| YouTube Channel

इन्दुव्रत (induvrata)

 
शब्दसागरः
English
इन्दुव्रत
n.
(-तं) A religious observance depending on the age of the
moon
diminishing the quantity of food by a certain portion
daily, for a fortnight or a month, &c.
E.
इन्दु and व्रत a religious
obligation.
Yates
English
इन्दु-व्रत (तं) 1.
n.
A religious fast re-
gulated by the moon.
Wilson
English
इन्दुव्रत
n.
(-तं) A religious observance depending on the age of the
moon
diminishing the quantity of food by a certain portion daily, for a
fortnight or a month, &c.
E.
इन्दु and व्रत a religious obligation.
Monier Williams Cologne
English
इन्दु—व्रत
n.
a religious observance depending on the age of the moon (diminishing the quantity of food by a certain portion daily, for a fortnight or a month,
&c.
),
MBh.
(cf. चान्द्रायण.)
Shabdartha Kaustubha
Kannada
इन्दुव्रत
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಚಾಂದ್ರಾಯಣ ವ್ರತ
व्युत्पत्तिः - > इन्दुलोकप्राप्त्यर्थं व्रतम्
शब्दकल्पद्रुमः
Sanskrit
इन्दुव्रतं,
क्ली,
(इन्दवे इन्दुलोकार्थं वा व्रतं ।) चान्द्राय-णव्रतं इति त्रिकाण्डशेषः
(यथा, महाभारते
)(“इन्दुव्रतसहस्रं तु यश्चरेत् कायशोधनम् ।पिबेत् यश्चापि गङ्गाम्भः समौ स्यातां वा समौ”)
वाचस्पत्यम्
Sanskrit
इन्दुव्रत
न०
इन्दुलोकप्राप्त्यर्थं व्रतम् शाक० त० चान्द्रायणेव्रते तस्य चन्द्रलोकप्राप्तिसाधनत्वात् चन्द्रह्रास्ववृद्धिवशानु-सारेण भोजने ह्रासवृद्धिमत्त्वाच्च चान्द्रायणत्वम् तदेतत् प-ञ्चविधं तत्स्वरूपविभागादि प्रा० वि० दर्शितं यथा ।“एकैकं ह्रासयेत् पिण्ड कृष्णे, शुक्ले बर्द्धयेत् उपस्पृशं-स्त्रिषवणमेतच्चान्द्रायणञ्चरेत् एतदेव विधिं कृत्वा आच-रेत् यवमध्यमे शुक्तपक्षादि नियतश्चरेच्चान्दायणव्रतम्” ।“अष्टावष्टौ समश्नीयात् पिण्डान्मध्यदिने गते निय-तात्मा हविष्यस्य यतिचान्द्रायणञ्चरन् चतुरः प्रातर-श्नीयात् पिण्डान् विप्रः समाहितः चतुरोऽस्तमितेसूर्य्ये शिशुचान्द्रायणं व्रतम् अष्टावष्टौ समश्नीयात्पिण्डान्मध्यदिने गते मासेनाश्नन् हविष्यस्य चन्द्रस्यैतिसलोकताम्” मनुः एतत् पञ्चविधं चान्द्रायणम् पि-पीलिकातनुमध्यम्, यवमध्यं, यतिचान्द्रायणम्, सर्वतो-मुखं शिशुसंज्ञञ्च यथाह जावालः “षिपीलिकायव-मध्यं यतिचान्द्रायणन्तथा चान्द्रायणन्तथा ज्ञेयं चतुर्थंसर्वतोमुखम् पञ्चमं शिशुसंज्ञञ्च तुल्यं पुण्यफलो-दयम्” कृष्णप्रतिपदमारभ्य मासमेकं यदा क्रियते तदापिपीलिकामध्यं भवति, शुक्लप्रतिपदारम्भे यवमध्यमुभयत्रा-मावास्यायामभोजनं कृष्णप्रतिपदि चतुर्द्दशग्रासभोजना-रम्भे ह्रासक्रमेण चतुर्द्दश्यामेकग्रासः अमावास्यायः-मभोजनम् एवं प्राप्नोति तथा वसिष्ठः “मासस्यकृष्णपक्षादौ ग्रासानद्याच्चतुर्द्दश” नन्वेवं क्रमेण पञ्चविंश-त्युत्तरं ग्रासशतद्वयं स्यात् चत्वारिंशद्ग्रासाधिकं शतद्व-यम् तच्च याज्ञवल्क्येनोक्तम्” “यथा कथञ्चित् पिण्डानाञ्च-त्वारिंशच्छतद्वयमिति” “यथा कथञ्चित् पिण्डानां तिस्रो-ऽशीतीः समाहितः” इति मनुनाप्युक्तम् उच्यते संयम-दिवसे पौर्णमास्याम् अमावास्यायां वा पञ्चदशग्रासभोज-नेन संख्यापूरणसम्भवात् अथ वा पञ्चदश्यादिकमेवेदंव्रतम् प्रतिपदादिकं चतुर्द्दश्यामेव व्रतसङ्कल्पः ।