| YouTube Channel

इन्द्रसावर्णि (indrasAvarNi)

 
शब्दसागरः
English
इन्द्रसावर्णि
m.
(-र्णिः) The last of the fourteen Menus.
E.
इन्द्र and सावर्णि the son of the sun.
Wilson
English
इन्द्रसावर्णि
m.
(-र्णिः) The last of the fourteen Menus.
E.
इन्द्र and सावर्णि the son of the sun.
Monier Williams Cologne
English
इन्द्र—सावर्णि
m.
N.
of the fourteenth Manu,
BhP.
Apte Hindi
Hindi
इन्द्रसावर्णिः
पुं*
इन्द्रः-सावर्णिः -
चौदहवां मनु*
Shabdartha Kaustubha
Kannada
इन्द्रसावर्णि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ೧೪ ಮಂದಿ ಮನುಗಳಲ್ಲೊಬ್ಬ
E Bharati Sampat
Sanskrit
(पुं) चतुर्दशसु मनुषु अन्यतमः।
शब्दकल्पद्रुमः
Sanskrit
इन्द्रसावर्णिः,
पुं,
चतुर्द्दशमनुः अस्मिन् मन्वन्तरेवृहद्भानुरवतारः शुचिरिन्द्रः पवित्रचाक्षुषा-दयो देवाः अग्निबाहुशुचिशुद्धमागधाद्याः सप्त-र्षयः उरुगम्भीरब्रध्नाद्या मनुपुत्रा भविष्यन्ति
इति श्रीभागवतम्
(अयं हि भौत्यनाम्ना च-आख्यातः यथा, विष्णुपुराणे ।“भौत्यश्चतुर्दशश्चात्र मैत्रेय भविता मनुः ।शुचिरिन्द्रः सुरगणास्तत्र पञ्च शृणुष्व तान् ४० ।चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिरस्तथा ।वयोवृद्धाश्च वै देवाः सप्तर्षीनपि मे शृणु ४१ ।अग्निबाहुः शुचिः शुक्रो मागधोऽग्नीध्र एव ।युक्तस्तथाजितश्चान्यो मनुपुत्त्रानतः शृणु ४२ ।उरुगम्भीरब्रध्नाद्या मनोस्तस्य सुता नृपाः” ४३ ।मार्कण्डेयपुंराणेऽपि १०० अध्याये उक्तरूपेणवर्णितम् अधुना तु सप्तममन्वन्तरस्याष्टाविंशति-तमं यगं ।)
वाचस्पत्यम्
Sanskrit
इन्द्रसावर्णि
पु०
चतुर्द्दशे मनौ “मनुर्वा इन्द्रसावर्णिश्चतु-र्द्दशमएष्यति उरुगम्बरव्रध्नाद्या इन्द्रसावर्णिवीर्य्यजाः ।पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति अग्निबाहुः शुचिः शुक्रो मान्धाताद्यास्तपस्विनः सत्रायणस्यतनयो वृहद्भानुस्तदा हरिः विनतायां महाराज! क्रिया-तन्तून् वितायिता” भा० स्क० १३ अ० हरिवंशे तु “भूत्या-ञ्चोत्पादितो देव्यां भौत्योनाम रुचेःसुतः” इति भौत्योत्पत्तिमुक्त्वा “चतुर्द्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः अग्नीध्नःकश्यपश्चैव पौलस्त्योगार्गवस्तथा भार्गवह्यश्चिग्निबहुशुचिराङ्गिरसस्तथा युक्तश्चैव तथात्रेयः शुक्रोवासिष्ठ एवच अजितः पौलहश्चैव मान्याः सप्तर्षयश्च ते इति” चोक्त्वा“देवतानां गणाः प्रोक्ताः पञ्च वै भरतर्षभ तरङ्गमीरुर्वप्रश्च तरआनुग्रएव अभिमानी प्रवीणश्च श्रुतःसंक्रन्दनस्तथा तेजस्वी सरणश्चैव भीत्यस्येते मनोः सुता ।भौत्यस्यैवाधिकारे तु पूर्णेकल्पस्तु पूर्य्यते” अग्निपु० च“मनुश्चतुर्द्दशो भौत्यः शुचिरिन्द्रो भविष्यति चाक्षुषाद्याःसुरगणा अग्निबाह्वादयो द्विजाः चतुदर्शस्य भौत्यस्यपुत्रा उरुमुखा मनोः” इत्युक्तं तेन नामभेदविरोधःकल्पभेदात् समाधेयः