| YouTube Channel

इन्द्रलुप्त (indralupta)

 
शब्दसागरः
English
इन्द्रलुप्त mn. (-प्तः-प्तं) Morbid, baldness, falling of the hair of the head:
according to some authorities, loss of beard.
E.
इन्द्र best, लुप्त lost.
Yates
English
इन्द्र-लुप्त (प्तं) 1.
n.
Morbid baldness.
Wilson
English
इन्द्रलुप्त
mn. (-प्तः-प्तं) Morbid baldness, falling of the hair of
the head: according to some authorities, loss of beard.
E.
इन्द्र best, लुप्त lost.
Monier Williams Cologne
English
इन्द्र—लुप्त,
m.
n.
or इन्द्र—लुप्तक,
n.
morbid baldness of the head
loss of beard.
Shabdartha Kaustubha
Kannada
इन्द्रलुप्त
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ತಲೆಯ ಕೂದಲನ್ನು ಉದಿರಿಸುವ ಒಂದು ರೋಗ
व्युत्पत्तिः - > इन्द्रः इन्द्रवर्णो नीलः केशो लुप्तो यस्मात्
Wordnet
Sanskrit
Synonyms:
खल्वाट, अकच, मुण्ड, इन्द्रलुप्त
adjective
यः केशहीनः अभवत्।
"केचन खल्वाटाः जनाः कृत्रिमान् केशान् उपयुञ्जन्ति।"
अभिधानरत्नमाला
Sanskrit
केशघ्न
केशघ्न, इन्द्रलुप्त
केशघ्नमिन्द्रलुप्तं स्यादर्शश्च गुदकीलकः
verse 2.1.1.605
page 0068
शब्दकल्पद्रुमः
Sanskrit
इन्द्रलुप्तं,
क्ली,
(इन्द्राणां इन्द्रनीलवर्णकेशानां लुप्तंलोपो यस्मात् ।) केशरोगविशेषः टाक इतिभाषा तस्य लक्षणम् ।“रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् ।प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः ।तदिन्द्रलुप्तं खालत्यं रुज्येति विभाव्यते”
इति निदानम्
खालत्यं रुज्येति तस्य पर्य्याय-कथनम् तथाच भोजः ।“तदिन्द्रलुप्तमित्याहुः खल्लीं रुज्याञ्च केचन” ।कार्त्तिकस्त्वाह “इन्द्रलूप्तं श्मश्रुणि भवति खालत्यंशिरोरुहेष्वेव रुज्या सवेदनेति आगमस्तत्र नास्ति”
इति तट्टीका
अथेन्द्रलुप्तस्य चिकित्सा ।“तिक्तपटोलीपत्रस्वरसैर्घृष्टा शमं याति ।चिरकालजापि रुज्या नियतं दिवसत्रयेणैव
गोक्षुरस्तिलपुष्पाणि तुल्यञ्च मधुसर्पिषः ।शिरः प्रलेपितं तेन केशैः समुपचीयते
हस्तिदन्तमसीं कृत्वा छागीदुग्धरसाञ्जनः ।लोमान्यनेन जायन्ते लेपात् पाणितलेष्वपि
यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः ।इन्द्रलुप्तं शमं याति केशा स्युश्च घना दृढाः
जातीकरञ्जवरुणकरवीराग्निपाचितम् ।तैलमभ्यञ्जनाद्धन्ति इन्द्रलुप्तं संशयः
स्नुहीपयः पयोऽर्कस्य लाङ्गलीमार्कवो विषम् ।अजामूत्रं सगोमूत्रं रत्तिका सेन्द्रवारुणी
सिद्धार्थकस्तीक्ष्णगन्धा सम्यगेभिर्विपाचितम् ।तैलं भवति नियमात् खालित्यव्याधिनाशनम्
