| YouTube Channel

इन्द्रसूक्त (indrasUkta)

 
वाचस्पत्यम्
Sanskrit
इन्द्रसूक्त
न०
इन्द्रदेवताकं सूक्तम् ऋग्वेदान्तर्गते सूक्त-भेदे तच्च “इन्द्रं विश्वा अवीवृधन्” इत्यादि एकादशर्च्चम् ।ऋ० म० ११ सूक्तम् एतच्च तत्तत्कर्मणि इन्द्रस्तुत्यर्थं प-ठनीयं तथा द्वारपालेन तुलादानादौ मण्डपस्य पूर्वदिशिपाठ्यञ्च “श्रीसूक्तं पावमानञ्च सोमसूक्तं सुमङ्गलम् शान्त्य-ध्यायञ्चेन्द्रसूक्तं रक्षोघ्नं चेति बह्वृचौ पूर्वं द्वारं समा-श्रित्य पठेतामिति निश्चयः” विधानपारि०
पु०
तच्च सूक्तंतुलादानादिपद्धतौ ९२ पृष्ठेऽस्माभिः प्रदर्शितम्