इल (ila)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishApte
Englishइल [ila], [इल्-क] Sleepy.
ला The earth
पुष्टिकाम इलां यजेत् 2.3.5.
A cow
3.18.19.
Speech
1.13.64. see इडा. -गोलः, -लम् the earth, the globe.
तलम् the fourth place in the circle of the zodiac.
the surface of the earth. -धरः a mountain
गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् 2.54. -वृत्तम् one of the nine Varṣas or divisions of the known world
पश्चान्माल्यवतः प्राच्यां गन्धमादनशैलतः । इलावृतं नीलगिरेर्याम्यतो निषधादुदक् ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte 1890
Englishइल a. [इल्-क] Sleepy.
ला 1 The earth.
2 A cow.
3 Speech
&c, see इडा.
Comp.
गोलः,
लं the earth, the globe.
तलं {1} the fourth place in the circle of the zodiac. {2} the surface of the earth.
धरः a mountain
Śi. 20. 54.
वृतं one of the nine Varṣas or divisions of the known world
पश्चान्माल्यवतः प्राच्यां गंधमादनशैलतः । इलावृतं नीलगिरेर्याम्यतो निषधादुदक् ॥.
Shabdartha Kaustubha
Kannadaइल
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ನಿದ್ರೆಯ ಸ್ವಭಾವದ
निष्पत्तिः - > इल (स्वप्ने) - "कः" (३-१-१३५)
धातुपाठः (Krishnacharya)
Sanskrit इल्
इल
स्वप्न-क्षेपणयोः
तुदादिः
स्वप्ने अकर्मकः, क्षेपणे सकर्मकः
सेट्
परस्मैपदी
इलति
इल्
इल
प्रेरणे
चुरादिः
सकर्मकः
सेट्
उभयपदी
इलयति-ते
Abhyankara Grammar
Englishइल tad. affix applied to the words काश, अश्वत्थ, पलाश and others in the four senses prescribed in P.IV. 2.67-70
e.g. काशिलः, अश्वत्थिल:, पलाशिलः cf.P.IV.2.80.
धातुप्रदीपः
Sanskritइलँ इल स्वप्न, क्षेपणयो
- इलति इयेल ईलतुः एलिता इला 76
इलँ इल प्रेरणे
- एलयति प्रेलयति ऐलिलत् मा भवानिलिलत् (16) 122
पुराणम्
Englishइल / ILA The name taken by sudyumna when, after becoming woman, he became man again. (See under ilā I).
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritइड्(ल) स्त्री इल--क्विप् वा लस्य ड । १ हविषि अन्ने “होतारमिलः प्रथमं यतध्यै” ऋ० ३, ४, ३, “इडो हवीरूपाण्य-न्नानि” भा० “इडस्पतिर्मघवा दस्मवर्चाः” ऋ० ६, ५८, ४, “इडः अन्नस्य पतिः” भा० २ भूमौ “इन्द्रपानमूर्मिमकृण्वतेडः” ऋ० ७, ४७, १, “इडैडाया भूमेः” भा० ईड्यतेईड--क्विप् पृ० । ३ अन्ने ४ वर्षर्त्तौ ५ प्रजासु दर्शपौर्ण्णमासा-ङ्गेषु पञ्चसु प्रयाजेषु तृतीये ६ प्रयाजे च । प्रयाजाश्च“समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजतिस्वाहाकारं यजतीति” श्रुत्युक्ताः