इमानि (imAni)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“अर्ह पूजायाम्”@} 2 ‘--पूजनेऽर्हति चार्हयेत्।’ 3 इति देवः।
पूर्वोक्तभौवादिकार्हतिवत् 4 रूपाणि सर्वाणि ज्ञेयानि।
ण्यन्तात् सनि तु इमानि रूपाणि-- अर्जिहयिषकः-षिका
अर्जिहयिषितव्यम्
अर्जिहयिषिता-त्री
अर्जिहयिषणीयम्
अर्जिहयिषन्-न्ती
अर्जिहयिष्यम्
अर्जिहयिषिष्यन्-न्ती-ती
ईषदर्जिहयिषः-दुरर्जिहयिषः-स्वर्जिहयिषः
अर्जिहयिषमाणः
अर्जिहयिष्यमाणः
अर्जिहयिषिष्यमाणः
अर्जिहयिषः
अर्जिहयिषितम्-तः-तवान्
अर्जिहयिषितुम्
अर्जिहयिषुः
अर्जिहयिषा
5 अर्जिहयिषणम्
अर्जिहयिषम् २
अर्जिहयिषित्वा
अर्जिहयिषित्वा २
समर्जिहयिष्य
इति।।
01 (४५)
02 (१०-चुरादिः-१७३२-सक। सेट्। उभ।)
03 (१९७)
04 (४४)
05 [पृष्ठम्००४३+ २४]
1 {@“कखे हसने”@} 2 काखकः-खिका, चिकखिषकः-षिका, चाकखकः-खिका, इत्यादीनि रूपाणि क्रमेण शुद्धात्-सन्नन्तात् यङन्ताच्च, पूर्वोक्तकख 3 धातुवत् ज्ञेयानि।
ण्यन्ते परं घटादिपाठात् ‘घटादयो मितः’ 4 इति मित्त्वे, ‘मितां हस्वः’ 5 इति ह्रस्वे इमानि रूपाणि-- कखकः-खिका, कख्यमानः
कखयिता-त्री, कखः
कखयन्-न्ती, कखयितुम्
कखयिष्यन्-न्ती-ती, कखना
कखयमानः, कखनम्
कखयिष्यमाणः, कखयित्वा
कखः, चिकखयिषुः, 6 प्रकखय्य
कखयितव्यम्, 7 कखम् २
कखनीयम्, काखम् २
कख्यम्, कखयित्वा २। ईषत्कखः-दुष्कखः-सुकखः, इति विशेषः।
8
01 (१४२)
02 (१-भ्वादिः-७८४। अक। सेट्। पर। घटादिः।)
03 (१४१)
04 (गणसूत्रम्-भ्वादौ)
05 (६-४-९२)
06 [[२। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
07 [[३। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]
08 [पृष्ठम्०१४३+ २५]
1 {@“कुठि वेष्टने”@} 2 अिदित्करणात् णिचो वैकल्पिकत्वम्।
प्रायेणायं ‘अव’ पूर्वकः।
3 अव- कुण्ठयन्।
‘गुडि वेष्टने’ 4 इति धातोः पाठान्तरमिदम्।
णिज- भावपक्षे पूर्वलिखित 5 कुठिधातुवत्-केवलात् ण्यन्तात् सन्नन्तात् यङन्ताच्च रूपाणि ज्ञेयानि।
णिजभावपक्षे ‘शोषात् कर्तरि--’ 6 इति परस्मैपदमेव।
ण्यन्तात्तु सनि इमानि रूपाणि-- चुकुण्ठयिषकः-षिका, चुकुण्ठयिषिता-त्री, चुकुण्ठयिषन्-न्ती, चुकुण्ठयिषिष्यन्-न्ती-ती, चुकुण्ठयिषमाणः, चुकुण्ठयिषिष्यमाणः, चुकुण्ठयिषितः-तवान्, चुकुण्ठयिषुः, चुकुण्ठयिषितव्यम्, चुकुण्ठयिषणीयम्, चुकुण्ठयिष्यम्, ईषच्चुकुण्ठयिषः -- दुष्चुकुण्ठयिषः-सुचुकुण्ठयिषः, चुकुण्ठयिष्यमाणः, चुकुण्ठयिषः
चुकुण्ठयिषितुम्, चुकुण्ठयिषा, चुकुण्ठयिषणम्, चुकुण्ठयिषित्वा
सञ्चुकुण्ठयिष्य, चुकुण्ठयिषम् २, चुकुण्ठयिषित्वा २। इति विशेषः।
01 (२१०)
