| YouTube Channel

इवि (ivi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
इन्व्
मूलधातुः:
इवि
धात्वर्थः:
व्याप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
इन्वति
अनुबन्धादिविशेषः:
इदित्
धातुप्रदीपः
Sanskrit
इविँ इवि व्याप्तौ
- इन्वति प्रेन्वति इन्वाञ्चकार णत्वविधौ नुमोऽनुस्वारोपलक्षणार्थत्वं द्रष्टव्यम् (8/4/2 काशिका) इत्यु क्तत्वात् प्रेन्वनमिति नुम्व्यवाये णत्वं भवति ।।587।।
क्षीरतरङ्गिणी
Sanskrit
इविँ इवि व्याप्तौ
- इन्वति वकारस्य दन्त्योष्ठ्यत्वाज्झल्त्वाभावादनुस्वाराभावः 571
इविँ इवि
मानकरूपान्तरम् - जिविँ
जिवि
मानकरूपान्तरम् - दिविँ
दिवि
मानकरूपान्तरम् - धिविँ
धिवि प्रीणनार्थाः
- इन्वति इन्वकाः मृगशिरस्तारकाः जिन्वति धिन्विकृण्व्योर च(3180) इत्युविकरणः धिनोति हिवीति चान्द्राः (चा0 धा0 1204) हिन्वति 575-578
धातुवृत्तिः
Sanskrit
इविँ इवि (अर्थः) व्याप्तौ
(इन्वति) इदित्त्वान्नुम् नुम्बिधपुपदेशिवद्वचनादिजादिगुरुमत्त्वात् इन्वाञ्चकार इन्विता इन्विष्यति इन्वतु ऐन्वत् इन्व्यात् ऐन्वीत् इन्विविषति इन्वयति ऐन्विवत् इन्विष्यति इन्वकाः ) तारकाविशेषाः संज्ञायां क्कुन्, क्षिपकादित्वात् "प्रत्ययस्थात्'' इतीत्वाभावः 579
कृदन्तरूपमाला
Sanskrit
1 {@“इवि व्याप्तौ”@} 2 इन्वकः-न्विका, इन्वकः-न्विका, 3 इन्विविषकः-षिका
इन्विता-त्री, इन्वयिता-त्री, इन्विविषिता-त्री
प्रेन्वन्-न्ती, इन्वयन्-न्ती, इन्विविषन्-न्ती
इन्विष्यन्-न्ती-ती, इन्वयिष्यन्-न्ती-ती, इन्विविषिष्यन्-न्ती-ती
-- इन्वयमानः, इन्वयिष्यमाणः
इन्-इन्वौ-इन्वः
-- -- 4 इन्वितम्-तः-तवान्, इन्वितः-तम्, इन्विविषितम्-तः-तवान्
इन्वः, इन्वका, 5 इन्विविषुः, इन्विवयिषुः
इन्वितव्यम्, इन्वयितव्यम्, इन्विविषितव्यम्
इन्वनीयम्, इन्वनीयम्, इन्विविषणीयम्
इन्व्यम्, इन्व्यम्, इन्विविष्यम्
ईषदिन्वः, दुरिन्वः, स्विन्वः
-- इन्व्यमानः, इन्व्यमानः, इन्विविष्यमाणः
इन्वः, इन्वः, इन्विविषः
इन्वितुम्, इन्वयितुम्, इन्विविषितुम्
इन्वा, इन्वना, इन्विविषा
इन्वनम्, 6 प्रेन्वनम्, इन्वनम्, इन्विविषणम्
इन्वित्वा, इन्वयित्वा, इन्विविषित्वा
समिन्व्य, समिन्व्य, समिन्विविष्य
इन्वम् २, इन्वित्वा २, इन्वम् २, इन्वयित्वा २, इन्विविषम्
इन्विविषित्वा २। 7
प्रासङ्गिक्यः
01
=>
(७३)
02
=>
(१-भ्वादिः-५८७। अक। सेट्-पर।)
03
=>
[[१। ‘न न्द्राः संयोगादयः’ (६-१-३) इति नकारस्य द्वित्वनिषेधः।]]
04
=>
[[आ। ‘विश्वेन्वितं स्रङ्मधुपिन्विताङ्गकं मिन्वन्तमुच्चैः कृपयैव निन्वकान्।’ धा। का। १-७५।]]
05
=>
[[२। ‘क्वुन् शिल्पिसंज्ञयोः’ इत्यौणादिकः क्वुन् प्रत्ययः। ‘क्षिपकादीनां च’ (वा। ७-३-४५) इति ‘प्रत्ययस्थात्’ (७-३-४४) इति प्राप्तस्येत्त्वस्य निषेधः। इन्वकाः तारकाविशेषाः।]]
06
=>
[[३। ‘कृत्यचः’ (८-४-२९) इति णत्वं न, णत्वप्रकरणे नुङ्ग्रहणस्यानुस्वारोपलक्षणत्वात्।]]
07
=>
[पृष्ठम्००७६+ २६]