| YouTube Channel

इन्द्रजाल (indrajAla)

 
शब्दसागरः
English
इन्द्रजाल
n.
(-लं)
1. Conjuring, juggling.
2. Deception, cheating.
3.
Trick or stratagem in war.
E.
इन्द्र an organ of sense, and जाल a net.
Capeller Eng
English
इन्द्रजाल॑
n.
Indra's net
a
cert.
mystic weapon
juggling, magic.
Yates
English
इन्द्र-जाल (लं) 1.
n.
Deception, trick.
Spoken Sanskrit
English
इन्द्रजाल - indrajAla -
adj.
- magic
इन्द्रजालिक - indrajAlika -
m.
- magician
वामाचार - vAmAcAra -
m.
- blackmagic
मायिन् - mAyin -
adj.
- magic
मायिक - mAyika -
adj.
- magic
ऐन्द्रजालिक - aindrajAlika -
adj.
- magic
आभिचारिक - AbhicArika -
adj.
- magic
ऋद्धि - Rddhi -
f.
- magic
कृति - kRti -
f.
- magic
कृत्या - kRtyA -
f.
- magic
योगमाया - yogamAyA -
f.
- magic
युक्ति - yukti -
f.
- magic
शम्बर - zambara -
f.
- magic
अभिचार - abhicAra -
m.
- magic
नभश्चमस - nabhazcamasa -
m.
- magic
मन्त्रयोग - mantrayoga -
m.
- magic
कृत्य - kRtya -
n.
- magic
ऐन्द्रजाल - aindrajAla -
n.
- magic
कार्मण - kArmaNa -
n.
- magic
कार्मणत्व - kArmaNatva -
n.
- magic
इन्द्रजाल - indrajAla -
adj.
- magic
इन्द्रजाल - indrajAla -
n.
- net of indra
इन्द्रजाल - indrajAla -
n.
- sorcery
इन्द्रजाल - indrajAla -
n.
- weapon employed by arjuna
इन्द्रजाल - indrajAla -
n.
- juggle
इन्द्रजाल - indrajAla -
n.
- sham
इन्द्रजाल - indrajAla -
n.
- art of magic
इन्द्रजाल - indrajAla -
n.
- illusion
इन्द्रजाल - indrajAla -
n.
- hallucination
इन्द्रजाल - indrajAla -
n.
- delusion
इन्द्रजाल - indrajAla -
adj.
- magic
इन्द्रजालिक - indrajAlika -
m.
- magician
वामाचार - vAmAcAra -
m.
- blackmagic
मायिन् - mAyin -
adj.
- magic
मायिक - mAyika -
adj.
- magic
ऐन्द्रजालिक - aindrajAlika -
adj.
- magic
आभिचारिक - AbhicArika -
adj.
- magic
ऋद्धि - Rddhi -
f.
- magic
कृति - kRti -
f.
- magic
कृत्या - kRtyA -
f.
- magic
योगमाया - yogamAyA -
f.
- magic
युक्ति - yukti -
f.
- magic
शम्बर - zambara -
f.
- magic
अभिचार - abhicAra -
m.
- magic
नभश्चमस - nabhazcamasa -
m.
- magic
मन्त्रयोग - mantrayoga -
m.
- magic
कृत्य - kRtya -
n.
- magic
ऐन्द्रजाल - aindrajAla -
n.
- magic
कार्मण - kArmaNa -
n.
- magic
कार्मणत्व - kArmaNatva -
n.
- magic
इन्द्रजाल - indrajAla -
n.
- juggle
ऐन्द्रजालिक - aindrajAlika -
m.
- juggler
मायाविन् - mAyAvin -
m.
- juggler
अवट - avaTa -
m.
- juggler
आहितुण्डिक - AhituNDika -
m.
- juggler
इन्द्रजालज्ञ - indrajAlajJa -
m.
- juggler
इन्द्रजालिक - indrajAlika -
m.
- juggler
इन्द्रजालिन् - indrajAlin -
m.
- juggler
कौसृतिक - kausRtika -
m.
- juggler
कुहक - kuhaka -
m.
- juggler
कुहकजीवक - kuhakajIvaka -
m.
- juggler
कुहकज्ञ - kuhakajJa -
m.
- juggler
चक्राट - cakrATa -
m.
- juggler
धार्मिक - dhArmika -
m.
- juggler
पार्श्विक - pArzvika -
m.
- juggler
प्रातिहार - prAtihAra -
m.
- juggler
प्रतिहारक - pratihAraka -
m.
- juggler
प्रातिहारिक - prAtihArika -
m.
- juggler
मायाजीविन् - mAyAjIvin -
m.
- juggler
मायाकार - mAyAkAra -
m.
- juggler
Wilson
English
इन्द्रजाल
n.
(-लं)
1 Conjuring, juggling.
2 Deception, cheating.
3 Trick or stratagem in war.
E.
इन्द्र an organ of sense, and जाल a net.
Monier Williams Cologne
English
इन्द्र—जाल॑
n.
the net of Indra,
AV.
viii, 8, 8
a weapon employed by Arjuna,
MBh.
sham, illusion, delusion, magic, sorcery, juggle
the art of magic
&c.
,
Kathās.
Ratnāv.
Prab.
Vedāntas.
Sāh.
&c.
Apte Hindi
Hindi
इन्द्रजालम्
नपुं*
इन्द्रः-जालम् -
"एक शस्त्र जिसे अर्जुन ने प्रयुक्त किया था, युद्ध का दाँव-पेंच"
इन्द्रजालम्
नपुं*
इन्द्रः-जालम् -
"जादूगरी, बाजीगरी"
Shabdartha Kaustubha
Kannada
इन्द्रजाल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮಾಯಾವಿದ್ಯೆ /ಕಣ್ಣು ಕಟ್ಟುವ ವಿದ್ಯೆ
व्युत्पत्तिः - > इन्द्रेण कौशलाद्यैश्वर्येण जालं द्रष्टुर्नेत्रावरणम्
प्रयोगाः - > "आर्यपुत्र, तिष्ठतु तावदिन्द्रजालिकम् मातुलकुलादमात्यप्रधानो वसुभूतिरागतः"
उल्लेखाः - > रत्ना०
L R Vaidya
English
indra-jAla {% n. %} 1. stratagem or trick in war
2. juggling.
Aufrecht Catalogus Catalogorum
English
इन्द्रजाल sorcery. Rādh 25.
--by Nityanātha. K. 38. Oudh IX, 28.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
इन्द्रजाल꣡ , so zu akzentuieren.
अभिधानचिन्तामणिः
Sanskrit
--source--
मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रयः
-wordlist-
माया (स्त्री), उपेक्षा (स्त्री), इन्द्रजाल (क्ली), क्षुद्रोपाय (पुं)
--source--
इन्द्रजालं तु कुहुकं जालं कुसृतिरित्यपि
-wordlist-
इन्द्रजाल (क्ली), कुहुक (क्ली), जाल (क्ली), कुसृति (स्त्री)
Mahabharata
English
Indrajāla, a celestial weapon. § 512 (Ghoshayātrāp.): III, 245, 14995 (Sthūlā (B. ºṇā-) karṇendrajālañ ca, employed by Arjuna).--§ 571 (Ulūkadūtāgamanap.): V, 160, 5461 (?, “conjuror's tricks, PCR.), 5525 (?, do.)
161, 5570 (?, do.).--§ 580 (Bhīshmavadhap.): VI, 59^13, 2633 (nihatendrajālāḥ).--§ 608 (Karṇap.): VIII, 60, 2998 (Sthūṇākarṇendrajālena)
64, 3238.--§ 785 (Anugītāp.): XIV, 77, 2251 (ºpratimaṃ bāṇajālaṃ). Cf. Aindra.
शब्दकल्पद्रुमः
Sanskrit
इन्द्रजालं,
क्ली,
(इन्द्राणामिन्द्रियाणां जालं आव-रकम् यद्वा इन्द्रस्य परमेश्वरस्य जालं मायाइव ।) मायाकर्म्म भोजवाजि, भेल्कि इत्यादिभाषा तत्पर्य्यायः कुहकं जालं कुसृतिः ।तद्विवरणग्रन्थो यथा, --“अथातः संप्रवक्ष्यामि चेन्द्रजालमनुत्तमम् ।व्याधिदारिद्रहरणं जरामृत्युविनाशनम्
इन्द्रस्य यो जानाति जालेशं रुद्रभाषितम् ।निग्रहानुग्रहे तस्य का शक्तिः परमेश्वरि !
