| YouTube Channel

इन्द्रियं (indriyaM)

 
शब्दकल्पद्रुमः
Sanskrit
इन्द्रियं,
क्ली,
(इन्द्रस्यात्मनोलिङ्गमनुमापकम् इन्द्रेणईश्वरेण सृष्टं इन्द्रे णात्मना मम चक्षुर्मम श्रोत्र-मित्यादि क्रमेण ज्ञातं इन्द्रेण जुष्टं वा इत्याद्यर्थेषुइन्द्रशब्दात् निपातनात् घच् ।) ज्ञानकर्म्म-साधनम् तत्पर्य्यायः हृषीकम् विषयि ।इत्यमरः
अक्षम् करणम् ग्रहणम् इतिराजनिर्घण्टः
तत्र तु ज्ञानेन्द्रियाणि पञ्च यथा ।कर्णः त्वक् चक्षुः जिह्वा नासिका ५कर्म्मेन्द्रियाणि पञ्च यथा वाक् पाणिः पादः३ पायुः उपस्थः अन्तरिन्द्रियाणि चत्वारि ।मनः बुद्धिः अहङ्कारः चित्तं
मनस्तावदि-न्द्रियाणां नियामकम् चतुर्द्दश देवाः चतुर्द्दशे-न्द्रियनियन्तारः तत्र श्रोत्रस्य देवता दिक् ।त्वचो वातः चक्षुषः सूर्य्यः रसनायाः प्रचेताःघ्राणस्याश्विनौ वाचो वह्निः हस्तस्य इन्द्रः ।पादस्य विष्णुः पायोर्मित्रः उपस्थस्य प्रजापतिः ।मनसश्चन्द्रः बुद्धेश्चतुर्मुखः अहङ्कारस्य शङ्करः ।चित्तस्याच्युतः इति वेदान्तः
न्यायमते ।पृथिव्या इन्द्रियं घ्राणं जलस्य जिह्वा तेजस-श्चक्षुः वायोस्त्वक् आकाशस्य कर्णः ।(अथ बुद्धेर्ब्रह्मा अहङ्कारस्येश्वरः मनसश्चन्द्रमाः ।दिशः श्रोत्रस्य त्वचो वायुः सूर्य्यश्चक्षुषोः ।रसनस्यापः पृथिवी घ्राणस्य वचसोऽग्निः ।हस्तयोरिन्द्रः पादयोर्विष्णुः पायोर्मित्रं ।प्रजापतिरुपस्थस्येति इति सुश्रुतः
) (यथा, मनुः ८८ “इन्द्रियाणां विचरतां विषये-ष्वपहारिषु” ।विज्ञानम् यथा, ऋग्वेदे १११ ।“यथा क्षयाम सर्व्ववीरया विशातन्तः शर्द्धायधासथास्विन्द्रियम्” “इन्द्रियं विज्ञानम्” इतिदयानन्दभाष्यम् ।) शुक्रम् वीर्य्यम् इत्यमरः