| YouTube Channel

इन्द्रप्रस्थं (indraprasthaM)

 
शब्दकल्पद्रुमः
Sanskrit
इन्द्रप्रस्थं,
क्ली,
(इन्द्रस्य इन्द्रकीलस्य प्रस्थम् इव ।)राजयुधिष्ठिरनिर्म्मितनगरम् अधुना दिल्लीइति ख्यातम् (यथा, महाभारते २०८ २८ ।“ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः ।नगरं यापयामासुर्द्वैपायनपुरोगमाः
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतं”
“तत्त्रिपिष्टपसङ्काशं इन्द्रप्रस्थं व्यरोचत ।मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्”
)