवति तदन्तविधिना ( पक्वेष्टकचितम् ) इत्यपि भवति अयं चुरादावपीति स्वामी इष इच्छायां तुदादिः इष आभीक्ष्ण्ये क्र्यादिः 20
इषँ इष (अर्थः) इच्छायाम्
केचिदुदितं पठन्ति तस्य च प्रयोजनमिड्विकल्पे छविधौ चोदितोऽनुवाद इति, तद्विधानेऽपि तथा पठतो दैवादिकक्रैयादिकयोस्तौ न भवत इत्याहुः न च क्त्वायामिड्विकल्पः प्रयोजनं, "तीषसह'' इति तादाविड्विकल्पनात् ये त्वनुदितं पठन्ति ते "तीषसह'' इत्यत्राकारमात्रविकरणेन सहिना साहचर्य्यात्तादृशस्तौदादिक एव ग्रहीष्यतइतीतरयोरग्रहणमाहुः तथा "इषुगमियमां छ'' इत्यत्रापि "क्सस्याचि'' इत्यतोऽचीत्यनुवर्तते, तच्च "ष्ठिवुक्लमु'' इत्यतोऽनुवृत्तेन शितीत्यनेन विशेष्यतइति शिति विधीयमानं छत्वमपि तौदादिकस्यैव सम्भवति नेतरयोरित्याहुः ( इच्छति, इच्छेत् ) "इच्छार्थेभ्यो विभाषा वर्तमाने'' इति लिङ्लटौ ( इयेष, ईषतुः, ) पिति तु परत्वाद् गुणे कृते "अभ्यासस्यासवर्णे'' इतीयङ् अन्यत्र सवर्णदीर्घः ( एषिता एष्ठा एषिष्यति इच्छतु इच्छेत् ऐषीत् इच्छा ) "हच्छा'' इति शप्रत्ययो यगभावश्च निपात्यते ( इष्टिः ) इति बाहुलकात् क्तिच् "तितुत्र'' इतीड्निषेधः ( एषणी ) करणे ल्युट् ( इच्छुः ) "बिन्दुरिच्छुः'' इत्युप्रत्ययान्तो निपात्यते ( एषित्वा, इष्ट्वा ) "तीषसह'' इतीड्विकल्पः, "न क्त्वासेङ्'' इत्यकित्त्वम् (इष्टः इष्टवान् ) "यस्य विभाषा'' इत्यन्ट्त्विम् इष्यतीति श्यनि गतम् 70
इषँ इष (अर्थः) आभीक्ष्ण्ये
(अर्थविवरणम्) पौनःपुन्यं भृशार्थो वाऽऽभीक्ष्ण्यं
, तद्विषयायां क्रियायामित्यर्थः सा च यथायोग्यं, तथा च श्रूयते "पुर इष्णाति पुरुहूत' इति, अत्र भाष्यम् आसुरीणां पुरो हननादिरर्थो गम्यते इति ( इष्णाति इष्णीतः इयेष ईषतुः ईषुः इयेषिथ ईयेप ईषिव ) गुणविषये "अभ्यासस्यासवर्णे'' इतीयङ् अन्यत्र सवर्णदीर्घः, (एषिता एषिष्यति इष्णातु इषाण इष्णानि एष्णात् ऐष्णीताम् ऐष्णाः इष्णीयात् आशिषि ( इष्यात् ऐषीत् ऐषिष्यत् एषिषिषति ) परत्त्वाद्गुणे द्वितीयस्यैकाचो द्विर्वचनम् ( एषयति माभवानिषिषत् ) ऋदित्करणात्कृतन्ह्रस्वे द्विर्वचनमिति तत्रैवोक्तम् (एषित्त्वा, इषितः) "तीषसह'' इतीड्विकल्पस्तौदादिकस्यैव न दैवादिकक्रैयादिकयोरेतदर्थमेव तौदादिकमुदितं पठित्त्वा सूत्रे तमुदितं पठन्तीतिवृत्तौ स्थितम्, अनुदित्पाठिनां तौदादिकस्यैव ग्रहणे हेतुर्हरदत्तेनाकारमात्रविकरणेन सहिना साहचर्यमुक्तम् एवं धनपालसम्मताक्षीरतरङ्गिणीकारादयश्च तौदादिकस्यैव "तीषसह'' इत्यत्र ग्रहणमाहुः काश्यपस्तु [इषेस्तकारेश्यन्प्रत्ययात् प्रतिषेधः] इतिवार्त्तिकप्रामाण्यादश्यन्विकरणयोस्तौदादिकक्रैयादिकयोर्द्वयोरपीड्विकल्पमाह, हरदत्तोऽपि, "यथा तु वार्त्तिकं तथा क्रैयादिकस्याप्यत्र ग्रहणमिष्यतइति, एवञ्च तौदादित्त्वं वार्त्तिकविरुद्धम्, उक्तं च तत्र कैयटे पाठद्वयं प्रस्तुत्य "तत्र वार्त्तिककारस्य मते त्रयोऽपीषयो निरनुबन्धकाः, इह च तीषसहेतिपाठस्तदाह, इषेरितीति' 53