तेषां जायते सिद्धिर्गोत्रे क्षेत्रे गृहेऽपि वा ।इन्द्रजालं जानाति क्रुद्धः किं करिष्यति
जीवति वरारोहे संसारे दुःखसागरे ।इन्द्रजालं जानाति कुतः सौख्यं भवेत्ततः
कौतूहलं कुतस्तेषां कुतः कामा वरानने ! ।संसारसागरे घोरे कामलुब्धाश्च मानवाः ।रुद्रकर्म्म हि तेषां कुतः सौख्यं विधीयते
यथा नदौनदाः सर्व्वे सागरे समुपागताः ।तथा सर्व्वाणि शास्त्राणि इन्द्रजालस्थितानि
तप्तानाञ्च यथा भानुः शीतलानां यथा शशो ।गम्भीराणां यथा सिम्धुर्जालेन्द्रञ्च तथा प्रिये ! ।तथा किं बहुनोक्तेन वर्णनेन पुनः पुनः ।जालेन्द्रस्य समं शास्त्रं भूतं भविष्यति”
*
“अथातः संप्रवक्ष्यामि ओषधीनां विधिं वरे ।येन विज्ञानमात्रेण सर्व्वसिद्धिर्भविष्यति
महाकालस्य वीजानि प्रस्थमेकं समाहरेत् ।धात्रीरसेन देवेशि ! सप्त वारान् विभावयेत्”
गुटिका कर्त्तव्या तां गुटिकां मुखे निक्षिप्यपारावतो भवति
“अथातः संप्रवक्ष्यामिशृणु त्वं मम वल्लभे छागस्य शीर्षं संगृह्य कृष्ण-मृत्तिकां पूरयित्वा पुनर्धुस्तूरवीजानि वापयेत् कालेतानि पुष्पितानि भवन्ति तदा यस्योपरि निक्षि-पेत् छागो भवति
मयूरशीर्षमादायकृष्णचतुर्दश्यां मृत्तिकां पूरयेत् शणवीजानि वाप-येत् यदा फलितो पुष्पितो भवति तदा शण-वीजानि ग्रीवायां बन्धयेत् तेन मयूरो भवेत्
कृष्णचतुर्दश्यां मयूरशीर्षमादाय कृष्णमृत्तिकांपूरयेत् कार्पासवीजानि वापयेत् यदा फलिताःपुष्पिता भवन्ति पुष्पफले संगृह्य समस्तं पेषयित्वाअङ्गं विलिप्य पानीयमध्ये प्रविश्य तथा जलेतिष्ठेत् यथा स्थले
कृष्ण-काक-शीर्षमादायकाकमाचीवीजानि वापयेत् यदा फलिताःपुष्पिता भवन्ति तत्फलं संगृह्य मुखे प्रक्षिप्यकाको भवति काक इव गच्छति मह्या उद्गीर्णेमोक्षः
पारावतशीर्षमादाय कृष्णमृत्तिकांपूरयित्वा तिलवीजानि वापयेत् क्षीरोदकेन सिञ्च-नीयं यदा पुष्पिता भवन्ति तदा मुखे संस्थाप्यअन्तर्हितो भवेत्
तेषां फलानां चूर्णं कृत्वातेन चूर्णेन यं स्पृशति किङ्करो भवेत् सर्व्वस्वंददाति
तानि तिलानि संगृह्य नेत्राञ्जनेनसह पिष्ट्वा कपिलादुग्धेन गुटिकां कारयेत् ।सप्तरात्रं पाचयेत् तां गुटिकां मुखे निक्षिप्यअन्तर्हितो भवति देवैरपि दृश्यते मनुष्याणांका कथा उद्गीर्णेन पुरुषो भवति जीवेद्वर्षशतंस्त्रियः सर्व्वे जनाश्च वश्या भवन्ति
गृध्रशिरःसमादाय कृष्णचतुर्दश्यां कृष्णमृत्तिकां निक्षेपेत्लशुनवीजानि वापयेत् यदा फलं पुष्पं भवति तदापुष्यनक्षत्रे पुष्पं गृहीत्वा अञ्जनेन सह कपिला-घृतेन कज्जलं पातयेत् चक्षुरञ्जनीयं तावत् योजन-शतं पश्यति मेदिनीं दिवा नक्षत्राण्यपि पश्यतिलाभस्तस्य किञ्चित् कर्त्तुमिच्छति तत् करोतिन संशयः
अन्ये सर्व्वे जीवाः एवं उष्ट्र-गद्धभमहिष्यादिलघुवृहज्जीवाः यत् यत् वीजंयस्य शिरसि वापयेत् यदा पुष्पितः फलितोभवति तदा यस्य वीजानि मुखे निक्षिप्यन्ते सजीवो भवति नात्र सन्देहः
१०
*
अथसर्व्वेषां धारणमन्त्रः ओँ ह्रीं ह्रीं ह्रें ऐं लं लं ओँभौ स्वाहा एकादशाक्षरो मनुरस्य पुरश्चरणंलक्षजपः दशांशहोमः घृतेन तर्पणं मार्जनंब्राह्मणभोजनादिकं कारयित्वा सिद्धिर्भवति
*
अथ वश्याधिकारः ।“मातुलुङ्गस्य मूलन्तु धुस्तूरवीजकेन ।पलाण्डुपुष्पमादाय सूक्ष्मचूर्णन्त् कारयेत्
योऽस्य गन्धं समाघ्राति स्नेहेन पश्यति ।दुन्दुभिं पटहांश्चैव शङ्खांश्चैव तु लेपयेत्
एष भूतोपसृष्टानां कुमारीणां गृहेषु ।भृपतेः सेव्यमानानां तथापत्यापजीविनां
चाग्निर्दह्यते वेश्म यत्रैष सोऽगदो भवेत्” ।अत्र मन्त्रः ।ओँ “रक्तचामुण्डे अमुकं मे वशमानय ह्रीँ ह्रींहूं फट् अयुतं जप्तव्यम् ओँ नमोऽस्तु आदित्यायकिलि किलि चिलि चिलि धूमं लिहि यक्षिणिमोदते हि शाकिनि अनिदुद्रुशूलपाणि स्वाहा
वर्णाः ४० शिलाकृतिके मन्त्रे ओँ नमो गुहा-वासिन्यै गुहपति गुहिले मनोजवो ओँ एं ओँविज्वे नमः शिलायाः कृतिः करलिखिता खदि-रानलसन्तप्तलिङ्गा यतो नवयोषितोऽपि आक-र्षणं वर्णाः २६ ओँ नमः कपालरुद्राय सर्व्व-लोकवशङ्कराय अनाथायाप्रतिहतबलवीर्य्यपरा-क्रमप्रभवाय हा हा हे हे पच पच मारय मारयकपट कपट काट सर्प कर्म्मकरि अमुकं मे वश-मानय स्वाहा ७७ वर्णाः अयुतजपाद्वशी-करोति
*
अन्यप्रकारः ।“पारावतस्य हृदयं चक्षुर्जिह्वा शोणितम् ।अञ्जनं रोचनयुतं वनितावशकृत् परम्”
तत्र मन्त्रः ओँ नय नय महारिणि नमो देव्यैस्वाहा
१५
एकविंशतिवारान् परिजप्य सिद्धि-र्भवति
*
अन्यप्रकारः ।“कपालं मानुषं गृह्यं कनकस्य फलानि ।कर्पूरं मधुसंयुक्तं निघृष्य तिलकेन
नारी वा पुरुषोऽनेन वश्यो भवति नित्यशः ।एष कापालिको योगो वशिष्ठस्य शुभंमतम्”
*
अन्यप्रकारः पुरुषार्थी ।“कर्पूरं वालुकं लाक्षा रजसा सप्तभावितं ।रतिकाले भगं लिप्य पतिर्दासो भविष्यति”
*
अन्यप्रकारः ।“नरजिह्वां ममुद्धृत्य सूह्मचूर्णन्तु कारयेत् ।जलेन सुशीतेन दापयेत् तद्विचक्षणः
पाने फले पुष्पे भक्ष्ये भोज्ये दापयेत् ।प्रजापतिकुलोद्भूता यदि साक्षादरुन्धती
साभिसक्ता प्रियं याति नान्यं पुरुषमिच्छति”
*
अन्यप्रकारः ।“कनकञ्चाप्यपामार्गं सुरसा गौरसर्षपाः ।तिलतैलेन पिष्ट्वापि योनिलेपः प्रशस्यते”