पञ्च । तेषां प्रयाजत्व-निर्वचनपूर्बकं पञ्चानामृतुरूपत्वमुक्तम् यथा “ऋतवोह वै प्रयाजाः तस्मात् पञ्च भवन्ति पञ्च ऋतव”इत्युपक्रम्य “ततो देवा अर्चन्तः श्राम्यन्तश्चेरुस्तएतान् प्रया-जान् ददृशुस्तैरयजन्त ते ऋतून् संवत्सरं प्रायजन्नृतुभ्यःसंवत्सरात् सपत्नानन्तरायंस्तस्मात् प्रजया प्रजया ह वैनामैतत् यत् प्रयाजाः इति तथो एवैष एतैरृतून् संव-त्सरं प्रजयत्युतुभ्यः संवत्सरात् सपत्नानन्तरेति तस्मात्प्रयाजैर्यजते” इति प्रयाजनिर्बचनेन ऋतुरूपत्वमेषामभिधाय समिदादीनां वसन्ततादिरूपत्वमुक्तं तत्रैव यथा“समिधो यजति तद्वसन्तं, समिन्धे स वसन्तः समिद्वोऽन्या-नृतून् समिन्धे ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्चपचन्ति तद्वेव खलु सर्वानृतून्निराहाऽथ यजयजेत्येवोत्तरानाहाऽजामितायैजामिह कुर्य्याद्यत्तनूनपातं यजेडोयजेति व्रूयात्तस्माद्यज यजेत्येवोत्तरानाह, स वै समिधोयजति । वसन्तो वै समिद्वसन्तमेव तद्देवा अवृञ्जत वसन्तात्सपत्रानन्तरायन् वसन्तं वेष एतद्वृङ्क्ते वसन्तात् सपत्नान-न्तरेति तस्मात् समिधो यजति । अथ ततूनपातं यज-ति । ग्रीष्मो वै तनूनपाद्ग्रीष्मो ह्यासां प्रजानां तनूस्तपतिग्रीष्ममेव तद्देवा अवृञ्जत ग्रीष्मात् सपत्नानन्तरायन् ग्रीष्मे-वेष एतद्वृङ्क्ते ग्रीष्मात् सपत्नानन्तरेति तस्मात्तनूनपातंयजति । अथेडो यजति । वर्ष वाइड इति हि वर्षाइडो यदिदं क्षुद्रं सरीसृपं ग्रीष्महेमन्ताभ्यां नित्यक्तभवति तद्वर्षा ईडितमिवान्नमिच्छमानं चरति तस्माद्वर्षाइडो, वर्षा एव तद्देवा अवृञ्जत वर्षाभ्यः सपत्नानन्तरायन्वर्षा उएवैष एतद्वृङ्क्ते वर्षाभ्यः सपत्नानन्तरेति त-स्मादिडी यजति । अथ बर्हिर्यजति । शरद्वै बर्हिरितिहि शरद्बर्हिर्या इमा ओषधयो ग्रीष्महेमन्ताभ्यां नि-त्यक्ता भवन्ति ता वर्षा वर्धन्ते ताः शरदि बर्हिषो रूपंप्रस्तीर्णाः शेरे तस्माच्छरद्बर्हिः शरद मेव तद्देवा अवृञ्जतशरदः सपत्नानन्तरायञ्छरदं वेष एतद्वृङ्क्ते शरदः सपत्ना-नन्तरेति तस्माद्बर्हिर्यजति । अथ स्वाहास्वाहेति यजति ।अन्तो वैष यज्ञस्य स्वाहाकारोऽन्त ऋतूनां हेमन्तो वसन्ताद्धिपरार्द्धोऽन्तेनैव तदन्तं देवा अवृञ्जतान्तेनान्तात् सपत्नानन्त-रायन्नन्तेनो एवेष एतदन्तं वृङ्क्तेऽन्तेनान्तात् सपत्नानन्तरेतितस्मात् स्वाहास्वाहेति यजति” शत० ब्रा० १, ५, ३, ११ । समि-दादीनां निरुक्त्यन्तरं प्रदर्श्य प्रजारूपत्वमिडस्तत्रोक्तंयथा “स वै समिधो यजति । प्राणा वै समिधः प्रा-णानेवैतत् समिन्धे प्राणैर्ह्ययं पुरुषः समिद्धस्तस्मादभिमृ-शेति ब्रूयाद्यद्युपतापी स्यात्स यद्युष्णः स्यादेव तावच्छंसेतसमिद्धो हि स तावद्भवति यद्यु शीतः स्यान्नाशंसेत ।तत्प्राणानेयास्मिन्नेतद्दधाति तस्मात् समिधो यजति ।