कृदन्तरूपमाला
Sanskrit1 {@“इष गतौ”@} 2 ‘इष्णात्याभीक्ष्ण्ये, इच्छायामिच्छेद्, गत्यर्थ इष्यति।’ 3 इति देवः।
एषकः-षिका, एषकः-षिका, 4 एषिषिषकः-षिका
5 एषिता-त्री, एषयिता-त्री, एषिषिषिता-त्री
6 इष्यन्-न्ती, एषयन्-न्ती, एषिषिषन्-न्ती
एषिष्यन्-न्ती-ती, एषयिष्यन्-न्ती-ती
एषिषिषिष्यन्-न्ती-ती
-- एषयमाणः, एषयिष्यमाणः
इट्-इषौ-इषः
-- -- इषितम्- 7 तः-तवान्, एषितम्-तः, एषिषिषितः-तवान्
8 इषः, एषः, प्रैषः 9, एषिषिषुः, एषिषयिषुः
एषितव्यम्, एषयितव्यम्, एषिषिषितव्यम्
एषणीयम्, एषणीयम्, एषिषिषणीयम्
एष्यम्, 10 प्रैष्यः, एष्यम्, एषिषिष्यम्
ईषदेषः, दुरेषः, स्वेषः
-- -- इष्यमाणः, एष्यमाणः, एषिषिष्यमाणः
एषः, एषः, एषिषिषः
11 एषितुम्, एषयितुम्, एषिषिषितुम्
12 एषणा, 13 परीष्टिः-पर्येषणा, अन्वेषणा, एषिषिषा, एषिषयिषा
14 एषणम्, एषणम्, एषिषिषणम्
15 एषित्वा, एषयित्वा, एषिषिषित्वा
प्रेष्य, प्रेष्य, समेषिषिष्य
एषम् २, एषित्वा २, एषम् २, एषयित्वा २, एषिषिषम् २
एषिषिषित्वा २।
01 (७४)
02 (४-दिवादिः-११२७-सक। सेट्। पर।)
03 (श्लो १६८)
04 [[१। ओणेरृदित्करणात् उपधाकार्यं प्रबलम्। पूर्व लघूपधगुणे द्वितीयस्यैकाचः ‘षिस्’ इत्यस्य द्वित्वम्।]]
05 [[२। ‘तीषसह--’ (७-२-४८) इतीड्विकल्पस्तु नात्र प्रबर्तते, ‘इषेस्तकारे श्यन्प्रत्य- यात् प्रतिषेधो वक्तव्यः’ (वा। ७-२-४८) इति वार्तिकात्।]]
06 [[३। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः ङिद्वद्भावात् गुणो न।]]
07 [[आ। ‘एषितुं प्रेषितो यातो मया तस्यानुजो वनम्।।’ भ। का। ५-८२।]]
08 [[४। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
09 [[५। ‘प्रादूहोढोढ्यैषैष्येषु’ (वा। ६-१-८९) इति वृद्धिः।]]
10 [[B। ‘देहि प्रभोः प्रैष्य सुसोहमाय मे जीर्णांशुकायस्त्वमझीर्णमंशुकम्।।’ धा। का। २-५७।]]
11 [[आ। ‘एषितुं प्रेषितो यातो मया तस्यानुजो वनम्।।’ भ। का। ५-८२।]]
12 [[६। ‘इषेरनिच्छार्थस्य’ (वा। ३-३-१०७) इति युच्।]]
13 [[७। ‘परेर्वा’ (वा। ३-३-१०७) इति युच् वा।]]
14 [पृष्ठम्००७७+ २४]
15 [[१। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद्गुणः।]]
1 {@“इष इच्छायाम्”@} 2 3 ‘इष्णात्याभीक्ष्ण्ये, इच्छायां इच्छेद्, गत्यर्थ इष्यति।’ 4 इति देवः।
एषकः-षिका, 5 एषिषिषकः-षिका
एष्टव्यम्
6 एष्टा-ष्ट्री, 7 एषिता-त्री
एषितव्यम्
8 इच्छन्- 9 न्ती-ती
एषणीयम्
एषिष्यन्-न्ती-ती
एष्यम्
10 इट्-इड्-इषौ-इषः
ईषदेषः-दुरेषः-स्वेषः
11 इष्टः-ष्टम्-ष्टवान्
इष्यमाणः
इषः, एषः, एषिषिषुः, 12 इच्छुः 13