अत्र मन्त्रः ओँ नम शय्यायै दरि विदरि या-मिनि अमुकं मे वशमानय स्वाहा
*
अन्य-प्रकारः हरितालं श्मशाने कृष्णचतुर्दश्यां क्षिप्त्वाकुष्ठविमिश्रं ग्राह्यं अवश्यं वशी भवेत् नरः
*
अन्यप्रकारः ऋतुनवलोचनतालाललाटास्थि-बाणसाधितं तैलं सकलमनुजेन्द्रललनावशङ्करंमकरालये पुष्ये नरतैलं प्रेताम्बरवर्क्तिकं कृत्वामात्रे रात्रौ प्रज्वाल्यार्कवृक्षस्कन्धे कज्जलं कृत्वाचक्षुषी अभ्यञ्जयेत् यंपश्यति वश्यो भवति
*
अन्यप्रकारः ।“कर्णदन्तमलं लाला स्वदेहाक्षिमलत्रयम् ।नासिकोद्भवरक्तञ्च चूर्णमेतद्बलायुतम्
एतत् सर्व्वं समुद्धृत्य गुटिकां कारयेद्बुधः ।पानभोजनके देया वशीकरणमुत्तमम्”
*
अन्यप्रकारः ।काकजिह्वा वचा कुष्ठं आत्मनो रुधिरं स्त्रियः ।तद्भावितञ्च मञ्जिष्ठा तगरं गौरसर्षपाः
शिवनिर्माल्यसंयुक्तं समभागानि कारयेत् ।भोज्ये पानेऽथवा देयाः स्त्रीणान्तु वशकारकाः
नित्यं पुरुषमिच्छन्ती मृतमप्यनुगच्छति
*
अन्यप्रकारः कृष्णसर्पमप्यङ्गुलप्रमाणं शिर-श्छित्वास्यास्यं सर्षपादिभिः पूरयित्वा छायाशुष्कंशोषयेत् परतः सर्षपान् ग्राहयित्वा तानियस्मै दीयते वश्यो भवति
*
अन्यप्रकारः
पूगीफलं निर्गिलित्वापानमार्ग निर्गतं गृह्यधुस्तूर-रसान्तरितं कृत्वा सप्तदिनानि पूजयेत्
पुनःकुङ्कुमचन्दनैरधिभाव्य यस्मै दीयते वश्योभवति
*
अन्यप्रकारः ।“दर्दुरयुग्मं गृहीत्वा तद्धूमेन दाहयेत् ।तद्भस्म सह पानेन वश्यकृत् परमो मतः”
*
अन्यप्रकारः ।“अजगन्धस्य पत्राणि वचा कुष्ठेन मावयेत् ।श्मशानभस्मसंयुक्तं चूर्णञ्चेत्त्रिषु दुर्लभम्
अनेनैव तु चूर्णेन जोटयेत् त्रिश्च पादपम् ।पुष्पितं फलितं दृष्ट्वा चूर्णं वृक्षाद्विलग्नयेत् ।तत्क्षणात् फलते वृक्षो नरनारीषु का कथा
*
अन्यप्रकारः ।“जिह्वामूले सप्तरात्रं सैन्धवेनापि मिश्रितम् ।ददाति यस्य पानेषु सोऽपि वश्यो भवेत् क्षणात्”
*अन्यप्रकारः ।“गोपित्तं सैन्धवञ्चैव वृहतीफलमेव ।लेपमेतत् प्रयोक्तव्यं नरनारीवशङ्करम्”
*
अन्यप्रकारः ।“बालामूलं चूर्णयित्वा रक्तरेतःसमन्वितः ।दद्यात् पानेन प्रमदां क्षिप्रमेव वशं नयेत्
पुत्त्रादिञ्च धनं त्यक्त्वा दासीवत् भवति तु सा ।यत्र वा नीयते तत्र पश्चात् भ्रमति विह्वला”
*
अन्यप्रकारः वल्मीकमृत्तिकायाः प्रतिकृतिं कृत्वाक्षीरेण स्नाप्य आज्येन वा अभ्यज्य तस्य लवणाहुति-मेकविंशतिवारं जुहुयात् त्रिरात्रेण वश्यो भवतिसप्तरात्रेणाथवा देवीञ्च गान्धारीं यक्षिणीं शक्र-स्यापि पत्नीं वशमानयति
*
अन्यप्रकारः ।“उद्गातुः पक्षिणो मलमात्मनो रुधिरान्वितम् ।स्त्रीपुंसयोः प्रदातव्यं वशीकरणमुत्तमम्”
अत्र मन्त्रः त्रिशूलिने त्रिनेत्राय हिलि हिलिस्वाहा वर्णाः १४ सप्तजप्तेन सिद्धिः
*
अन्यप्रकारः ।“कृष्णपक्षचतुर्दश्यां मृतभस्म तु ग्राहयेत् ।स्त्रीणाञ्च मूर्द्ध्नि दातव्यं विद्यया परिजप्तया
दह्यते मुह्यते नारी पच्यते शुष्यतेऽपि ।अङ्गानि चैव भज्यन्ते यदि तं समाविशेत्”
अत्र मन्त्रः ओँ नमश्चामुण्डे श्मशानवासिनिस्वाहा वर्णाः १४ सप्तरात्रेण प्रेरकः
*
अन्यप्रकारः ।“श्वेतार्कं रोचनायुक्तं आत्ममूत्रेण पेषयेत् ।ललाटे तिलकं कृत्वा त्रैलोक्यं क्षोभयेत् क्षणात् ।दृष्टमात्रेण तेनैव सर्व्वो भवति किङ्करः”
*
अन्यप्रकारः ।“श्वेतार्कं चन्दनेनैव रमयेत् सह लेपयेत् ।दीयते कस्यचिद्वापि पश्चाद्दासी भविष्यति
*
अथ पतिवशीकरणम् ।“मधुकं सह तैलेन सार्षपेण तु पेषयेत् ।एतेन पाणिमभ्यज्य भर्त्रा सा सहिता स्वपेत्
संवृत्ते मैथुनीभावे पतिर्दासो भविष्यति”
*
अन्यच्च ।“मनःशिलाकुङ्कुमसर्षपाश्चतथा कुष्ठं सहदेवदारु ।रक्तञ्च रक्तं पलितेन सार्द्धम्प्रपेषयेत् सूक्ष्मतरं महान्तम्
प्रस्नातपूर्व्वाभिमुखोऽपि भूत्वासंस्मृत्य लक्ष्मीञ्चरुकेण पूज्य ।ततः प्रकुर्य्यात् तिलकं ललाटेवामाच्च हस्ताच्चतुरङ्गुलीभिः
पुंदृष्टमात्रेण भवेत् कान्ता-दासातिदासश्च किमत्र चित्रम्”
*
अथ लिङ्गलेपाधिकारः ।“वृहतीफलमूलानि पिप्पली मरिचानि ।भया रोचनया सार्द्धं लिङ्गलेपोत्तमो मतः
निःशेषस्त्रीजगत्कर्षं नाम्ना स्त्रीहृदयाङ्कुशम् ।मोहनं शस्त्रमेतद्धि मदनस्य स्मृतं बुधैः”
*
अन्यच्च ।“कुष्ठञ्च धातकीपुष्पं मरिचानि वचा तथा ।अनेन लिङ्गमालिप्य कृत्स्नां श्यामां वशं नयेत्
तासाञ्चित्तहरोऽप्येष मृतमप्यनुगच्छति ।विवशा भक्तिभावेन पश्चात् सर्व्वं प्रयच्छति”
*
अन्यच्च ।“पञ्चरक्तानि संगृह्य शुभानि यथेच्छया ।सर्व्वाणि समभागानि प्रियङ्गुञ्चापि तत्समम्
नागरं दशभागेन लेपः कान्तावशङ्करः”
*
अन्यच्च ।“देवदारु वचा कुष्ठं चतुर्थं वैश्वभेषजं ।आम्लवीजरसैर्युक्तं गौरीश्यामावशङ्करम्”
*
अन्यच्च ।“हरिद्रा वृहतीमूलं भद्रमुस्तं तथोत्पलम् ।विडङ्गं कृष्णं वैरञ्च समभागानि कारयेत्
लिङ्गलेपोत्तमो ह्येष रक्तवल्लीवशङ्करः”
*
अन्यच्च ।“हरिद्रा पिप्पलीमूलं पद्मं मधुकमेव ।एतानि समभागानि नवनीतेन पेषयेत्
लिङ्गलेपोत्तमो ह्येष गौरीप्रीताय शाङ्करः”
*
“कौशिकशोणितलेपात् सेचनाद्वापुष्टं भवेल्लिङ्गं ।तद्वशन्तेजस्तम्भमयं कीलकसदृशं भवेच्च
कौशिकं रुधिरं गृह्य गोमूत्रेण पेषयेत् ।वीर्य्यं हि स्तम्भयेन्नित्यं प्रहरार्द्धं संशयः”