अथ तनूनपातं यजति । रेतोवै तनूनपाद्रेत एवैतत्सिञ्चतितस्मात्तनूनपातं यजति । अथेडो यजति प्रजावा इडोयदा वै रेतः सिक्तं प्रजायतेऽथ तदीडितमिवान्नमि-च्छमानं चरति तत् प्रेवैतज्जनयति तस्मादिडो यजति ।अथ बर्हिर्यजति । भूमा वै बर्हिर्मूमानमेवैतत् प्रजनयतितस्माद्बर्हिर्यजति । अथ स्वाहास्वाहेति यजति । हेमन्तोवा ऋतूनां स्वाहाकारो हेमन्तो हीमाः प्रजाः स्वंवशमुपनयते तस्माद्धेमन्तान्म्लायत्न्योषधयः प्र वनस्पतीनांपलाशानि मुच्यन्ते प्रतितरामिव वयांसि भवन्त्यधस्तरा-मिव वयांसि पतन्ति विपतितलोमेव पापः पुरुषोभवति हेमन्तोहीमाः प्रजाः स्वं वशमुपनयते” । शत०ब्रा० १, ५, ४, ३ । ऋतूनां पञ्चप्रयाजभागित्वमग्नितःप्रार्थनयैव जातम् इत्यप्युक्तं तत्रैव “ऋतवोह वै देवेषु यज्ञेभागमीषिरे आनो यज्ञे भजत मा नो यज्ञादन्तर्गतास्त्वे-व नोऽपि यज्ञे भाग इति । तद्वै देवा न जज्ञुः । त ऋतवो-देवेष्वजानस्वसुरानुपावतन्ताप्रियान्देवातां द्विषतो भ्रातृ-व्यान् । ते हैतामेधितुमेधाञ्चक्रिरे । यानेषामेतामनुशृण्वन्ति कृषन्तो ह स्मैव पूर्व्वे वपन्तोयन्ति लुनुन्तोऽ-परे मृणन्तः शश्वद्धैभ्योऽकृष्टपच्या एवौषधयः पेचिरे ।तद्वै देवानामागआस । कनीयैन्न्वतोद्विषन्द्विषतेऽरा-तीयति किम्वेतावन्मात्रमुपजानीत यथेदमितोऽन्यथासदिति । ते होचुः ऋतूनेवानुमन्त्रयामहा इति केनेति प्रथमानेवैनान् यज्ञे यजामेति । सहाग्निरुवाच ।आययन्मां पुरा प्रथमं यजथ क्वाहं भवानीति न त्वामा-यतनाच्च्यावयाम इति ते यदृतूनभिह्वयमानाअथाग्नि-मायतनान्नाच्यावयंस्तस्मादग्निरच्युतोनो ह वा आयतनाच्च्यवते यस्मिन्नायतने भवति य एवमेतमग्निमच्य्युतं वेद ।ते देवा अग्निमब्रुवन् । परे ह्येनांस्त्वमेवानुमन्त्रयस्वेति सहेत्याग्निरुवाच, ऋतवोऽविदं वै वो देवेषु यज्ञे भागमितिकथं नोऽविद इति प्रथमानेव वो यज्ञे यक्ष्यन्तीति । तऋतवोऽग्निमब्रुवन् आ वयं त्वामस्मासु भजामो यो नोदेवेषु यज्ञे भागमविद इति स एषोऽग्निरृतुष्वाभक्तः समि-धो अग्ने तनूनपादग्न इडो अग्ने बर्हिरग्ने स्वाहाग्नि-मिति” शत० ब्रा० १, ६, १, ७, ८ । प्रयाजैश्चरन्तीत्युपक्रम्य “इडअग्न आज्यस्य व्यन्त्विति तृतीयः” आश्रु० श्रौ० । “इडस्पदेसमिध्यसे” यजु० १५, ३० “इड्ःपृयिव्याः” वेददी० ।
क्षीरतरङ्गिणी
Sanskritइलँ इल स्वप्न, क्षेपणयोः
- इलति इला भूः एला एलयति 79
इलँ इल प्रेरणे
- एलयति भ्वादौ-एलति 119
धातुवृत्तिः
Sanskritइलँ इल (अर्थः) स्वप्न, क्षेपणयोः
इलति इयेल ईलतुः ) गुणविषये "अभ्यासस्यासवर्णे'' इतीयङ् ( एलिता एलिष्यति इलतु ऐलत् इलेत् इल्यात् ऐलीत् ऐलिष्टाम् ऐलिष्यत् एलिलिषति ) गुणे कृत द्वितीयस्यैकाचो द्विर्वचनम् ( इला ) पृथिवी इगुपध लक्षणः कः, टाप् इल प्रेरणे चुरादौ 76