02 (१०-चुरादिः-१५८४। अक। सेट्। उभ।)
03 [[आ। ‘किञ्च स्वगात्रमवकुण्ठयतो महाहेः दर्पं चुखुण्ड विषमेष मुखाद्विवण्टन्।।’ धा। का। ३। १९।]]
04 (१०-१५८४)
05 (२०९)
06 (१-३-७८)
1 {@“घृ प्रस्रवणे”@} 2 स्रावणे इत्येके।
संप्रस्रवणे इति मा।
धा।
वृत्तौ।
‘यद्दीप्तौ क्षरणे जिघर्त्ति तदिदं केचिद्विदुश्छान्दसम्।।’ 3 इति देवः।
घारकः-रिका, घारयिता-त्री, घारयन्-न्ती, 4 धारितम्, इत्यादीनि रूपाणि सेचनार्थकगृधातुवत् 5 बोध्यानि।
ण्यन्तात् सनि तु इमानि रूपाणि--जिघारयिषकः-षिका, जिघारयिषिता-त्री
जिघारयिषन्-न्ती, जिघारयिषिष्यन्-न्ती-ती, जिघारयिषमाणः, जिघारयि- षिष्यमाणः, जिघारयिट् - जिघारयिषौ - जिघारयिषः, जिघारयिषितः- तवान्, जिघारयिषः, जिघारयिषितव्यम्, जिघारयिषणीयम्, जिघारयिष्यम्, ईषद्जिघारयिषः-दुर्जिघारयिषः-सुजिघारयिषः, जिघारयिष्यमाणः, जिघारयिषः, जिघारयिषितुम्, जिघारयिषा, जिघारयिषणम्, जिघारयिषित्वा, प्रजिघारयिष्य, जिघारयिषम् २, जिघारयिषित्वा २। इति।
6
01 (४७७)
02 (१०-चुरादिः-१६५१। सक। अनि। उभ।)
03 (श्लो। ३३)
04 [[B। ‘इत्थं सुगाजितमृदङ्गविमार्जनानि संवार्य मर्चयति घारितशङ्कमस्मिन्।’ धा। का। ३। २८।]]
05 (४२०)
06 [पृष्ठम्०४६३+ २६]
1 {@“चन श्रद्धोपहननयोः”@} 2 आधृषीयः।
“तनु श्रद्धोपकरणयोः, उपसर्गात् दैर्घ्ये च” इत्यस्य पाठान्तरमिदम्।
अस्य, आधृषीयत्वेन णिचो वैकल्पिकत्वात्, णिजभावपक्षे शुद्धात्-सन्नन्तात् 3 यङन्ताच्च भौवादिकचनधातुवत् 4 रूपाणि ज्ञेयानि।
ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्ताच्च इमानि रूपाणि -- चानकः-निका, चिचानयिषकः-षिका
चानयिता-त्री, चिचानयिषिता-त्री
चानयन्-न्ती, चिचानयिषन्-न्ती
चानयिष्यन्-न्ती-ती, चिचानयिषिष्यन्-न्ती-ती
चानयमानः, चिचानयिषमाणः
चानयिष्यमाणः, चिचानयिषिष्यमाणः
विचान्-विचानौ-विचानः
-- -- चानितः, चिचानयिषितः-तवान्
चानः, चिचानयिषुः
चानयितव्यम्, चिचानयिषितव्यम्
चाननीयम्, चिचानयिषणीयम्
चान्यम्, चिचानयिष्यम्
ईषच्चानः-दुश्चानः-सुचानः
चान्यमानः, चिचानयिष्यमाणः
चानः, िचानयिषः
चानयितुम्, चिचानयिषितुम्
चानना, चिचानयिषा
चाननम्, चिचानयिषणम्
चानयित्वा, चिचानयिषित्वा
प्रचान्य, प्रचिचानयिष्य
चानम् २, चानयित्वा २, चिचानयिषम् २
चिचानयिषित्वा २।
01 (४९५)
02 (१०-चुरादिः-१८४१। सक। सेट्। उभ।)
03 [पृष्ठम्०४७७+ २८]
04 (४९४)
1 {@“तप दाहे”@} 2 आधृषीयः।
‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत्।’ 3 इति देवः।
अस्य धातोः आधृषीयत्वात् णिचो वैकल्पिकत्वं बोध्यम्।