*
सर्व्वसाधारणो मन्त्रः ओँ एं ह्रीं ह्रीं श्रींफट् स्वाहा अनेन मन्त्रेण सर्व्वयोगानभिमन्त्र्यसिद्धिः” इति श्रीपार्ब्बतीपुत्त्रश्रीनित्यनाथविर-चिते सिद्धखण्डे तन्त्रसारे कौतूहलविद्यानामइन्द्रजालतन्त्रम्
*
पुस्तकत्रयमालोच्य यथासाध्यंशोधितमेतत्
*
*
अपिच ईश्वर उवाच ।“इन्द्रजालं विना रक्षां करोतीति निश्चितम् ।रक्षामन्त्रं महामन्त्रं सर्व्वसिद्धिप्रदायकम्”
“ॐ नमो नारायणाय विश्वम्भराय इन्द्रजाल-कौतुकानि दर्शय दर्शय सिद्धिं कुरु कुरु स्वाहा”अष्टोत्तरशतजपेन सिद्धिः
*
अथ रक्षामन्त्रः ।“ॐ नमः परब्रह्मपरात्मने मम शरीरे पाहिपाहि कुरु कुरु”
“उल्लुकस्य कपालेन घृतेनाहतकज्जलं ।तेन नेत्राञ्जनं कृत्वा रात्रौ पठति पुस्तकम्
अङ्कोलवीजनिक्षिप्ते गुरुवारे मुखे गजे ।मन्त्रेण सिञ्चयेन्नित्यं यावद्वीजफलं वै
त्रिलौहवेष्टितं कृत्वा एकवीजं मुखे स्थितम् ।मत्तमातङ्गवीर्य्यस्तु वायुतुल्यपराक्रमः
दशहेमद्विषट्ताम्रं षोडशं रूप्यभागकम् ।एवं संख्या त्रिलोही ज्ञातव्या सर्व्वकर्म्मणि
यानि कानि वीजानि जङ्गमं स्थलमेव ।अङ्कोलवीजनिक्षिप्ते मुखे भूमितले ध्रुवम्
तद्वीजं मुखमध्यस्थं त्रिलोहैर्वेष्टितं कुरु ।तद्रूपो हि भवेन्मर्त्त्यो नान्यथा शङ्करोदितम्
यानि कानि वीजानि अङ्कोलतैलमेलनात् ।सफलो जायते वृक्षः सिद्धियोगमुदाहृतम्
शवमुखे विन्दुमात्रं तत्तैलं निःक्षिपेद्यदि ।एकयामं भवेत् जीवो नान्यथा शङ्करोदितम्
शिग्रुवीजस्थितं तैलं पारावतपुरीषकम् ।वराहस्य वसायुक्तं गृहीत्वा समं समम्
गर्दभस्य वसायुक्तं हरितालं मनःशिला ।एभिस्तु तिलकं कृत्वा यथा लङ्केश्वरो नृपः
उल्लुविष्ठां गृहीत्वा तु एरण्डतैलपेषणात् ।यस्याङ्गेनिक्षिपेत् विन्दुं क्षिप्तो जायते ध्रुवम्
सर्पदन्तं गृहीत्वा तु कृष्णवृश्चिककण्टकम् ।कृकलारक्तसंयुक्तं सूक्ष्मचूर्णन्तु कारयेत्
यस्याङ्गे निक्षिपेञ्चूर्णं सद्यो याति यमालयम्
सिन्दुरं गन्धकं तालं समं पिष्ट्वा मनःशिलाम् ।तल्लिप्तवस्त्रं शिरसि अग्निवत् दृश्यते ध्रुवम्
अर्कक्षीरं वटक्षीरं क्षीरं डुम्बरसम्भवम् ।गृहीत्वा पात्रके लिप्ते जलपूर्णं करीति ।दुग्धं संजायते तत्र महाकौतुककौतुकम्
१०
अङ्कोलतैललिप्ताङ्गो दृश्यते राक्षसाकृतिः ।पलायन्ते नराः सर्व्वे पशुपक्षिगजाहयाः
११
अङ्कोलस्य तु तैलेन दीपं प्रज्वालयेन्नरः ।रात्रौ पश्यति भूतानि खेचराणि महीतले
१२
बुधे वा शनिवारे वा कृकलां परिगृह्य ।शत्रुर्मूत्रयते यत्र कृकलां तत्र निःक्षिपेत्
निखनेद्भूमिमध्येषु उद्धृते पुनः सुखी ।नपुंसकं भवेत् सत्यं नान्यथा शङ्करोदितम्
१३
गन्धकं हरितालञ्च गोमूत्रञ्च विषं तथा ।सूक्ष्मचूर्णमयं कृत्वा किञ्चिद्वह्निं विनिःक्षिपेत्
विघ्नाः सर्व्वे पलायन्ते यथा युद्धेषु कातराः
१४
इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे इन्द्र-जालकौतुकदर्शनं नाम एकादशः पटलः
*
*
अन्यच्च ।“वश्याकर्षणकर्म्माणि वसन्ते योजयेत् प्रिये ।ग्रीष्मे विद्वेषणं कुर्य्यात् प्रावृषि स्तम्भनं तथा
शिशिरे मारणञ्चैव शान्तिकं शरदि स्मृतम्
हेमन्ते पौर्णमास्याञ्च ऋतुकर्म्मविशारदः ।वसन्तश्चैव प्रर्ब्बाह्ने ग्रीष्मो मध्याह्न उच्यते
वर्षा ज्ञेयापराह्ने तु प्रदोषे शिशिरः स्मृतः ।अर्द्धरात्रे हेमन्तः शरदं तत्परं स्मृतम्”
*
अथ पक्षादिनिर्णयः ।“कृष्णपक्षे मारणादि शुक्लपक्षे वर्द्धनम्
द्वादश्यां मारणं कर्म्म एकादश्यां तथैव ।तृतीयां नवमीञ्चैव वश्याकर्षञ्च कारयेत् ।स्तम्भनञ्च चतुर्दश्यां चतुर्थ्यां प्रतिपद्यपि
द्वितीयां षष्ठीमष्टम्यां कारयेत् शान्तिकर्म्म ।अश्विनीमृगमूलाश्च पुष्या पुनर्व्वसुस्तथा
वश्याकर्षञ्च कर्त्तव्यं कारयेच्च सदा बुधः ।ज्येष्ठा उत्तराषाढा अनुराधा रोहिणी
कारयेन्मारणं शान्तिं स्तम्भनं विजयं तथा ।विधिमन्त्रसमायुक्तमौषधं सफलं भवेत्”
*
अथ वशीकरणम् ।“सिग्दूरमाक्षिककपोतमलानि पिष्ट्वालिङ्गं विलिप्य रमते तरुणीं नवोढां ।शान्तिं याति पुरुषो मनसापि नूनंदासी भवेदिति मनोहरदिव्यमूर्त्तिः
पुष्ये रुद्रजटामूलं मुखस्थं कारयेद्बुधः ।ताम्बूलादौ प्रदातव्यं वश्या भवति निश्चितम्
तथैव पाटलीमूलं ताम्बूलेन तु वश्यकृत् ।नागपुष्पं प्रियङ्गुञ्च तगरं पद्मकेशरम्
जटामांसी समं नीत्वा चूर्णयेत् मन्त्रवित्तमः ।साङ्गं धूपयते तेन भजते कामवत् स्त्रियः”
ओँ मूली मूली महामूली सर्व्वं संक्षोभभयेभ्यःउपद्रवेभ्यः स्वाहा धूपमन्त्रः
“पानीयस्याञ्जलीन् सप्त दत्त्वा विद्यामिमां जपेत् ।सालङ्कारां नवां कन्यां लभते मासमात्रतः
ओँ विश्वावसुर्नाम गन्धर्ब्बः कन्यानामधिपतिः सुरूपांसालङ्कारां देहि मे नमस्तस्मै विश्वावसवे स्वाहा ।“कन्यागृहे शालकाष्ठं क्षिपेदेकादशाङ्गुलम् ।ऋक्षेच पूर्व्वफल्गुन्यां यस्तां कन्यां प्रयच्छति
*
अथ सर्व्वजनवशीकरणम् ।“शिला रोचनामूलं वारिणा तिलके कृते ।दृष्टमात्रे वशं याति नारी वा पुरुषोऽपि वा
स्वर्णेन वेष्टनं कृत्वा तेनैव तिलके कृते ।सम्भाषणेन सर्व्वेषां त्रैलोक्यं वशमानयेत्”