इलँ इल (अर्थः) प्रेरणे
( एलयति ऐलिलत् ) इलतीति तुदादौ 125
कृदन्तरूपमाला
Sanskrit1 {@“इल स्वप्नक्षेपणयोः”@} 2 ‘--स्वप्नप्रेरणयोः’ इति धातुकाव्ये पाठः।
एलकः-लिका, एलकः-लिका, 3 एलिलिषकः-षिका
एलिता-त्री, एलयिता-त्री, एलिलिषिता-त्री
4 इलन् 5 6 -न्ती-ती, एलयन्-न्ती, एलिलिषन्-न्ती
एलिष्यन्-न्ती-ती, एलयिष्यन्-न्ती-ती, एलिलिषिषिष्यन्-न्ती-ती
-- एलयमानः, एलयिष्यमाणः
-- इल्-इलौ-इलः
-- -- इलितम्-तः-तवान्, एलितम्-तः, एलिलिषितम्-तः-तवान्
7 इलः, इला, एलः, एलिलिषुः, एलिलयिषुः
एलितव्यम्, एलयितव्यम्, एलिलिषितव्यम्
8 एलनीयम्, एलनीयम्, एलिलिषणीयम्
एल्यम्, एल्यम्, एलिलिष्यम्
ईषदेलः, दुरेलः, स्वेलः
-- -- इल्यमानः, एल्यमानः, एलिलिष्यमाणः
एलः, एलः, एलिलिषः
एलितुम्, एलयितुम्, एलिलिषितुम्
इल्तिः- 9 इलितिः, एलना, एलिलिषा, एलिलयिषा
एलनम्, एलनम्, एलिलिषणम्
10 एलित्वा, एलयित्वा, एलिलिषित्वा
समिल्य, समेल्य, समेलिलिष्य
एलम् २, एलित्वा २, एलम् २, एलयित्वा २, एलिलिषम् २
एलिलिषित्वा २।
01 (७१)
02 (६-तुदादिः-१३५७-सक। सेट्। पर।)
03 [[३। उपधाकार्यस्य द्वित्वात् प्रबलत्वात् पूर्व गुणे द्वितीयस्यैकाचः द्वित्वम्।]]
04 [[४। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः। ‘सार्वधातुकमपित्’ (१-२-४) इति शस्य ङिद्वद्भावाल्लघूपधगुणो न।]]
05 [[आ। ‘चिलितपीतपटेन चलन् इलन् अविलितोरुकृपां परितो दृशम्।।’ धा। का। २-७८।]]
06 [[५। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम् विकल्पेन।]]
07 [[६। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः। टाप् स्त्रियाम्। इला = भूमिः।]]
08 [पृष्ठम्००७४+ २६]
09 [[१। इलितिरित्यत्र ‘तितुत्रेष्वग्रहादीनां--’ (वा। ७-२-९) इति पर्युदासादिड् भवति।]]
10 [[२। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वं न, तेन गुणः।]]
1 {@“इल प्रेरणे”@} 2 पूर्वोक्ततौदादिकेलतिवत् 3 णिजन्तात् रूपाणि सर्वाणि ज्ञेयानि।
ण्यन्तात् पचाद्यचि टापि एला-बहुलगन्धा, जलसंस्कारकफलविशेषः।
द्राविड्यां 4 ‘एलक्काय्’ इति प्रसिद्धः।
एलिलयिषकः-षिका
एलिलयिष्यमाणः
एलिलयिषिता-त्री
एलिलयिषुः
एलिलयिषन्-न्ती
एलिलयिषः
एलिलयिषिष्यन्-न्ती-ती
एलिलयिषितुम्
एलिलयिषमाणः
एलिलयिषा
एलिलयिषिष्यमाणः
एलिलयिषणम्
एलिलयिषितः-तवान्
एलिलयिषित्वा
एलिलयिषितव्यम्
समेलिलयिष्य
एलिलयिषणीयम्
एलिलयिषम्
एलिलयिष्यम् २
एलिलयिषित्वा २
इत्यादिरूपाणि-इति विशेषः।
5
01 (७२)
02 (१०-चुरादिः-१६६१-सक। सेट्। उभ।)
03 (७१)
04 [{%‘Eलक्काय्’%}]
05 [पृष्ठम्००७५+ २६]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