ण्यन्तात्, शुद्धात्, सन्नन्तात्, यङन्ताच्च पूर्वोक्तभौवादिकतपधातुवत् 4 सर्वाण्यपि रूपाणि ज्ञेयानि।
अस्योभयपदित्वात् शानचि--तपमानः-तप्स्यमानः, तितप्समानः, तितप्सिष्यमाणः, इत्यादीनि रूपाण्यधिकानि भवन्ति, इति विशेषः।
5 चित्ततापी इति शुद्धाद्धातोर्णिनिप्रत्यये।
ण्यन्तात् सनि इमानि रूपाणि-- यथा--तितापयिषकः-षिका, तितापयिषिता-त्री, तितापयिषन्-न्ती, तिता- पयिषिष्यन्-न्ती-ती, तितापयिषमाणः, तितापयिषिष्यमाणः, तितापयिट्-ड्- यिषौ-यिषः
तितापयिषितः-तवान्, तितापयिषुः, तितापयिषितव्यम्, तितापयिषणीयम्, तितापयिष्यम्, ईषत्तितापयिषः-दुस्तितापयिषः-सुतिता- पयिषः, तितापयिष्यमाणः, तितापयिषः, तितापयिषितुम्, तितापयिषा, तितापयिषणम्, तितापयिषित्वा, संतितापयिष्य, तितापयिषम् २, तिता- पयिषित्वा २।
01 (७०५)
02 (१०-चुरादिः-१८१९। सक। सेट्। उभ।)
03 (श्लो। १३१)
04 (७०४)
05 [[आ। ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्ततापि।’ धा। का। ३। ४९।]]
1 {@“ली द्रवीकरणे”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘यौ द्रवीकरणेऽनात्वे लीनयेल्लाययेल्लयेत्।।
3 लापयेत् लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 4 इति देवः।
लायकः-यिका, लिलाययिषकः-षिका, लायकः-यिका, लिलीषकः-षिका, लेलीयकः-यिका
लाययिता-त्री, लिलाययिषिता-त्री, लेता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
इत्यादीनि रूपाणि सर्वाणि ण्यन्तरूपाणि, ण्यन्तप्रकृतिकसन्नन्तरूपाणि च विना क्रैयादिकप्लिनातिवत् 5 ऊह्यानि।
ण्यन्ते-तत्प्रकृतिकसन्नन्ते च इमानि रूपाणि--लाययन्-न्ती, लिलाययिषन्-न्ती
लाययिष्यन्-न्ती-ती-लिलाययिषिष्यन्- न्ती-ती
लायमानः, लिलाययिषमाणः, लाययिष्यमाणः, लिलाययिषिष्यमाणः
लाः-लायौ-लायः
-- -- -- लायितम्-तः, लिलाययिषितम्-तः-तवान्
लायः, लिलाययिषुः
लाययितव्यम्, लिलाययिषितव्यम्
लायनीयम्, लिलाययिषणीयम्
लाय्यम्, लिलाययिष्यम्
ईषल्लायः-दुर्लायः-सुलायः
लाय्यमानः, लिलाययिष्यमाणः
लायः, लिलाययिषः
लाययितुम्, लिलाययिषितुम्
लायना, लिलाययिषा
लायनम्, लिलाययिषणम्
लाययित्वा, लिलाययिषित्वा
प्रलाय्य, प्रलिलाययिष्य
लायम् २ -लाययित्वा २
लिलाययिषम् २-लिलाययिषित्वा २। इति विशेषः।
01 (१४९३)
02 (१०-चुरादिः-१८१२। सक। अनि। उभ।)
03 [पृष्ठम्११६७+ २६]
04 (श्लो १७-१८)
05 (१०८१)
1 {@“वच परिभाषणे”@} 2 3 णिजभावपक्षे शतरि वचन् इत्यस्य प्रयोगो दृश्यते 4।
‘-- भाषणे’ इति क्षीरस्वामिमैत्रेयादयः।
“पचिं वचिम्” 5 इति पाठादनिट्त्वम्।
‘पारायणिकैः धातुरयं नाधीयते’ इति मा।
धा।