ओँ ह्रीँ क्लीँ ऐँ क्षौँ भोगप्रदा भैरवी मातङ्गीत्रैलोक्यं वशमानय स्वाहा औषधोपरि सहस्रजपंकुर्य्यात् पुनः सप्तवारजपेन तिलकं कारयेत्शक्रसमोऽपि वश्यो भवति इति कालनाथविर-चिते इन्द्रजाले अध्यायः
*
अथाकर्षणं ओँ ह्रीँ चामुण्डे ज्वल ज्वल प्रज्वलप्रज्वल स्राहा अनेन मन्त्रेण स्त्रियं दृष्ट्वा जपंकुर्य्यात् तत्क्षणात् पृष्ठतः समागच्छति पूर्व्व-मेवायुतजपेन सिद्धिः
“अश्लेषायां समादाय अर्ज्जुनस्य व्रध्नकम् ।अजमूत्रेण संपिष्य स्त्रीणां शिरसि दापंयत्
पुरुषस्य पशूनां वा क्षिपेदाकर्षणं भवेत्”
*
अथ जयः ।“गोजिह्वां शिखिमूलं वा मुखे शिरसि संस्थिता ।कुरुते सर्व्ववादेषु जयं पुष्ये समुद्धृते
मार्गशीर्षपौर्णमास्यां शिखिमूलं समुद्धरेत् ।बाहौ शिरसि वा धार्य्यं विवादे विजयो भवेत्
गिरिकर्णीं शमीं गुञ्जां श्वेतवर्णां समाहरेत् ।चन्दनेनान्वितञ्चैव तिलकेन जयी नरः
कणकार्कवटावह्निर्विद्रुमः पञ्चमस्तथा ।तिलकं कुरुते यस्तु पश्येत्तं पञ्चधा रिपुः
आर्द्रायां वटवन्दाकं गृहीत्वा धारयेत् करे ।संग्रामे जयमाप्नोति जयां स्मृत्वा जयी भवेत्”
अस्य मन्त्रः ओँ नमो महाबलपराक्रम समस्त-विद्याविशारद अमुकस्य भूजबलं बन्धय बन्धयदृष्टिं स्तम्भय स्तम्भय अङ्गानि धूनय धूनय पातयपातय महीतले ह्रीं
*
अथ सौभाग्यम् ।“पुष्योद्धृतं सितार्कस्य मूलं वामेतरे भुजे ।बद्ध्वा सौभाग्यमाप्नोति दुर्भगापि संशयः
रक्तचितार्कमूलन्तु सोमग्रस्ते समुद्धृतं ।क्षीद्रैः पिष्ट्वा वटीं कुर्य्यात् तिलकं शुभमङ्गना”
*
अथ ईश्वरादिक्रोधोपशमनं ओँ शान्ते प्रशान्तेसर्व्वक्रोधोपशमनि स्वाहा ।अनेन मन्त्रेण त्रिःसप्तधा जपेन मुखं मार्जयेत् ।ततः क्रोधोपशमनं भवति”
*
गजनिवारणम् ।“श्वेतापराजितामूलं हस्तस्थं वारयेत् गजम् ।मूलं त्रिशूल्या वक्त्रस्थं गजवश्यकरं भवेत्”
*
व्याघ्रनिवारणं ।“मुखस्थं वृहतीमूलं हस्तस्थं व्याघ्रभीतिजित्” ।ह्रीं ह्रीं ह्रीं श्रीं श्रो श्रो स्वाहा ।इत्यष्टाक्षरमन्त्रेण लोष्ट्रं पठित्वा क्षिपेत् ।तदा मुखं चालयति गन्तुमशक्यः
“मूलं कृष्णचतुर्दश्यां ग्राहयेल्लाङ्गलीभवम् ।हस्तस्थं व्याघ्रभीतादिभयहृत् परिकीर्त्तितम्”
इति इन्द्रजालतन्त्रे उपदेशः
*
अथ स्तम्भनम् ।“श्वेतगुञ्जोत्थितं मूलं मुखस्थं दृष्टतुण्डजित्” ।ओँ ह्रीँ रक्ष रक्ष चामुण्डे तुरु तुरु अमुकं मेवशमानय वशमानय स्वाहा अयं चण्डामन्त्रः ।उक्तयोगसिद्धिः
“पुष्यार्के मधुवन्दाकं गृहीत्वा प्रक्षिपेद्बुधः ।सभामध्ये सर्व्वेषां मूखस्तम्भः प्रजायते”
*
मेघस्तम्भनम् इष्टकद्वयसंपुटमध्ये मेघसंख्यक-चतुरस्रं विलिख्य उद्याने स्थापयेत्तदा मेधान्स्तम्भयति मन्त्रः “मेघान् स्तम्भय स्तम्भय”
*
नौकास्तम्भनम् ।“भरण्यां क्षीरकाष्ठस्य कीलं पञ्चाङ्गुलं क्षिपेत् ।नौकामध्ये तदा नौकास्तम्भनं जायते ध्रुवम्”
*
निद्रास्तम्भनम् ।“मूलं वृहत्या मधुकं पिष्ट्वा नस्यं समाचरेत् ।निद्रास्तम्भनमेतद्धि मूलदेवेन भाषितम्”
*
शस्त्रस्तम्भनम् ।“कपित्थस्य वन्दाकं कृत्तिकायां समाहरेत् ।“वक्त्रसंस्थन्तु देवस्य शस्त्रस्तम्भनकं परम्
करे सुदर्शनामूलबन्धनात् स्तम्भनं तथा” ।ओँ अहो कुम्भकर्ण महाराक्षस निकषागर्भ-सम्मतपरसैन्यस्तम्भन महाभय रणरुद्र आज्ञापयस्वाहा अष्टोत्तरसहस्रजपात् सिद्धिः
“गृहीत्वा शुभनक्षत्रे अपामार्गस्य मूलकम् ।लेपमात्रे शरीराणां सर्व्वशस्त्रनिवारणम्
पुष्यार्के श्वेतगुञ्जाया मूलमुद्धृत्य धारयेत् ।हस्ते काण्डभयं नास्ति संग्रामे कदाचन”
*
गोमहिष्यादिस्तम्भनम् ।“उष्ट्रस्यास्थि चतुर्दिक्षु निखनेत् भूतले ध्रुवम् ।गां मेषीं महिषीं वाजीं स्तम्भयेत् करिणीमपि”
*
बुद्धिस्तम्भनम् ।“भृङ्गराजमपामार्गं सिद्धार्थं सहदेविकाम् ।ओलं वचाञ्च श्वेतार्कं ध्रुवमेषां समाहरेत्
लौहपात्रे विनिक्षिप्य द्विदिनान्ते समुद्धरेत् ।तिलकैः सर्व्वभूतानां बुद्धिस्तम्भकरं परम्”
ओँ नमो भगवते विश्वामित्राय नमः सर्व्व-मुखीभ्यां विश्वामित्र आगच्छ आगच्छ स्वाहा ।उक्तयोगस्यायं मन्त्रः
*
चौरगतिस्तम्भननम् ।ओँ ब्रह्मवेशिनि शिवे रक्ष रक्ष स्वाहा अनेनमन्त्रेण सप्तपाशान् गृहीत्वा त्रीणि कट्यां बद्ध्वाअपरान् मुष्टिभ्यां धारयेत् इति चौराणां गति-स्तम्भनम् *
गर्भस्तम्भनम् ।“ग्राह्यं कृष्णचतुर्दश्यां धूस्तूरस्य तु मूलकम् ।कट्यां बद्ध्वा रमेत् कान्तां गर्भं धारयेत् क्वचित्
मुक्तेन लभते गर्भं पुरा नागार्ज्जुनोदितम् ।तन्मूलचूर्णं योनिस्थं गर्भें सम्भवेत् क्वचित्
सिद्धार्थमूलं शिरसि बद्ध्वा कान्तां रमेत्तु थां ।न गर्भं धारयेत् सा स्त्री मुक्तेन लभते पुनः”
*
शुक्रस्तम्भनम् ।“नीलीमूलं श्मशानस्थं कट्यां बद्ध्वा तु वीर्य्यधृक् ।रक्तापामार्गमूलन्तु सोमवारे निमन्त्रयेत्
भौमे प्रातः समुद्धृत्य कट्यां बद्ध्वा तु वीर्य्यधृक्”
इति कामरत्ने उपदेशः
*
मोहनम् ।“शृङ्गीवचानलदसर्जरसं समानंकृत्वा त्रुटिं मलयजञ्च षडेकमिश्रम् ।यो धूपयेन्निजगृहं वसनं शरीरंतस्यापि दास इव मोहमुपैति लोकः”
भृङ्गराजः केशराजो लज्जा सहदेविका ।एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः”