14 शरणैषी 15 एषः
एष्टुम्--एषितुम्
16 इष्टि 17ः, 18 इच्छा 19
प्रेष्य
एषणम्, एषणी 20
एषम् २, एषित्वा २, इष्ट्वा २, एषित्वा
इष्ट्वा
इष्टका 21।
01 (७५)
02 (६-तुदादिः-१३५१-सक। सेट्। पर।)
03 [[(अ) केचिदमुं धातुमुदितं पठन्ति। तत्फलं तु क्त्वायामिड्विकल्प इति वक्तव्यम्। ‘इषेस्तकारे श्यन्प्रत्ययात् प्रतिषेधो वक्तव्य’ इति भाष्यात् तकारादावार्धधातुके इड्विवकल्पः सिद्ध एवेत्यत उदित्त्वस्य फलं न।]]
04 (१६८ श्लो)
05 [[२। सनि, णौ च पूर्वोक्तेषि (७४) धातुवद्रूपाणि ज्ञेयानि।]]
06 [[३। ‘तीषसह--’ (७-२-४८) इति तादेरार्धधातुकस्य इड्विकल्पः।]]
07 [[आ। ‘एष्टारमेषिता संख्ये सोढारं सहिता भृशम्।’ भ। का। ९-३१।]]
08 [[४। ‘इषगमियमां छः’ (७-३-७७) इति शे परे छकार आदेशः।]]
09 [[B। “मुरादिबन्धुः क्षुरघोरचेताः पुरन् खलानां जनजीवबर्ही। कंसः स्थितो यत्र ततर्ह लोकं स्तृढामरस्तृंहकरानभीच्छन्।।” धा। का। २-७७।]]
10 [[५। ‘झलां जशोऽन्ते’ (८-२-३९) इति जश्त्वम्। चर्त्वविकल्पः।]]
11 [[६। ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
12 [[७। ‘विन्दुरिच्छुः’ (३-२-१६९) इति तच्छीलादिषु उप्रत्ययः छकारश्च निपातितः।]]
13 [[C। ‘इच्छुः प्रसादं प्रणमन् सुग्रीवः प्रावदन् नृपम्।।’ भ। का। ७-२४।]]
14 [[८। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
15 [[ड्। ‘अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्।।’ भ। का। ४-४।]]
16 [पृष्ठम्००७८+ ३३]
17 [[१। ‘श्रुयजीषिस्तुभ्यः करणे’ (वा। ३-३-९४) इति क्तिन्। बाहुलकाद्भावेऽपीष्टिरिति।]]
18 [[आ। ‘निरचिकमदिच्छातः वानरांंश्चङ्क्रमावतः।।’ भ। का। ७-७०।]]
19 [[२। ‘इच्छा’ (३-३-१०१) इति भावे शे यगभावो निपात्यते।]]
20 [[३। करणे ल्युटि स्त्रियां ङीप्। तुलना।]]
21 [[४। ‘इष्यशिभ्यां तकन्’ (द। उ। ३। ३०) इति तकन् प्रत्ययः। इष्यते श्रेयोऽर्थिभि- रिति विग्रहः।]]
1 {@“इष आभीक्ष्ण्ये”@} 2 ‘इष्णात्याभीक्ष्ण्ये, इच्छायां इच्छेद्, गत्यर्थ इष्यति।’ 3 इति देवः।
‘इषेस्तकारे श्यन्प्रत्ययात् प्रतिषेधो वक्तव्य’ 4 इति वचनान् अस्यापि धातोः तादेरार्द्धधातुकस्य इड्विकल्पः।
तदानीं शुद्धाद्धातोः 5 इच्छार्थकधातुवत्, ण्यन्तात् सन्नन्ताच्च 6 इषधातुवच्च रूपाणि ज्ञेयानि।
शतरि परं--इष्णन्-ती 7 इति श्नाप्रत्ययः।
‘श्नाभ्यस्तयोरातः’ 8 इति आकारलोपे रूपम्) इति विशेषः।
आभीक्ष्ण्यं = पौनःपुन्यम्, भृशार्थो वा।
तद्विषयायां क्रियायामित्यर्थः।
01 (७६)
02 (९-क्र्यादिः-१५२५। सक। सेट्। पर।)
03 (श्लो। १६८)
04 (वा। ७-२-४८)
05 (७५)
06 (७४)
07 (‘क्र्यादिभ्यः श्ना’ (३-१-८१)
08 (६-४-११२)
Grassman
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
