| YouTube Channel

इन्द्रनक्षत्र (indranakSatra)

 
Monier Williams Cologne
English
इन्द्र—नक्षत्र॑
n.
Indra's lunar mansion
N.
of Phalgunī,
ŚBr.
ii, 1, 2, 11.
वाचस्पत्यम्
Sanskrit
इन्द्रनक्षत्र
न०
इन्द्रस्वामिकं नक्षत्रम् ज्येष्ठानक्षत्रे तस्यतत्स्वामिकत्वात् तथात्वम् अश्लेषाशब्दे ४९९ पृष्ठे नक्षत्रे-श्वरा उक्ताः इन्द्रनामकं नक्षत्रम् फल्गुनीनक्षत्रे ।फल्गुनीनक्षत्रस्य इन्द्रनामकत्वमाह शत० ब्रा० २, १, २, ११ यथा “फल्गुनीष्वग्नी आदधीत एता वा इन्द्र-नक्षत्रं यत्फल्गुन्योऽप्यस्य प्रतिनाम्न्योऽर्ज्जुनोहवै नामेन्द्रो-यदस्य गुह्यं नामार्ज्जुन्योवैनामैतास्त्वा एतत् परोक्षमाच-क्षते फल्गुन्य इति कोऽह्येतस्या गुह्यं नाम ग्रहीतुम्इन्द्रोवै यजमानस्तत्तस्य एवैतन्नक्षत्रे अग्नी आधत्ते”