ओँ अं आं इं ईं उं ऊं ऋं ॠं हूं फट् ।“अनेनैव तु मन्त्रेण कृत्वा ताम्बूलभावनम् ।साध्यस्य मुखनिक्षिप्तेमोहमायाति तत्क्षणात्”
ओँ भीँ क्षीँ भोँ मोहय इमं मन्त्रं वारत्रयंजपेत् मोहमाप्नोति मानवः
*
देहरञ्जनम् ।“कदम्बपत्रं लोध्रञ्च अर्ज्जुनस्य पुष्पकम् ।पिष्ट्वा गात्रोद्वर्त्तनाच्च कायदुर्गन्धनाशनम्
एला-शटी-पत्रक-चन्दनानितोयाभयाशिग्रुघनामयानि ।ससौरभोऽयं सुरराजयोगःख्यातः सुगन्धो नरमोहयोग्यः”
*
मुखरञ्जनम् ।“रसालजम्बूफलगर्भसारःसकर्कटो माक्षिकसंयुतश्च ।स्थितो मुखान्ते पुरुषस्य रात्रौकरोति पुंसां मुखवासमिष्टम्
चूर्णं मुराकेशरकुष्ठकानांप्रातदिनान्ते परिलेढि या स्त्री ।अप्यर्द्धमासेन मुखस्य वासःकर्पूरतुल्यो भवति प्रकाशः”
*
केशकृष्णीकरणादि ।“लोहकिट्टं जवापुष्पं पिष्ट्वा धात्रीफलं समम् ।त्रिदिनं लेपयेत् शीर्षं त्रिमासं केशरञ्जनम्”
इति कृष्णीकरणम्
*
केशशुक्लीकरणम् ।“वज्राक्षीरेण सप्ताहं अन्वहं भावयेत्तिलम् ।तत्तैललिप्ताः केशाः स्युः शुक्लाश्च नात्र संशयः
इति कामरत्ने उपदेशः
*
अथ वाजीकरणं“अश्विन्यां वटवन्दाकं क्षीरैः पिष्ट्वा महाबलः ।पुष्योद्धृतं पिबेन्मूलं श्वेतार्कस्य प्रयत्नतः
स्वप्तरात्रन्तु गोक्षीरैर्वृद्धोऽपि तरुणायते” ।“चूर्णं विदार्य्याः स्वरसेन तस्याःविभावितं भास्कररश्मिजाले ।मध्वाज्यसंमिश्रितमेव लीढे-द्दशस्त्रियो गच्छति निर्विशङ्कः”
*
जन्मबन्ध्याचिकित्सा ।“समूलपत्रां सर्पाक्षीं रविवारे समुद्धरेत् ।एकवर्णगवां क्षीरैः कन्याहस्तेन पेषयेत्
ऋतुकाले पिबेत् बन्ध्या पलार्द्धं तद्दिने दिने ।क्षीरशाल्यन्नमुद्गञ्च लघ्वाहारं प्रदापयेत्
एवं सप्तदिनं कुर्य्यात् बन्ध्या भवति गर्भिणी ।उद्वेगं भयशोकञ्च दिवानिद्रां विवर्जयेत्
कर्म्म कारयेत् किञ्चित् वर्जयेत् सावगाहनम् ।पतिसङ्गं चरेत् सा नात्र कार्य्या विचारणा
कृष्णापराजितामूलं छागीक्षीरेण संपिबेत् ।ऋतुकाले समायाते भुक्त्वा गर्भधरा भवेत्
गोक्षुरस्य तु वीजन्तु पिबेन्निर्गुण्डिकारसैः ।त्रिरात्रं सप्तरात्रं वा बन्ध्या भवति गर्भिणी”
इतीन्द्रजाले जन्मबन्ध्याचिकित्सा
*
अथ काकबन्ध्याचिकित्सा ।“अश्वगन्धीयमूलन्तु ग्राहयेत् पुष्यभास्करे ।पेषयेन्महिषीक्षीरैः पलार्द्धं भक्षयेत् सदा
सप्ताहाल्लभते गर्भं काकबन्ध्या चिरायुषम्” ।इतीन्द्रजाले काकबन्ध्याचिकित्सा
*
अथ मृतवत्साचिकित्सा ।“प्राङ्मुखः कृत्तिकाऋक्षे बन्ध्या कर्कोटकीं हरेत् ।तत्कन्दं पेषयेत्तोयैः कर्षमात्रं सदा पिबेत्
या वीजपूरद्रुममूलमेकंक्षीरेण पक्वं प्रपिबेत् विमिश्रम् ।ऋतौ निजं या तु पतिं प्रयातिदीर्घायुषं सा तनयं प्रसूते
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला ।मेदा पयस्या काकोली मूलञ्चैवाश्वगन्धजम्
अजमोदा हरिद्रे द्वे हिङ्गुः कटुकरोहिणी ।उत्पलं कुमुदं द्राक्षा काकल्यौ तन्मूलद्वयम्
एतेषां कर्षकैर्भागैर्घृतप्रस्थ विपाचयेत् ।शतावरीरसं क्षीरं घृतस्येदं चतुर्गुणम्
संपिबेन्नियतं नारी नित्यं स्त्रीषु शस्यते ।पुत्त्रान् जनयते नारी मेधाढ्यान् प्रियदर्शनान्
या चैवास्थिरगर्भास्यात् या नारी जनयेत् मृतम् ।अल्पायुषञ्च जनयेत् या कन्याः प्रसूयते
योनिदोषे रजोदोषे गर्भस्नावे शस्यते ।प्रजावर्द्धनमायुष्यं सर्व्वग्रहनिवारणम्
नान्मा फलघृतं ह्येतदायुष्यं परिकीर्त्तितम् ।नोक्तञ्च लक्ष्मणामूलं वदन्त्यत्र चिकित्सकाः
जीववत्सा शुक्लवर्णा घृतमत्र तु दीयते
अरण्यगोमयेनात्र वह्नेर्न्त्वला प्रदीयते” ।अत्र पयस्या क्षीरयुक्तभूमिकुष्माण्डम् उत्पलं ।नीलं इतीन्द्रजाले मृतत्रत्साचिकित्सा
*
अथ गर्भस्रावचिकित्सा प्रथमे मासि ।“गोक्षीरैः पेषयेत्तुल्यं पद्मवेशरचन्दनम् ।पतने तं पिबेन्नारी महागर्भः स्थिरो भवेत्
अथवा मधुकं दारु शरवृक्षस्य वीजकम् ।संपिष्य क्षीरकाकोलीं पिबेत् क्षीरैश्च गोभवैः
नीलोत्पलं मृणालञ्च षष्ठी कर्कटश्टङ्गिका ।गोक्षीरश्च द्वितीये पीत्वा शाम्यति वेदना
श्रीखण्डं तगरं कुष्ठं मृणालं पद्मकेशरम् ।पिबेत् शीतोदकैः पिष्ट्वा तृतीये वेदनावती
अथवा क्षीरकाकीलीबलानन्तापयः पिबेत्
शीतोत्पलं मृणालानि गोक्षीरक-कशेरुकम् ।तुर्य्यमासे गवां क्षीरं पिबेत् सा वेदनापरा
अथवा मधुकं रास्ना श्यामा ब्राह्मणयष्टिका ।अनन्ता पेषयित्वा तु गवां क्षीरैः समं पिबेत्
पुनर्णवा काकोली तगरं नीलमुत्पलम् ।गोक्षीरं पञ्चमे मासि गर्भक्लेशहरं भवेत्
अथवा वृहतीयुग्मं यज्ञाङ्गं कट्फलं त्वचः ।गोघृतं क्षीरसंयुक्तं पिबेत् पिष्ट्वा पञ्चमे
सिता काशाखुमज्जा शीततोयेन पेषयेत् ।षष्ठे मासि गवां क्षीरैः पिबेत् क्लेशं निवर्त्तयेत्
अथवा गोक्षुरं शिग्रुं मधुकं पृश्निपर्णिकाम् ।बलायुक्ता पिबेत् पिष्ट्वा गोदुग्धैः षष्ठमाषके
काष्ठकं पौष्करं मूलं शृङ्गाटं नीलमुत्पलम् ।पिष्ट्वा सप्तमे मासि क्षीरैः पीत्वा प्रशाम्यति
अथवा मकरद्राक्षां शृङ्गाटञ्च सकेशरम् ।मृणालं शर्करायक्तं क्षीरैः पेयन्तु सप्तमे
यष्टी पठ्माक्षार्कमुस्तं केशरं गजपिप्पली ।नीलोत्पलं गवां क्षीरैः पिबेदष्टममासके
अथवा विल्वमूलञ्च कपित्थं वृहती शमी ।इक्षुपाटलयोर्मूलं एभिः क्षीरं प्रसाधयेत् ।तत्क्षीरमष्टमे पीत्वा गर्भे शाम्यति वेदना
