| YouTube Channel

इन्द्रनीलः (indranIlaH)

 
Apte Hindi
Hindi
इन्द्रनीलः
पुं*
इन्द्रः-नीलः -
नीलकान्तमणि
E Bharati Sampat
Sanskrit
(पुं) इन्द्र इव नीलः। इन्द्रनीलमणिः, नीलरत्नम् ‘क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा’ रघुः१३.५४। ‘इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलस्मितः’ चं०रा०।
Wordnet
Sanskrit
Synonyms:
इन्द्रनीलः, अश्मसारः, इन्द्रनल्लः, महानल्लः, मणिश्यामः, मसारः, नल्लः, नल्लमणिः, नल्लरत्नकः, नल्लाश्मन्, नल्लोपलः, सौरिरत्नम्, शनिप्रियम्, शितिरत्नम्
noun
रत्नविशेषः, नीलवर्णीयं रत्नम्।
"क्वचित् प्रभालेपिभिः इन्द्रनीलैः मुक्तामयी यष्टिरनुविद्धा वा।"
शब्दकल्पद्रुमः
Sanskrit
इन्द्रनीलः,
पुं,
(इन्द्रवत् नीलः ।) मरकतमणिः ।इति हेमचन्द्रः
पान्ना इति भाषा (अस्यपरीक्षा यथा, चिन्तामणिधृतवचनम् ।“क्षीरमध्ये क्षिपेत् नीरं क्षीरञ्चेत् नीलतां व्रजेत् ।इन्द्रनीलमितिख्यातं तदाहि रत्नकोविदैः”
“क्वचित् प्रभालेपिभिरिन्द्रनीलै-र्मुक्तामयी यष्टिरिवानुविद्धा”
इति रघुवंशे १३ ५४ यथा, भावप्रकाशः
अथ इन्द्रनीलगोमेदयोर्नामानि ।“नीलन्तथेन्द्रनीलञ्च गोमेदः पीतरत्नकम्” ।)