स्नुहीदुग्धादितैलम्” इति भावप्रकाशः
(“केशघ्नस्य चिकित्सान्तु श्टणु हारीत ! साम्प्रतम् ।रूक्षं सपाण्डुरं वातात् पित्ताद्रक्तं सदाहकम्
कफान्वितं भवेत् स्निग्धं रक्तात्पाकं व्रजन्ति तत् ।सन्निपातेन सदृशं जायते सर्व्वलक्षणम्”
अस्य चिकित्सा यथा
*
“गुडेन सुरसा शुण्ठी मातुलुङ्गरसेन तु ।केशघ्ने वातसम्भूते धावनञ्च प्रशस्यते
त्रिफलाञ्च वचां शुण्ठीं गुडेनापि प्रपेषितम् ।धावनं कफसम्भूते चेन्द्रलुप्ते प्रशस्यते
पैत्तिके हितं दुग्धं नवनीतान्वितन्तथा ।सिताशिवाफलं यष्टी पैत्तिके धावनं मतम्
भृङ्गराजरसं ग्राह्यं शृङ्गवेररसन्तथा ।सौवीरकरसेनापि तिलान् पिष्ट्वा प्रलेपनम्
पश्चात् कार्य्यं पूरुषेण स्नानमुष्णेन वारिणा ।धवार्ज्जुनकदम्बस्य शिरीषमपि रोहितम्
क्वाथमेषां शिरोदद्रून् शमयेदिन्द्रलुप्तकभ् ।कुरूवकस्य पुष्पेण जपायाः कुसुमेन
घृष्टस्य चेन्द्रलप्तस्य कृतमेव निवारणम् ।पैत्तिकानि लिङ्गानि दृष्ट्वा दुग्धेन धावनम्
शीतलानि प्रदेयानि पैत्तिकेन विधीयते”
“धुस्तूरपत्राणि मागधीनांनिशा विशालागृहधूमकुष्ठम् ।घृतेन युक्तञ्च जलेन पिष्टंशिरःप्रलेपे क्षतवारणं स्यात्
पित्ते कृते दोषयुते रोगेपटोलपत्रं पिचुमर्द्दकं वा ।तथामलक्या फलमेव पिष्ट्वाघृतेन खण्डेन प्रलेपनञ्च
निवार्य्यते मस्तकजं क्षतञ्चशिरोर्त्तिसङ्घान् विनिहन्ति चैतत् ।गजेन्द्रदन्तस्य मसीं गृहीत्वाप्रलेपनं वा नवनीतकेन
तिलार्कभल्लातकदग्धमाष-क्षारस्य लेपो नबनीतकेन ।सर्पस्य क्षारस्य तथा प्रयोगःखल्लाटके केशचयं करोति”
इति हारीतः
“तेजोऽनिलाद्यैः सहकेशभूमिम्दग्ध्वाशु कुर्य्यात् खलतिन्नरस्य”
*
चिकित्सा यथा चरके ।“खालत्ये पलिते वल्यां हरिल्लोम्नि शोधितम् ।नस्यैस्तैलैः शिरोवक्तप्रलेपैश्चाप्युपाचरेत्
सिद्धं विदारीगन्धाद्यैर्जीवनीयैरथापि ।नस्यं स्यादणुतैलं वा खालत्यपलितापहम्”
)
इन्द्रलुप्तः,
पुं,
(इन्द्राणां इन्द्रनीलवत् केशानां लुप्तंनाशो यस्मात् ।) केशनाशकरोगः तत्पर्य्यायः ।इन्द्रलुप्तकः केशघ्नः इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
इन्द्रलुप्त
न०
इन्द्र इन्द्रवर्ण्णोनीलः केशो लुप्तोयस्मात् केश-नाशके (टाक) ख्याते रोगभेदे तन्निदानादि “रोम-कूपानुगं रक्तं पित्तेन सह मूर्च्छितम् प्रच्यावयति रोमाणिततः श्लेष्मा सशोणितः रुणद्धि रोमकूपास्तु ततोऽन्येषाससम्भवः तदिन्द्रलुप्तं खालत्यं रुज्येति विभाव्यते”निदा० उक्तम् निदानटीकाकृता तु इन्द्रलुप्तं श्मश्रुणिभवति खालत्यं शिरोरुहेष्व रुज्या सवेदनेति तेषांभेद उक्तः वा कप् इन्द्रलुप्तकं तत्रैवार्थे