विशालावीजकक्कोलं मधुना सह लेपयेत् ।वेदना नवमे मासि शान्तिमाप्नोति नान्यथा
अथवा मधुकं श्यामा ह्यनन्ता क्षीरकाकली ।एभिः सिद्धं पिबेत् क्षीरं नवमे वेदनावती
शर्करा गोस्तनी द्राक्षा सक्षुद्रं नीलमुत्पलम् ।पाययेत् दशमे मासि गवां क्षीरैः प्रशान्तये
अथवा शुद्धसंसिद्धं गोक्षीरं दशमे पिबेत् ।अथवा मधुकं दारु शुद्धक्षीरेण संपिबेत्
१०
क्षौद्रं वृषं चन्दनसिन्धुजातंमहेन्द्रराजं पयसा सुपिष्टम् ।गर्भं क्षरन्तं प्रतिहन्ति शीघ्रंयोगो विभुञ्जन् किल मूलदैवैः”
इति इन्द्रजाले गर्भस्रावचिकित्सा
*
अथ गर्भशुष्कम् ।“गोक्षीरं शर्करायुक्तं गर्भशुष्कप्रशान्तये ।पिबेद्वा मधुकं चूर्णं गाम्भारीफलचूर्णकम्
समांसं गव्यदुग्धेन गर्भिणी प्रशान्तये”
*
अथ सुखप्रसवयोगः ।“श्वेतं पुनर्णवामूलं चूर्णं योनौ प्रवेशयेत् ।तत्क्षणात् प्रसूते नारी गर्भे सति प्रपीडिते
वासकस्य तु मूलन्तु चोत्तरस्थं समुद्धरेत् ।कट्यां बद्ध्वा सप्तसूत्रैः सुखं नारी प्रसूयते
सहदेव्याश्च मूलं वा कटिस्थं प्रसवेत् सुखम् ।अपामार्गस्य मूलन्तु ग्राहयेच्चतुरङ्गुलम्
द्वारि प्रवेशयेत् योनौतत्क्षणात् सा प्रसूयते”
*
अथ स्तनवर्द्धनं स्तनोत्थापनञ्च ।“तैलं वचादाडिमकल्कसिद्धंसिद्धार्थजं लेपनतो नितान्तम् ।नारीकुचौ चारुतरौ सुपीनौकुर्य्यादसौ योगवरः प्रदिष्टः
श्रीपर्णिकाया रसवल्कसिद्धंतिलोद्भवं तैलवरं प्रदिष्टम् ।तुलेन वक्षोजयुगे प्रदेयंप्रयाति वृद्धिं पतितोऽपि नार्य्याः
प्रथमकुसुमकाले नस्ययोगेन पीतंसनियमममरास्यं तण्डलाम्भो युवत्याः ।कुचयुगलसुपीनं क्वापि नो याति पातंकथित इति पुरैव चक्रदत्तेन योगः”
*
अथ योनिसंस्कारः ।“प्रक्षालयेन्निम्बुकषायनीरैःस्विन्नाज्यकृष्णागुरुगुग्गुलानां ।धूपेन योनिं निशि धूपयित्वानारी प्रमीदं विदधातु भर्त्तुः”
*
अथ लोमशातनम् ।“पलाशभस्मान्विततालचूर्णै-रम्भाम्बुमिश्रैः परिलिप्य भूयः ।कन्दर्पगेहे मृगलोचनानांरोमाणि रोहन्ति कदापि नैव”
इति इन्द्रजालतन्त्रसंग्रहः
युद्धे क्षुद्रोपायविशेषः ।इति हेमचन्द्रः
वाचस्पत्यम्
Sanskrit
इन्द्रजाल
न०
इन्द्रेण कौशलाद्यैश्वर्य्येण जालं द्रष्टुर्नेत्रावरणंयथास्थितवस्तुदर्शनाक्षमत्वसाधनात्, इन्द्रस्य परमेश्वरस्यजालं भायेव वा मन्त्रौषधादिना अन्यथास्थितस्यवस्तुनोऽन्यथात्वेन दर्शनसाधने (कुहक) (वाजी) पदार्थे२ मायारूपे जाले “अतएव महान्तोऽस्याः प्रवदन्ती-द्रजालताम् एतस्मात् किमिवेन्द्रजालमपरं यद्गर्भवासस्थितंरेतश्चेत तिहस्त मस्तकपदप्रोद्भूतनानाङ्कुरम् पर्य्यायेण शि-शुत्वयौवनजरावेशैरनेकैर्वृतं पश्यत्यत्ति शृणोति जिघ्रति तथागच्छत्यथागच्छ देहवद्वटधानामौ सुविचार्य्यावलोक्यताम् क्व धानाः क्व वा वृक्षत्मामान्मायेति निश्चिन्”प० द० “स्थूणाकणन्द्रजालञ्च सौरञ्चापि तथार्ज्जुनः ।आग्नेयञ्चापि सौम्यञ्च ससर्ज कुरुदनन्दनः” भा०व० २७४ अ० इन्द्रेण इन्द्रकृतेन योगविशेषेण जालम् ।३ क्षद्रोपायभेदे इन्द्रजालञ्च द्रव्यविशेषसंयोगेनअद्धुतवस्तुदर्शकव्यापारः (किमष्टरि) इति संलण्डभाषाप्रसिद्धः मन्त्रद्रव्यविशेषेण वस्तुनोऽन्यथा करणव्व ।तच्चदत्तात्रेयतन्त्रे मन्त्रविशेषसाध्यम् विस्तरणाभिहितम् ।इन्द्रजालतन्ये तु ओषधिविशे तथाचरणं यदुक्तंततोदिङ्मात्रं प्रदर्श्यते “अथातः संप्रवक्ष्यामि चेन्द्र-जालमनुत्तमम्” इत्युपक्रम्य“अथातः संप्रवक्ष्यामि ओषधीनां विधिं वरे! येन विज्ञा-नमात्रेण सर्व्वसिद्धिर्भविष्यति महाकालस्य वीजानि प्रस्थ-मेकंसमाहरेत् धात्रीरसेन देवेशि! सप्त वारान् विभाव-येत कर्त्तव्या गुटिका तां स्वेनिक्षिप्य पार्व्वति!अचिरेणैव कालेन स्वयं पारावतो भवेत् अथातः संप्रव-क्ष्यामि शृण त्वं मम वल्लभे! छागस्य शीर्षं सङ्गृह्यतत्र कृष्णमृत्तिव रयित्क पुबर्धस्तरवीगनि वापयेत्यत्काले तानि पुष्पितानि भवन्ति तदा यस्योपारनिक्षिपेत् छागो भवति मयूरशीर्षमादायकृष्ण-चतुर्दश्यां मृत्तिकां पूरयेत् शणवीजानि वापयेत्यदा फलितः पुष्पितो भवति तदा शणवीजानिग्रींवायां बन्धयेत् मयूरो भवति कृष्णचतुर्दश्यांमयूरशीर्षमादाय कृष्णमृत्तिकां पूरयेत् कार्पासवीजा-नि वापयेत् तदा फलिताः पुष्पिता भवन्ति पुष्पफले सं-गृह्य समस्तं पेषयित्वा अङ्गं विलिप्य पानीयमध्ये प्रविश्ययदा जले तिष्ठति तदा मयूरो भवति कृष्णकाकशीर्षमा-दाय काकमाचीवीजानि वापयेत् यदा फलिता पुष्पिताभवति तत्फलं संगृह्य मुखे प्रक्षिप्य काको भवति काकइव गच्छति मह्यामुद्गीर्णे मोक्षः पारवतशीर्षमादायकृष्णमृत्तिकां पूरयित्वा तिलवीजानि वापयेत् क्षीरोद-केन सेचनीयं यदा पुष्पितो भवति तदा मुखे संस्था-प्य अन्तर्हितो भवति तेषां फलानां चूर्णं कृत्वा तेनचूर्णेन यं स्पृशति किङ्करो भवति सर्व्वस्वं ददाति ।