| YouTube Channel

इभानुन (ibhAnuna)

 
वाचस्पत्यम्
Sanskrit
इभानुन
पु०
इभस्याननमेवाननं यस्य गजानने गणेशे तस्ययथा तदाननत्वं तथोक्तं “स्वयं गोलकनाथश्च पुण्यकस्यप्रभावतः पार्व्वतीगर्भजातश्च तव पुत्रो भविष्यति स्वयंदेवगणानाञ्च यस्मादीशः कृपानिधिः गणेश इति विख्या-तो भविष्यति जगत्त्रये “शनिदृष्ट्या शिरच्छेदात् गज-वक्त्रेण योजितः गजाननः शिशुस्तेन नियतिः केनबाध्यते” ब्रह्मवै
पु०
अ० शनिदृष्ट्या तच्छिरश्छेद-कथा तत्रैव १२ अ० “पार्व्वतीवचनं श्रुत्वा सोऽनु-मेने हृदा स्वयम् पश्यामि किं पश्यामि पार्व्वतीसुत-मित्यहो यदि बलो मया दृष्टस्तस्य विघ्नो मवेद्ध्रुवम् अन्यथा मे प्रलापस्तत्परतः खात्मरणम् इत्या-लोच्य धर्मिष्ठो धर्मं कृत्वा स्वसाक्षिणम् बालं द्रष्टंमनश्चक्रे बालमातरं शनिः विषण्णमानसः पूर्वं शुष्क-कण्ठीष्ठतालकः सव्यलोचनकोणेन ददर्श शिशोर्मु-खम् शनिश्च वृष्टिमात्रेण चिच्छेद मस्तकं मुने! ।चक्षुर्निवारयामास तस्थौ नम्राननः शनिः” एवं शिरश्छे-दमुक्त्वा “तान् सर्व्वान् मूर्च्छितान् दृष्ट्वा चारुह्य गरुडंहरिः जगाम पुष्पभद्रां उत्तरस्यां दिशि स्थिताम् ।पुष्पभद्रानदीतीरे ददर्श काननस्थितम् गजेन्द्रं निद्रितंतत्र शयानं हस्तिनीयुतम् दिश्युत्तरस्यां शिरसं मू-र्च्छितं सुरतश्रमात् परितः शावकान् कृत्वा परमान-न्दमानसम् शीघ्रं सुदर्शनेनैव चिच्छेद तच्छिरो मुदा ।स्थापयामास गरुडे रुघिराक्तं मनोहरम्” गज-शिरश्छेदमुक्त्वा तत्पत्न्या स्तुतेन हरिणा तस्य कल्पान्तजीवनं वरोदत्त इत्युपवर्ण्य “आगत्य बालकस्यानं बालंकृत्वाऽथ वक्षसि रुचिरं तच्छिरः कृत्वा योजयामासबालके ब्रह्मस्वरूपी भगवान् ब्रह्मज्ञानेन लीलया ।जीवनं योजयाभास हुङ्कारोच्चारणेन पार्व्वतीं बोध-यित्वा तु दत्त्वा क्रोडे तं शिशुम् बोधयामास तांनाथ आध्यात्मिकविबोधनैः” “सेनाचरीभवदिभाननदानवा-रिवासेन यस्य जनितासुरभीरणश्रीः” नैष० इभवक्त्रेभमुख-गमाननादयोऽप्यत्र “तं नमामि गजाननम्” माधवः