इन्द्रध्वज (indradhvaja)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaइन्द्रध्वज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಇಂದ್ರನ ಧ್ವಜ /ಇಂದ್ರನ ಬಾವುಟ
व्युत्पत्तिः - > इन्द्रस्य इन्द्रसन्तोषार्थो ध्वजः
Edgerton Buddhist Hybrid
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Schmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritवैजयन्तौ तु प्रासादध्वजौ पुर्यमरावती ।
इन्द्रप्रासाद (पुं), वैजयन्त (पुं), इन्द्रध्वज (पुं), वैजयन्त (पुं), इन्द्रपुरी (स्त्री), अमरावती (स्त्री)
पुराणम्
Englishइन्द्रध्वज / INDRADHVAJA. A flag staff. It is erected in order to get rain. If anybody dreams that it has broken and fallen, it is a bad omen. It means that some disaster will befall the country. (agni purāṇa, Chapter 229).
वाचस्पत्यम्
Sanskritइन्द्रध्वज इन्द्रस्य तत्सन्तोषार्थोध्वजः । भाद्रशुक्लद्वादश्यां स्वराज्ये वृष्ट्यादिशस्यवृद्ध्यर्थं तत्प्रीतये राज्ञाक्रियमाणे ध्वजे तदुत्पत्तितत्करणप्रकारादि दर्शितंवृहत्संहितायां यथा“ब्रह्माणभूचुरमरा भगवञ्छक्ताः स्म नासुरान् समरे । प्रति-योधयितुमतस्त्वां शरण्यं शरणं समुपयाताः । देवानुवाचभगवान् क्षीरोदे केशवः स वः केतुम् । यं दास्यति तंदृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः । लब्धवराः क्षीरोदंगत्वा ते तुष्टुवुः सुराः सेन्द्राः । श्रीवत्साङ्कं कौस्तुभ-मणिकिरणोद्भासितोरस्कम् । श्रीपतिमचिन्त्यमसमं सम-न्ततः यर्वदेहिनां सूक्ष्मम् । परमात्मानमनादिं विष्णु-मविज्ञातपर्यन्तम् । तैः संस्तुतः स देवस्तुतोष नारायणोददौ चैषाम् । ध्वजमसुरसुरबधूमुखकमलवनतुषारतीक्ष्णां-शुम् । तं विष्णुतेजोभवमष्टचक्रे रथे स्थितं भास्वतिरत्नचित्रे । देदीप्यमानं शरदीव सूर्य्यं ध्वजं समासाद्यमुमोद शक्रः । सकिङ्कणीजालपरिस्कृतेन स्रक्छत्रघण्टापि-टकान्वितेन । समुच्छ्रितेनामरराड् ध्वजेन निन्ये विनाशंसमरे ऽरिसैन्यम् । उपरिचरस्यामरपो वसोर्ददौ चेदिपस्यवेणुमयीम् । यष्टिं तां स नरेन्द्रो विधिवत्सम्पूजयामास ।प्रीतो महेन मघवान् प्राहैवं ये नृपाः करिष्यन्ति ।वसुबलहेमवन्तस्ते भुवि सिद्धाज्ञा भविष्यन्ति । मुदिताःप्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः । ध्वज एवचाभिधास्यति जगति निमित्तैः फलं सदसत् । पूजा तस्यनरेन्द्रैर्बहुवृद्धिजयार्थिभिर्यथा पूर्वम् । शक्राज्ञया प्रयुक्तातामागमतः प्रवक्ष्यामि । तस्य बिवानं शुभकरणदिवस-नक्षत्रमङ्गलमूहूर्तैः । प्रास्थानिकैर्वनमियाद्दैवज्ञः सूत्र-धारश्च । उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः ।कुब्जोर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च । बहुविहगालय-कठोरपवनानलपीडिताश्च ये तरवः । ये च स्युः स्त्रीसञ्ज्ञान ते शुभाः शक्रकेत्वर्थे । श्रेष्ठोऽर्ज्जुनोऽश्वकर्णः प्रियक-घवोदुम्यराश्च पञ्चैते । एतेषामन्यतमं प्रशस्तमथवाऽमरंवृक्षम् । नौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजःपूर्व्वम् । विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् ।“यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः । उप-हारं गृहीत्वेमं क्रियतां वासपर्य्ययः । पार्थिवस्त्वां वरयतेस्वस्ति तेऽस्तु नगोत्तम! । ध्वजार्थं देवराजस्य पूजेयंप्रतिगृह्यताम्” । छिन्द्यात् प्रभातसमये दृक्षमुदक्प्राङ्मुखोऽपिवा भूत्वा । परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्चहितः । नृपजयदमविध्वस्तं पतनमनाकुञ्चित च पूर्व्वो-दक् । अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत्पतितम् ।छित्त्वाग्रे चतुरङ्गुलमष्टौ मूले जले क्षिपेद्यष्टिम् । उद्धृत्यपुरद्वारं शकटेन नयेन्मनुष्यैर्वा । अरभङ्गे बलभेदो नेम्यानाशो बलस्य विज्ञेयः । अर्थक्षयोऽक्षभङ्गे तथाणिमङ्गेच वर्धकिनः । भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा ।दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः । अहताम्बर-संवीतां यष्टिं पौरन्दरीं पुरं पौरैः । स्रग्गन्धधूपयुक्तांप्रवेशयेच्छ्रङ्खतूर्यरवैः । रुचिरपताकातोरणवनमालालङ्कृतंप्रहृष्टजनम् । सम्मार्जितार्चितपथं सुवेषगणिकाजना-कीर्णम् । अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम् ।नटनतकगेयज्ञैराकीर्णचतुष्पथं नगरम् । तत्र पताकाः श्वेताविजयाय भवन्ति रोगदाः पीताः । जयदाश्च चित्ररूपारक्ताः शस्त्रप्रकोपाय । यष्ठिं प्रवेशन्तीं निपातयन्तो भयायनागाद्याः । बालानां तलशब्दे सङ्ग्रामः सत्त्वयुद्धे बा ।सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे । जागर-मेकादश्यां नरेश्वरः कारयेच्चास्याः । सितवस्त्रोष्णीषधरःपुरोहितः शाक्रवैष्णवैर्मन्त्रैः । जुहुयादग्निं सांवत्सरोनिमित्तानि मृह्णीयात् । इष्टोद्रव्याकारः सुरभिः स्निग्धोघनीऽनलोऽचिर्ष्मान् । शुभकृदतोऽन्यो नेष्टो यात्रायांविस्तरोऽभिहितः । स्वाहावसानसमये स्वयमुज्ज्वलार्चिःस्निग्धः प्रदक्षिणशिखो हुतभुग् नृपस्य । गङ्गादिवाकर-सुताजलचारुहारां धात्रीं समुद्ररसनां वशगां करोति ।चामीकराशोककुरण्टकाण्डवैदूर्यनीलोत्पलसन्निभेऽग्नौ न ।विध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहतं नृपस्य । येषांरथौघार्णवमेधदन्तिनां संमस्वनांऽग्निर्यदिवापि दुन्दुर्भः ।तेषां मदान्धेभघटाविघट्टिता भवन्ति याने तिमिरोपमादिशःः । ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति मूभृताम् ।उदयास्तधराधराधरा हिमवद्विन्ध्यपयोधरा धरा । द्विरद-मदमहीसरोजलाजैर्घृतमधुना च हुताशने सगन्धे । प्रणत-नृपशिरोमणिप्रभाभिर्भवति पुरश्छुरितेव भूर्नृपस्य ।उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुमं सप्तमरीचिरूपैः ।तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम् ।गुडपूपपायसाद्यैर्विप्रानभ्यर्च्यदक्षिणाभिश्च । श्रवणेन द्वाद-स्याम् उपोष्याऽन्यत्र वा श्रवणात् । शक्रकुमार्य्यःकार्याः प्राह मनुः सप्त पञ्च वा तञ्ज्ञैः । नन्दोपनन्द-सञ्ज्ञैः पादेनार्धेन चोच्छ्रायान् । षोडशभागाभ्यधिकेजयविजये द्वे वसुन्धरे चान्ये । अधिका शक्रजनित्री मध्येऽष्टांशेन चैतासाम् । प्रीतैः कृतानि विबुधैर्यानि पुराभूषणानि सुरकेतोः । तानि क्रमेण दद्यात् पिटकानिविचित्ररूपाणि । रक्ताशोकनिकाशं चतुरस्रं विश्वकर्म्मणाप्रथमम् । रसना स्वयम्भुवा शङ्करेण चानेकवर्णधरी!अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम् । असितंयमश्चतुर्थं मसूरकं कान्तिमदयच्छत् । मञ्जिष्ठाभं वरुणःषडश्रि तत्पञ्चमं जलोर्मिनिभम् । मायूरं केयूरं षष्ठं वायु-र्जलदनीलम् । स्कन्दः स्वं केयूरं सप्तममददद्ध्वजाय बहु-चित्रम् । अष्टममनलज्वालासङ्काशं हव्यभुग्दत्तम् । वैदूर्य-सदृशमिन्दुर्नवम् ग्रैवेयकं ददावन्यत् । रथचक्राभं दशमंसूर्यस्त्वष्टा प्रभाचयैर्युक्तम् । एकादशमुद्वंशं विश्वे देवाः सरोज-सङ्काशम् । द्वादशमपि च निवशं मुनयो नीलोत्पलाभासम् ।किञ्चिद्घ्वजोर्ध्वनिर्गतमुपरि विशालं त्रयोदशं केतोः ।शिरसि वृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः । यद्य-द्येन विनिर्मितममरेण विभूषणं ध्वजस्यार्थे । तत्तत्तर्द्दैवत्यंविज्ञातव्यं विपश्चिद्भिः । ध्वजपरिमाणत्र्यंशः परिधिःप्रथमस्य भवति पिटकस्य । परतः प्रथमात्प्रथमादष्टां-शाष्टांशहीनानि । कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्यशास्त्रज्ञः । मनुना चागमगोतान् मन्त्रानेतान् पठेन्नियतः ।“हरार्कवैवस्वतशक्रसोमैर्धनेशवैश्वानरपाशभृद्भिः । महर्षि-सिद्धैः सदिगप्सरोभिः शुक्राङ्गिरःस्कन्दमरुद्गणैश्च । यथात्वमूर्जस्कर । नैकरूपैः समर्चितस्त्वाभरणैरुदारैः । तथेहतान्याभरणानि देव! शुभानि सम्प्रीतमना गृहाण । अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ।त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीद्ध्यः ।कविं सप्तजिह्वं त्रातारं त्वाम् इन्द्रमवितारं सुरेशम् ।शक्रं वृत्रहणं सुषेणम् अस्माकं वीरा उत्तरे भवन्तु” । प्रपू-रणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे । पठे-दिमान्नृपतिः सोपवासो मन्त्राञ्छुभान् पुरुहूतस्य केतोः ।छत्रध्वजादर्शफलार्धचन्द्रैर्विचित्रमालाकदलीक्षुदण्डैः । स-व्यालसिंहैः पिटकैर्गवाक्षैरलङ्कृतं दिक्षु च लोकपालैः ।अच्छिन्नरज्ज्वा दृढकाष्ठमातृकं विश्लिष्टयन्त्रार्गलपादतोरणम् ।