| YouTube Channel

इन्द्रियनिग्रह (indriyanigraha)

 
शब्दसागरः
English
इन्द्रियनिग्रह
m.
(-हः) Restraining the organs of sense.
E.
इन्द्रिय and
निग्रह restraint.
Capeller Eng
English
इन्द्रियनिग्रह
m.
restraint of the organs of sense.
Yates
English
इन्द्रिय-निग्रह (हः) 1.
m.
Restraining
or subduing the senses.
Wilson
English
इन्द्रियनिग्रह
m.
(-हः) Restraining the organs of sense.
E.
इन्द्रिय and निग्रह restraint.
Monier Williams Cologne
English
इन्द्रिय—निग्रह
m.
restraint of the organs of sense.
Apte Hindi
Hindi
इन्द्रियनिग्रहः
पुं*
इन्द्रियम्-निग्रहः -
ज्ञानेन्द्रियों का नियन्त्रण
Shabdartha Kaustubha
Kannada
इन्द्रियनिग्रह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಇಂದ್ರಿಯಗಳ ಹತೋಟಿ /ಇಂದ್ರಿಯಗಳನ್ನು ಅಂಕೆಯಲ್ಲಿಡುವುದು
व्युत्पत्तिः - > इन्द्रियाणां यथेच्छं प्रवृत्तानां निग्रहो निरोधः
प्रयोगाः - > "धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥"
उल्लेखाः - > मनु० ६-९२
इन्द्रियनिग्रह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಯೋಗಾಭ್ಯಾಸದ ಒಂದು ಅಂಗ
L R Vaidya
English
indriya-nigraha {% m. %} the curbing the senses.
वाचस्पत्यम्
Sanskrit
इन्द्रियनिग्रह
पु०
इन्द्रियाणां निग्रहः यथेष्टं प्रवृत्तानां स्वस्व-विषयेभ्यः निवर्त्तनेन निरोधः इन्दियाणां यथेष्टं प्रवृ-त्तानां स्वस्वविषयेषु प्रसङ्गनिवारणे सर्व्ववर्णसाधारणधर्म्मः “धृतिः क्षमा दयाऽस्तेयं शौचमिन्द्रियनिग्रहः ।धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” मनुः ।इन्द्रियनिग्रहः अप्रतिषिद्धेऽपि विषयेऽनतिप्रसङ्गः”एका० त० रघु० योगसाधनाङ्गे श्रोत्रादीनांज्ञानेन्द्रियाणां वागादीनां कर्ण्णेन्द्रियाणां स्वस्वव्यापारेषु अनियोजनरूपे रोधने सर्वेषामनिरोधेयोगसिद्ध्यभावोभङ्ग्या गीतायामुक्तः” “इन्द्रियाणान्तुसर्व्वेषां यद्येकं चरतीन्द्रियम् तदस्य हरति प्रज्ञां दृतेःपात्रादिवोदकम्” मनसोनिग्रहादेवान्येषां निग्रहो भवतिनान्यथा “इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते त-दस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि” गीतायां तथोक्तेः ।मनोनिग्रहोपायश्च “असंशयं महाबाहो! मनोदुर्निग्रहंचलम् अभ्यासेन तु कौन्तेय! वैराग्येण गृह्यते” गी-तोक्तेः अभ्यासवैराग्यैरूपः यथेच्छमिन्द्रियप्रसङ्गे पाप-मप्युक्तम् “विहितस्याननुष्ठानात् निन्दितस्य सेवनात् ।अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” या० स्मृ० ।इन्द्रियजयोप्यत्र इन्द्रियजये शौचमेव हेतुः यथाह पात० सूत्रभाष्ययोः “शौचात् स्वाङ्गजुगुप्सा परैर-ससर्गः” “सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदशनानिच” सू० “शुचेः सत्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यंतत इन्द्रिययस्ततश्चात्मदशनयोग्यत्वम् बुद्धिसत्त्वस्य भ-वतीति” भा० एष बाह्य उपायः आभ्यन्तर उपायस्तत्रैवोक्तः “ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रिय-जयः” पा० सू० “सामान्यविशेषात्मा शब्दादिर्ग्राह्यः तेष्वि-न्द्रियाणां वृत्तिर्ग्रहणं (१ रूपम्) तत्सामान्यमात्रग्रह-णाकारम् कथमनालोचितः सविषयविशेष इन्द्रियेण मन-सानुव्यसीयेतेति! स्वरूपं पुनः प्रकाशात्मनोबुद्धिसत्त्वस्यसामान्यविशेषयोरयुतसिद्धावयवभेदानुगतः समूहो द्रव्य-मिन्द्रियम् (२ रूपम्) तेषां तृतीयं रूपम् अस्मिताल-क्षणोऽहङ्कारः तस्य सामान्यस्येन्द्रियाणि विशेषाः चतुर्थंरूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः, येषामिन्द्रियाणि साहङ्काराणि परिणामः पञ्चमं रूपंगुणेषुयदनुगतं पुरुषार्थवत्त्वमिति पञ्चस्वेतेषुइन्द्रियरूपेषुयथाक्रमं संयमः तत्र तत्र जयं कत्वा पञ्चरूपजयादिन्द्रिय-जयः प्रादुर्भवति योगिनः” भाष्यम् तत्फलमपि तत्रोक्तम् ।“ततो मनोजवित्वं विकरणभावः प्रधानजयश्च” पा०सू० “कायस्य मनोबदनुत्तमगतिलाभो मनोजवित्वम् ।विदेहानाम् (देहानपेक्षाणाम्) इन्द्रियाणामभिप्रे-तदेशकालविषयापेक्षी वृत्तिलाभः अतीतानागतदूरस्थ-बाह्यार्थविषयश्च वृत्तिलाभो विकरणभावः सर्वप्रकृतिवि-कारवशित्वं प्रधानभावः इत्येतास्तिस्रः सिद्धयो मधुप्रतीकाउच्यन्ते एताश्च करण पञ्चकरूपजयादधिगम्यन्ते” भा०एतासाञ्च बाह्यसिद्धीनां पारम्पर्य्येण सत्वपुरुषान्यत-माख्यातिरेव तु मुख्यं फलमिति तत्रैव प्रसिद्धम्