यथाह गोतमः पौर्ण्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकैकापचयेनापरपक्षमश्नीयात् अमावास्यायामुपोष्य एकै-कोपचयेन पूर्बपक्षम्, विपरीतमेकेषाम्” शङ्खलिखितौ“अमावस्यायां व्रतोपायनं यवमध्यम् अमावस्यायां पञ्च-दश पिण्डानश्नीयात्” उपायनमारम्भः युक्तञ्चेदम्अवास्यायामपि पञ्चदशकलात्मकस्य चन्द्रमसः सूर्य्यप्रविष्ट-त्वात् तत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्दवाच्यत्वात् जावालः “एकैकं वर्द्धयेग्रासं शुक्ले कृष्णेच ह्रासयेत् अमावस्यां भुञ्जीत यवमध्यञ्चरन् द्विजः ।एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले वर्द्धयेत् पौर्ण्णमास्यांन भुञ्जीत पिपीलितनुमध्यमम्” अत्र कल्पतरुव्याख्या-नम् एकैकं ह्रासयेदिति कृष्णप्रतिपदि पञ्चदशग्रास-मारभ्य एकैकापचयेनामावास्यायामेकोग्रासः तदनन्तरंशुक्लप्रतिमदि द्वौ ग्रासावेवं वृद्धिक्रमेण चतुर्द्दस्यां पञ्चदशग्रासाः सम्पद्यन्ते पौर्ण्णमास्याञ्चोपवास इति” पिपोलिकातनुमध्यं चान्द्रायणम्” ऋषिचान्द्रायणमाह यमः“त्रींस्त्रीन् पिण्डान् समश्नीयात् नियतात्मा दृढव्रतः ।हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्” अत्रचत्वारिंशच्छतद्वयसंख्या नास्ति ग्रासपरिमाणमाह परा-शरः “कुक्कुटाण्डप्रमाणन्तु यावद्वा प्रविशेन्मुखम् ।एवं ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोधनम्” सकलचन्द्रायण एव चतुर्द्दश्यामुपवासं कृत्वाऽपरदिने पञ्चदश्यांसंयमः कार्य्यः यथा बौधायनः “शुक्लां चतुर्द्दशीमुप-वसेत् कृष्णचतुर्द्दशीं वा केशश्मश्रुनखलोमानि वापयित्वा”इत्याद्यभिधाय “तिथिनक्षत्रादिहोमं प्रत्यहमुक्तवान्”विस्तरभयान्न लिखितम् अत्र सामान्यव्रतधर्म्मः कर्त्तव्यः ।विशेषमाह यमः “आर्द्रवासाश्चरेत् कृच्छ्रं स्नात्वा वस्त्रंन पीडयेत् अङ्गुल्यग्रस्थितं ग्रासं गायत्र्या चाभि-मन्त्रयेत् भक्षयित्वा उपस्पृश्य पुनरेवाभिमन्त्रयेत् ।आयसं तैजसं पात्रं चक्रोत्पन्नं विवर्ज्जयेत् असुराणांहि तत् पात्रं पानपात्रमचक्रजम्” अचक्रजं कुलालचक्रा-निष्पन्नम् अपरे धर्म्मा बौधायनादिषु द्रष्टव्याः तेनएकत्रिंशद्दिनसाध्यं चान्द्रायणव्रतम्” या० स्मृ० ।“तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मि-तान् एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणंचरन् यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम् ।मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् कुर्य्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा अनादिष्टेयु पापेषुशुद्धिश्चान्द्रायणेन तु धर्म्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलो-कताम्” अत्र (२४०) ग्राससंख्योक्तेर्मध्ये नोपवास इतिप्रतीयते तथा हि प्रतिपादादिपञ्चदशसु ग्रासवर्द्धनेनभक्षणे “सैकपदघ्नपदार्द्धमथैकाद्यङ्कयुतिः किल सङ्कलिता-ख्येति” लीला० उक्तदिशा (१२०) ग्राससंख्या, पुनः कृष्णेह्रासेन तथैव संख्येति (२४०) भोज्यग्राससंख्या ।तथाच समर्थासमर्थभेदेन अनयोर्व्यवस्थोति सिद्धान्तः