| YouTube Channel

इल्लिशः (illizaH)

 
शब्दकल्पद्रुमः
Sanskrit
इल्लिशः,
पुं,
इलीशमत्स्यः तत्पर्य्यायः वारि-कर्पूरः गाङ्गेयः शफराधिपः जलतालः ।इति त्रिकाण्डशेषः
इलीशः राजशफरः ७इल्लीशः जलतापी इति शब्दरत्नावली
अस्य गुणाः पित्तश्लेष्माग्निवृद्धिकारित्वम् मधु-रत्वम् हृद्यत्वञ्च इति राजवल्लभराजनिर्घण्टौ
“इल्लिशो मधुरः स्निग्धो रोचनो वह्निवर्द्धनः ।पित्तकृत् कफकृत् किञ्चित् लघुर्वृष्योऽनिलापहः”
इति भावप्रकाशः