तानि तिलानि संगृह्य नेत्राञ्जनेन सह पिष्ट्वा कपिला-दुग्धेन गुटिकां कारयेत् सप्तरात्रं पाचयेत् तां गुटिकांमुखे निक्षिप्य अन्तर्हितो भवति देवैरपि दृश्यते मनु-ष्याणां का कथा उद्गीर्णे पुरुषो भवति जीवेद्वर्ष-शतं स्त्रियः सर्वे जनाश्च वश्या भवन्ति गृध्रशिरः समा-दाय कृष्णचतुर्दश्यां कृष्णमृत्तिकायां निक्षिपेत् लशुनवी-जानि वापयेत् यदा फलं पुष्पं भवति तदा पुष्यनक्षत्रेपुष्पं गृहीत्वा अञ्जनेन सह कपिलाघृतेन कज्जलं पातयेत्चक्षुरञ्जनीयं यावत् तावत् योजनशतं पश्यति मेदिन्यां, दिवा नक्षत्राण्यपि पश्यति एवं उष्ट्रगर्द्दभमहि-षादीनां वृहज्जीवानां शिरसि यत् यत्वीजं यस्यशिरमि वापयेत् यदा पुष्पितः फलितो भवति तदा यस्यवीजानि मुखे निक्षिप्यन्ते जीवो भवति नात्र सन्देहः ।मातुलङ्गस्य मूलन्तु धुस्तूरवीजकेन पलाण्डुपुष्पमादाय सूक्ष्मचूर्णन्तु कारयेत् योऽस्य गन्धंसमाघ्राति स्नेहेन पश्यति दुन्दुभिं पटहांश्चैवशङ्खांश्चैव तु लेपयेत् एष भूतोपसृष्टानां कुमारीणांगृहेषु भूपतिं सेवमानानां तथा तत्कर्म्म-जीविनाम् चाग्निर्दह्यते वेश्म यत्रैष सोऽगदोभवेत् पारावतस्य हृदयं चक्षुर्जिह्वा शोणितम् ।अञ्जनं रोचनायुग्मं वनितावशकृत् परम् कपालं मानुषंगृह्य कनकस्य फलानि कर्पूरं मधुसंयुक्तं निघृय्य ति-लकेन नारी वा पुरुषोऽनेन वश्यो भवति नित्यशः ।एष कापालिको योगो वशिष्ठस्य शुभं मतम् नरजिह्वांसमुद्धृत्य सूक्ष्मचूर्णन्तु कारयेत् जलेन सुशीतेनदापयेत्तद्विचक्षणः पाने फले पुष्पे भक्ष्ये भोज्येच दापयेत् प्रजापतिकुलोद्भूता यदि साक्षादरुन्धतीसापि रक्ता प्रियं याति नान्यं पुरुषमिच्छति हरितालंश्मशाने कृष्णचतुर्दश्यां क्षिप्त्वा कुष्ठविमिश्रं ग्राह्यम्अवश्यं वशीभवेत् नरः नरतैलं प्रेताम्बरवर्त्तिकं कृत्वापात्रेरात्रौ प्रज्वाल्यार्कवृक्षस्कन्धे कज्ज्वलं कृत्वा चक्षुषीअभ्यञ्जेत् यं पश्यति वश्यो भवति कर्णदन्तमलंलाला स्वदेहाक्षिमलत्रयम् नासिकोद्भवरक्तञ्च चूर्णमे-तद्वलायुतम् एतत् सर्वं समुद्धृत्य गुटिकां कारयेद्बुधः ।पानभोजनके देयं वशीकरणमुत्तमम् काकजिह्वावचा कुष्ठमात्मनो रुधिरं स्त्रियः तद्भात्तदन्नं क-ञ्जिष्ठा तगरं गौरसर्षपाः शिवनिर्माल्यसंयुक्तं समभा-गानि कारयेत् भोज्ये पानेऽथवा देयं स्त्रीणान्तुवशकारकम् नित्यं पुरुषमिच्छन्तीमृतमप्यनुगच्छति ।कृष्णसर्पस्याङ्गुलप्रमाणं शिरश्छित्त्वास्यास्यं सर्षपादिभिः ।पूरयित्वा छायाशुषकं शोषयेत् परतः सर्षपान् ग्राह-यित्वा तानि यस्मै दीयते बश्यो भवति पूगीफलंगिलित्वाऽपानमार्गेण निर्गतं संगृह्य धुस्तूररसान्तरितंकृत्वा सप्त दिनानि पूजयेत् पुनः कुङ्कुमचन्दनैरधि-वास्य यस्मै दीयते वश्यो भवति दर्दुरयुग्मं गृहीत्वातद्धूमेन दाहयेत् तद्भस्म सह पानेन वश्यकृत् परमोमतः अजगन्धस्य पत्त्राणि वचां कुष्ठेन भावयेत् ।श्मशानभस्मसंयुक्तं चूर्णञ्चेत्त्रिषु दुर्लभम् अनेनैव तचूर्णेन योजयेत् त्रींश्च पादपान् पुष्पितं फलितं दृष्ट्वाचूर्णं वृक्षाद्विलग्नयेत् तत् क्षणात् फलते वृक्षो नरना-रोषु का कथा जिह्वामूले सप्तरात्रं सैन्धवेनापि मिश्रि-तम् ददाति यस्य पानेषु सोऽपि वश्यो भवेत् क्षणात् ।गोपितं सैन्धवञ्चैव वृहतीफलमेव लेप्यमेतत् प्रयोक्तव्यंनरनारीवशङ्करम् उद्गातुः पक्षमलिन आत्मनोरुधिरान्वितम् स्त्रीपुंसयोः प्रदातव्यं वशीकरणमुत्तमम् ।श्वेतार्कं रोचनायुक्तमात्ममूत्रेण पेषयेत् ललाटे तिलकंकृत्वा त्रैलोक्यं क्षोभयेत् क्षणात् दृष्टमात्रेणतेनैव सर्वो भवति किङ्करः श्वेतार्कं चन्दनेनैवरञ्जयेत् सह लेपयेत् दीयते कस्य चिद्वापि पश्चात्दासो भविष्यति मधूकं सह तैलेन सार्षपेण तु पेष-येत् एतेन पाणिमभ्यज्य भर्त्रा सा सहिता स्वपेत् ।संवृत्ते सैथुनीभावे पतिर्दासो भविष्यति” “यानि कानिच वीजान्यङ्कोलतैलेन मेलयेत् सफलो जायतेवृक्षः सिद्धियोग उदाहृतः शवमुखे विन्दुमात्रंतत्तैलं निःक्षिपेद् यदि एकयामं भवेत् जीवो ना-न्यथा शङ्करोदितम् शिग्रुवीजस्थितं तैलं पारावतपुरीषकम् वराहस्य वसायुक्तं गृहीत्वा समं समम् ।गर्दभस्य वसायुक्तं हरितालं मनःशिलाम् एभिस्तुतिलकं कृत्वा यथा लङ्केश्वरोनृपः उल्लुविष्टां गृहीत्वात्वेरण्डतैलेन पेषयेत् यस्याङ्गे निक्षिपेत् विन्दु सक्षिप्तोजायते ध्रुवम् सर्पदन्तं गृहीत्वा तु कृष्णवृश्चिककण्ट-कम् कृकलारक्तसंयुक्तं सूक्ष्मचूर्णन्तु कारयेत् ।यस्याङ्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् सिन्दूरंगन्धकं तालं समं पिष्ट्वा मनःशिलाम् तल्लिप्तवस्त्रं शिरसिअग्निवत् दृश्यते घ्रुवम् अर्कक्षीरं वटक्षीरं क्षीरं डुम्बरस-म्भवम् गृहीत्वा पात्रके लिप्ते जलपूर्णं करोति ।दुग्धं तत्र भवेत् सद्यो महाकौतुककौतुकम् अङ्कोलतैल-लिप्ताङ्गो दृश्यते राक्षसाकृतिः पलायन्ते नराः सर्वेपशुपक्षिगजा हयाः अङ्कोलस्य तु तैलेन दीपं प्रज्वा-लयेन्नरः रात्रौ पश्यति भूतानि खेचराणि महीतले ।बुधे वा शनिवारे वा कृकलां ग्राह्य यत्नतः शत्रुर्मूत्रयतेयत्र कृकलां तत्र निःक्षिपेत् निखनेद्भूमिमध्येषु उद्धृतेच पुनः सुखी नपुंसकंभवेत् सत्यं नान्यथा शङ्करोदितम् ।गन्धकं हरितालञ्च गोमूत्रञ्च विषं तथा सूक्ष्मचूर्ण-मयं कृत्वा किञ्चिद्वह्निं विनिःक्षिपेत् विघ्नाः सर्व्वेपलायन्ते यथा युद्धेषु कातराः” दत्तात्रेय तन्त्रे ११ प०
Capeller
German
इन्द्रजाल॑
n.
Indra's Natz, eine bes. mystische
Waffe, Blendwerk, Zauber.