उत्थापयेल्लक्ष्म सहस्रचक्षुषः सारद्रुमाभग्नकुमारिकान्वि-तम् । अविरतजनरावं भङ्गलाशीःप्रणामैः पटुपटह-मृदङ्गैः शङ्खभेर्यादिभिश्च । श्रुतिविहितवचोभिः पापठ-द्भिश्च विप्रैरशुभरहितशब्दं केतुमुत्थापयीत । फलदधि-घृतलाजाक्षोद्रपुष्पाग्रहस्तैः प्रणिपतितशिरोभिस्तुष्टुवद्भिश्चपौरैः । धृतमनिमिषभर्तुः केतुमीशः प्रजानाम् अरि-नगरनताग्रं कारयेद्द्विड्बधाय । नातिद्रुतं न च विलग्वि-तमप्रकम्प्यम् अन्वस्तमाल्यपिटकादिविभूषणं च । उत्थान-मिष्टमशुभं यदतो ऽन्यया स्यात् तच्छान्तिभिर्नरपतेःशमयेत्पुरोधाः । क्रव्यादकौशिककपोतककाककङ्कैः केतु-स्थितैर्महदुशन्ति भर्य नृपस्य । चाषेण चापि युवराज-भयं वदन्ति श्येनो विलोचनभयं निपतन् करोति । छत्र-भङ्गपतने नृपमृत्युस्तस्कराद्वसु करोति निलीनम् । हन्तिचाप्यथ पुरोहितमुल्का पार्थिवस्य महिषीमशनिश्च । राज्ञो-विनाशं पतिता पताका करोत्यवृष्टिं पिटकस्य पातःमध्याग्रभूलेषु च केतुभङ्गो निहन्ति मन्त्रिक्षितिपालपोरान् ।धूमावृते शिखिभयं तमसा च मोहो व्यालैश्च भग्नपतितैर्नभवन्त्यमात्याः । ग्लायन्त्युदक्प्रभृति च क्रमशो द्विजाद्याभङ्गे च वर्द्धकिबधः कथितः कुमार्याः । रज्जूत्सङ्ग-च्छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः ।यद्यत्कुर्युर्बालकाश्चारणा वा तत्तत्तादृग्भावि पापं शुभंवा । दिनचतुष्टयमुत्थितमर्चितं समभिपूज्य नृपोऽहनिपञ्चमे । प्रकृतिभिः सह लक्ष्म विसर्जयेद् बलभिदः खबला-भिविवृद्धये । उपरिचरवसुप्रवर्त्तितं नृपतिभिरप्यनु सन्ततंकृतम् । विधिमिममनुमन्य पार्थिवी न रिपुकृतं भयमाप्नुया-दिति” ध्वज प्रमाणादि ति० त० कालि० उक्त यथा ।“अर्ज्जुनोऽप्यश्वकर्णश्च प्रियकोधवएव च । औडुम्बरश्च पञ्चैतेकेत्वर्थे सत्तमाः स्मृताः । अन्ये च देवदार्वाद्याः शाला-द्यास्तरवस्तथा । तञ्च वृक्षं तुदेदात्रौ स्पृष्ट्वा मन्त्रमिमंपठेत्” । तुदेत् च्छेदयेत् । “यानि वृक्षे तु भूतानि तेभ्यःस्वस्ति नमोऽस्तु वः । उपहारं गृहीत्वेम क्रियतां वा-सपर्य्ययः । पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम! ।ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम्” । ततोऽपरेह्नि तं छित्वा मूलमष्टाङ्गुलं पुनः । जले क्षिपेत्तदग्रस्यच्छित्त्वैवं चतुरङ्गुलम् । ततो नीत्वा पुरद्वारं केतुं नि-र्म्माय तत्रैव । शुक्लाष्टम्यां भाद्रपदे केतुं वेदिं प्रवेश-येत् । द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते । द्वात्रिं-शत्तु ततोज्यायान् द्वाचत्वारिंशदुत्तमः । कुमार्य्यः पञ्चकर्त्तव्याः शक्रस्य नृपसत्तम! । शालमय्यस्तु ताः सर्वास्त्व-पराः शक्रमातृकाः । केतोः पादप्रमाणेन कार्य्याः शक्र-कुमारिकाः । मातृकार्द्धप्रमाणात्तु यन्त्रं हस्तद्वयं तथा ।एवं कृत्वा कुमारीश्च मातृका केतुमेव च । एकादश्यांसिते पक्षे यष्टीनामधिवासनम् । अधिवास्य ततोयष्टीर्गन्धद्वारादिमन्त्रकैः । द्वादश्यां मण्डलं कृत्वा वासवंविस्तृतात्मकम् । अच्युतं पूजयित्वादौ शक्रं पश्चात् प्र-पूजयेत् । शक्रस्य प्रतिमां कुर्य्यात् कानकीं दारवीं तथा”कानकीं कनकमयीम् “अन्यतैजसभूतां वा सर्वाभावे तु मृण्म-यीम् । तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः ।ततः शुभे मुहूर्त्ते तु केतुमुत्थापरेन्नृपः । “वज्रहस्त! सु-रारिघ्न! बहुनेत्र! पुरन्दर! । क्षेकार्थं सर्वलोकानां पू-जेयं प्रतिगृह्यताम् । एह्येहिसर्वामरसिद्धसङ्घैरभिष्टु-तोबज्रधरामरेश! । समुत्थितस्त्वं श्रवणाद्यपादे गृहाणपूजां भगवन्नमस्ते” । इति मन्त्रेण तन्त्रेण नानानैवेद्यव-न्दनैः । घटेषु दश दिक्पालान् ग्रहांश्च परिपूजयेत् ।साध्यादीन् सकलान् देवान् मातॄः सर्वास्त्वनुक्रमात् ।ततः शुभे मुहूर्त्ते तु ज्ञानिवर्द्धकिसंयुतः । केतूपत्थानभू-मिन्तु यज्ञवेद्यास्तु पश्चिमे । विप्रैः षुरोहितैः सार्द्धंगच्छेद्राजा सुमङ्गलैः । रज्जुभिः पञ्चभिर्बद्धं यन्त्रश्लिष्टंसमातृकम् । कुमारीभिश्च सयुक्तं दिक्पालानाञ्च प-ट्टकैः । यथावर्णैर्यथादेशैर्योजितैर्वस्त्रवेष्टितैः । युतं तंकिङ्किणीजालैर्वृहद्घण्टाढ्यचामरैः । चित्रमाल्याम्वरे-श्चापि चतुर्भिःपरितोरणैः । उत्थापयेन्महाकेतुं राजामात्यैः शनैः शनैः । प्रतिमां तां नयेन्मूल केतोः शक्रंविचिन्तयन् । यजेत्तु पूर्बवत्तत्र शचीं मातलिमेव च ।जयन्तं तनयं तस्य वज्रमैरावतं तथा । ग्रहांश्चार्भ्यच्यदिक्पालान् सर्वाश्च गणदेवताः । पूजितानाञ्च देवानांशश्वद्धोमं समाचरेत् । होमान्तेतु बलिं दद्यात् वासवायमहात्मने । तिलं घृतं चाक्षतञ्च पुष्पं दूर्व्वां तथैव च ।एतैस्तु जुहुयादेतान् स्वैः स्वैर्मन्त्रैर्नरोत्तमः । ततोहो-मावसाने तु ब्राह्मणानपि भोजयेत् । एवं प्रपूजयेन्नित्यसप्तरात्रं दिने दिने । त्रातारमिति मन्त्रोऽय वासवस्यपरः प्रियः । एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः ।श्रवणर्क्षयुतायाञ्च द्वादश्यां पार्थिवः स्वयम् । अन्तपादेभरण्यास्त निशि शक्रं विसर्जयेत् । सुप्तेषु सर्वलोकेषुयथा राजा न पश्यति । “सार्द्धं सुरासुरगणैः पुरन्दर!शतक्रतो! । उपहारं गृहीत्वेमं महेन्द्रध्वज गम्यताम्”उत्पाते सप्तरात्राणि तथोपप्लवदर्शने । व्यतीत्य शनि-भौमौ च अन्यर्क्षेऽपि विसर्जयेत् । यस्मिन्कस्मिन् दिनेचैव सूतकान्ते विसर्जयेत् । तथा रक्षेन्नृपः केतुं न पतेच्छकुनिर्यथा । शनैः शनैः पातयेत्तं यथोत्थापनमादितः ।विसृष्टं शक्रकेतुं तं सालङ्कार तथा निशि । क्षिपेदनेनमन्त्रेण अगाधे सलिले नृपः । “तिष्ठ केतो! महाभाग!यावत्संवत्सरं जले । भवाय सर्वलोकानामन्तराय-विनाशक!” । उत्थापयेत्तूर्य्यरवैः सर्वलोकस्य वै पुरः । एवंयः कुरुते पूजां वासवस्य महात्मनः । न तस्य राज्ये दुर्भिक्षंनतयो नाप्यधर्मकृत्” । “इन्द्रध्वजसमुत्थान प्रमादान्नकृतं यदि । तदा द्वादशमे वर्षे कर्त्तव्यं नान्तरा पुनः”ति० त० भविष्य० । पञ्चमाष्टमदिनयोर्विसर्जने शक्त्यपेक्षयाव्यवस्था । इन्द्रकेतुशक्रध्यजादयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
