इन्दुव्रत (induvrata)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaइन्दुव्रत
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಚಾಂದ್ರಾಯಣ ವ್ರತ
व्युत्पत्तिः - > इन्दुलोकप्राप्त्यर्थं व्रतम्
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritइन्दुव्रत इन्दुलोकप्राप्त्यर्थं व्रतम् शाक० त० । चान्द्रायणेव्रते तस्य चन्द्रलोकप्राप्तिसाधनत्वात् चन्द्रह्रास्ववृद्धिवशानु-सारेण भोजने ह्रासवृद्धिमत्त्वाच्च चान्द्रायणत्वम् तदेतत् प-ञ्चविधं तत्स्वरूपविभागादि प्रा० वि० दर्शितं यथा ।“एकैकं ह्रासयेत् पिण्ड कृष्णे, शुक्ले च बर्द्धयेत् । उपस्पृशं-स्त्रिषवणमेतच्चान्द्रायणञ्चरेत् । एतदेव विधिं कृत्वा आच-रेत् यवमध्यमे । शुक्तपक्षादि नियतश्चरेच्चान्दायणव्रतम्” ।“अष्टावष्टौ समश्नीयात् पिण्डान्मध्यदिने गते । निय-तात्मा हविष्यस्य यतिचान्द्रायणञ्चरन् । चतुरः प्रातर-श्नीयात् पिण्डान् विप्रः समाहितः । चतुरोऽस्तमितेसूर्य्ये शिशुचान्द्रायणं व्रतम् । अष्टावष्टौ समश्नीयात्पिण्डान्मध्यदिने गते । मासेनाश्नन् हविष्यस्य चन्द्रस्यैतिसलोकताम्” मनुः । एतत् पञ्चविधं चान्द्रायणम् पि-पीलिकातनुमध्यम्, यवमध्यं, यतिचान्द्रायणम्, सर्वतो-मुखं शिशुसंज्ञञ्च । यथाह जावालः “षिपीलिकायव-मध्यं यतिचान्द्रायणन्तथा । चान्द्रायणन्तथा ज्ञेयं चतुर्थंसर्वतोमुखम् । पञ्चमं शिशुसंज्ञञ्च तुल्यं पुण्यफलो-दयम्” । कृष्णप्रतिपदमारभ्य मासमेकं यदा क्रियते तदापिपीलिकामध्यं भवति, शुक्लप्रतिपदारम्भे यवमध्यमुभयत्रा-मावास्यायामभोजनं कृष्णप्रतिपदि चतुर्द्दशग्रासभोजना-रम्भे ह्रासक्रमेण चतुर्द्दश्यामेकग्रासः अमावास्यायः-मभोजनम् एवं प्राप्नोति तथा च वसिष्ठः । “मासस्यकृष्णपक्षादौ ग्रासानद्याच्चतुर्द्दश” । नन्वेवं क्रमेण पञ्चविंश-त्युत्तरं ग्रासशतद्वयं स्यात् न चत्वारिंशद्ग्रासाधिकं शतद्व-यम् तच्च याज्ञवल्क्येनोक्तम्” “यथा कथञ्चित् पिण्डानाञ्च-त्वारिंशच्छतद्वयमिति” । “यथा कथञ्चित् पिण्डानां तिस्रो-ऽशीतीः समाहितः” इति मनुनाप्युक्तम् । उच्यते संयम-दिवसे पौर्णमास्याम् अमावास्यायां वा पञ्चदशग्रासभोज-नेन संख्यापूरणसम्भवात् अथ वा पञ्चदश्यादिकमेवेदंव्रतम् न प्रतिपदादिकं चतुर्द्दश्यामेव व्रतसङ्कल्पः ।यथाह गोतमः पौर्ण्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकैकापचयेनापरपक्षमश्नीयात् अमावास्यायामुपोष्य एकै-कोपचयेन पूर्बपक्षम्, विपरीतमेकेषाम्” शङ्खलिखितौ“अमावस्यायां व्रतोपायनं यवमध्यम् अमावस्यायां पञ्च-दश पिण्डानश्नीयात्” उपायनमारम्भः । युक्तञ्चेदम्अवास्यायामपि पञ्चदशकलात्मकस्य चन्द्रमसः सूर्य्यप्रविष्ट-त्वात् तत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्दवाच्यत्वात् । जावालः “एकैकं वर्द्धयेग्रासं शुक्ले कृष्णेच ह्रासयेत् । अमावस्यां न भुञ्जीत यवमध्यञ्चरन् द्विजः ।एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्द्धयेत् । पौर्ण्णमास्यांन भुञ्जीत पिपीलितनुमध्यमम्” । अत्र कल्पतरुव्याख्या-नम् । एकैकं ह्रासयेदिति कृष्णप्रतिपदि पञ्चदशग्रास-मारभ्य एकैकापचयेनामावास्यायामेकोग्रासः तदनन्तरंशुक्लप्रतिमदि द्वौ ग्रासावेवं वृद्धिक्रमेण चतुर्द्दस्यां पञ्चदशग्रासाः सम्पद्यन्ते पौर्ण्णमास्याञ्चोपवास इति” पिपोलिकातनुमध्यं चान्द्रायणम्” । ऋषिचान्द्रायणमाह यमः“त्रींस्त्रीन् पिण्डान् समश्नीयात् नियतात्मा दृढव्रतः ।हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्” । अत्रचत्वारिंशच्छतद्वयसंख्या नास्ति । ग्रासपरिमाणमाह परा-शरः “कुक्कुटाण्डप्रमाणन्तु यावद्वा प्रविशेन्मुखम् ।एवं ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोधनम्” । सकलचन्द्रायण एव चतुर्द्दश्यामुपवासं कृत्वाऽपरदिने पञ्चदश्यांसंयमः कार्य्यः । यथा बौधायनः “शुक्लां चतुर्द्दशीमुप-वसेत् कृष्णचतुर्द्दशीं वा केशश्मश्रुनखलोमानि वापयित्वा”इत्याद्यभिधाय “तिथिनक्षत्रादिहोमं प्रत्यहमुक्तवान्”विस्तरभयान्न लिखितम् । अत्र सामान्यव्रतधर्म्मः कर्त्तव्यः ।विशेषमाह यमः “आर्द्रवासाश्चरेत् कृच्छ्रं स्नात्वा वस्त्रंन पीडयेत् । अङ्गुल्यग्रस्थितं ग्रासं गायत्र्या चाभि-मन्त्रयेत् । भक्षयित्वा उपस्पृश्य पुनरेवाभिमन्त्रयेत् ।आयसं तैजसं पात्रं चक्रोत्पन्नं विवर्ज्जयेत् । असुराणांहि तत् पात्रं पानपात्रमचक्रजम्” अचक्रजं कुलालचक्रा-निष्पन्नम् । अपरे धर्म्मा बौधायनादिषु द्रष्टव्याः । तेनएकत्रिंशद्दिनसाध्यं चान्द्रायणव्रतम्” । या० स्मृ० ।“तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मि-तान् । एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणंचरन् । यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम् ।मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् । कुर्य्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा । अनादिष्टेयु पापेषुशुद्धिश्चान्द्रायणेन तु । धर्म्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलो-कताम्” अत्र (२४०) ग्राससंख्योक्तेर्मध्ये नोपवास इतिप्रतीयते तथा हि प्रतिपादादिपञ्चदशसु ग्रासवर्द्धनेनभक्षणे “सैकपदघ्नपदार्द्धमथैकाद्यङ्कयुतिः किल सङ्कलिता-ख्येति” लीला० उक्तदिशा (१२०) ग्राससंख्या, पुनः कृष्णेह्रासेन तथैव संख्येति (२४०) भोज्यग्राससंख्या ।तथाच समर्थासमर्थभेदेन अनयोर्व्यवस्थोति सिद्धान्तः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