वृत्तिः।]] ‘-- सन्देशने च’ इति कातन्त्र-हेरम्बादयः।
6 ‘वक्तीति भाषणे वा णौ वाचयेत् वचतीति वा।’ 7 इति देवः।
वाचकः-चिका, विवाचयिषकः-षिका, वाचकः-चिका, विवक्षकः-क्षिका, वावचकः-चिका
वाचयिता-त्री, विवाचयिषिता-त्री, वक्ता-वक्त्री, विवक्षिता-त्री, वावचिता-त्री
इत्यादीनि रूपाणि सर्वाणि ण्यन्तप्रकृतिकसन्नन्तं विना पूर्वोक्तवचतिवत् 8 ऊह्यानि।
आधृषीयत्वाद् णिज्विकल्पः।
णिच्पक्षे इमानि रूपाणि -- वाचयन्-न्ती, विवाचयिषन्-न्ती
वाचयिष्यन्-न्ती-ती, विवाचयिषिष्यन्-न्ती-ती
वाचयमानः, विवाचयिषमाणः
वाचयिष्यमाणः
विवाचयिषिष्यमाणः
विवाचयिट्-ड्-यिषौ-यिषः
वाचितम्-तः, विवाचयिषितम्-तः-तवान्
वाचः, विवाचयिषुः
वाचयितव्यम्
विवाचयिषितव्यम्
वाचनीयम्, विवाचयिषणीयम्
वाच्यम्, विवाचयिष्यम्, ईषद्विवाचयिषः-दुर्विवाचयिषः-सुविवाचयिषः
वाच्यमानः, विवाचयिष्यमाणः
वाचः, विवाचयिषः
वाचयितुम्, विवाच- यिषितुम्
वाचना, विवाचयिषा
वाचनम्, विवाचयिषणम्
वाचयित्वा, विवाचयिषित्वा
प्रवाच्य, प्रविवाचयिष्य, वाचम् २, वाचयित्वा २
विवाचयिषम् २, विवाचयिषित्वा २। इति विशेषः।
01 (१५३५)
02 (१०-चुरादिः-१८४३। सक। सेट्। उभ।)
03 [[[अ]
04 (धा। का। ३-५२)
05 (७-२-१०। व्याघ्रभूतिकारिका)
06 [आधृषीयः। [पृष्ठम्११८४+ २६]
07 (श्लो। ५१)
08 (१५३४)
1 {@“वद सन्देशवचने”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘--भाषणे’ इति हेमचन्द्र-जैन-कातन्त्रादयः।
‘--वाक्सन्देशयोः’ इति वोपदेवः।
‘-- वचने च’ इति द्रुमे इति धा।
का।
3।
‘व्यक्तवाचि वदेद्वा णौ वादयेद् वदते वदेत्।’ 4 इति देवः।
अयं धातुः आत्मनेपदी इति शाकटायनः इति मा।
धा।
वृत्तिः।
वादकः-दिका, विवादयिषकः-षिका
वादकः-दिका, विवदिषकः-षिका, वावदकः-दिका
वादयिता-त्री, विवादयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि ण्यन्तात् सननन्तं विना पूर्वलिखितभौवादिकवदतिवत् 5 ऊह्यानि।
ण्यन्तात् सन्नन्ते इमानि रूपाणीति ज्ञेयम् -- विवादयिषिता-त्री, विवादयिषन्-न्ती, विवादयिषिष्यन्-न्ती-ती, विवा- दयिषमाणः, विवादयिषिष्यमाणः, विवादयिट्-यिषौ-यिषः
विवादयिषितम्-तः- तवान्
विवादयिषुः, विवादयिषितव्यम्, विवादयिषणीयम्, विवादयिष्यम्, ईषद्विवादयिषः-दुर्विवादयिषः-सुविवादयिषः
विवादयिष्यमाणः, विवादयिषः, विवादयिषितुम्, विवादयिषा, विवादयिषणम्, विवादयिषित्वा, प्रविवादयिष्य, विवादयिषम् २, विवादयिषित्वा २ इति।
01 (१५४८)
02 (१०-चुरादिः-१८४२। सक। सेट्। उभ।)
03 (३-५१)
04 (श्लो। १०९)
05 (१५४७)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
