| YouTube Channel

इन्दुज (induja)

 
Monier Williams Cologne
English
इन्दु—ज
m.
‘son of the moon’,
N.
of the planet Mercury,
VarBṛS.
Apte Hindi
Hindi
इन्दुजः
पुं*
इन्दुः-जः -
बुधग्रह
Shabdartha Kaustubha
Kannada
इन्दुज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬುಧಗ್ರಹ
L R Vaidya
English
indu-ja {% m. %} the planet Mercury.
वाचस्पत्यम्
Sanskrit
इन्दुज
पु०
इन्दोर्जायते जन--ड वृहस्पपतिभार्य्यातारागर्भेचन्द्रेणोत्पादिते बुधे तदुत्पत्तिकथा हरिवं० २६ अ०सोमस्य राजसूययज्ञकरणानन्तरमैश्वर्य्येण मत्तस्य मति-भ्रान्तिमुपवर्ण्य “वृहस्पतेः वै भार्य्यां तारां नामयशस्विनीम् जहार तरसा सर्वानवमत्याङ्गिरःसुतान्”इत्युपक्रम्य ऋषीणां तत्र युद्धं वर्णयित्वा तत्र युद्धोप-द्रवेण उपद्रुतदेवैः प्रार्थितेन ब्रह्मणा यत् कृततदुक्तं तत्रैव “ततोनिवार्य्योशनसं तं वै रुद्रं भयङ्क-रम् ददावङ्गिरसे तारां स्वयमेव पितामहः ।तामन्तःप्रसवां दृष्ट्वा तारामाह वृहस्पतिः मदी-यायां ते योनौ गर्भो धार्य्यः कथञ्चन योनेरुदसृत्तंवै कुमारं दस्युहन्तमम् इषीकास्तम्बमासाद्य ज्व-लन्तमिव पावकम् जातमात्रः भगवान् देवानामक्षि-पद्वसु ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ।सत्यं ब्रूहि सुतः कस्य सोमस्याथ वृहस्पतेः पृच्छ्यमानायदा देवैर्नाह सा साध्वसाधु वा तदा तां शप्तुमारब्धःकुमारोदस्युहन्तमः तं निवार्य्य ततो ब्रह्मा तारां प्रपच्छसंशयम् यदत्र तथ्यं तद्ब्रूहि तारे! कस्य सुतोह्ययम् ।सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं शनैः सोमस्येति म-हात्मानं कुमारं दस्युहन्तमम् तं भूर्द्ध्न्याघ्राय तनयंसोमोधाता प्रजापतिः बुध इत्यकरोन्नाम तस्य पुत्रस्य धी-मतः” अस्यैव ग्रहत्वप्राप्तिः काशी० वर्णिता यथा” हरि-र्वशवत् बुधस्योत्पत्तिं वर्ण्णयित्वा “ततः सर्व्वेभ्योदेवेभ्य-स्तेजोरूपबलाधिकः बुधः सोमं समापृच्छ्य तपसे धृतनिश्चयः जगाम काशीं निर्वाणरार्शिं विश्वेशपालिताम् ।ततो लिङ्गं प्रतिष्ठाप्य स्वनाम्ना बुधेश्वरम् तपश्चचारचात्युग्रमुग्रं संशीलयन् हृदि” इति तत्तपोवणितम्तत्तपसा तोषितश्च महादेवस्तस्मै ग्रहरूपेण गगनेस्थितिरूपं वरं ददौ” यथा “ततः प्राह महेशानस्तत्स्तुत्या परि-तोषितः रौहिणेय! महाभाग्य! सौम्य सौम्यवचो-निधेः नक्षत्रलोकादुपरि तव लोको भविष्यति मध्येसर्वग्रहाणाञ्च सपर्य्यां लप्स्यसे पराम्” राशिचक्रेतत्स्थानञ्च सू० सि० “मन्दामरेज्यमूपुत्रसूर्य्यशुक्रेन्दुजे-न्दवः परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधराघनाः”इत्यनेन चन्द्रस्थानादुपरि शुक्राच्चाधः प्रदेशे उक्तम् ।तत्कक्षामानञ्च इन्दुशब्दे पृ० ९३१ श्रीपतिवाक्ये उक्तम्तस्य चारप्रकारः वृहत्संहितायां दर्शिता यथा ।“नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदथम् ।जलदहनपवनभयकृद्ध्वान्यार्घक्षयविवृद्ध्यै वा विचरञ्छ्रवण-धनिष्ठाप्राजापत्येन्दुविश्वदेवानि मृद्नन् हिमकरतनयःकरोत्यवृष्टिं सरोगभयाम् रौद्रादीनि मघान्तान्युपाश्रितेचन्द्रजेप्रजापीडा शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ।हस्तादीनि विचरन् षडृक्षाण्युपपीडयन् गवामशुभः ।स्नेहरसार्घविवृद्धिं करोति चोर्वीं प्रभूतान्नाम् आर्यम्णंहौतभुजं भाद्रपदामुत्तरां यमेशं चन्द्रस्य सुतो निघ्नन्प्राणभृतां धातुसङ्क्षयकृत् आश्विनवारुणमूलान्युपमृद्गन्रेवतीं चन्द्रसूनुः पण्यभिषग्नौजीविकसलिलजतुर-गोपघातकरः पूर्वाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृ-द्नीयात् क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ।प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः सप्त परा-शरतन्त्रे नक्षत्रैः कीर्तिता गतयः प्राकृतसंज्ञा वायव्य-याम्यपैतामहानि बहुलाश्च मिश्रा गतिः प्रदिष्टा शशि-शिवपितृभुजगदैवानि सङ्क्षिप्तायां पुष्यः पुनर्वसुः फल्गु-नीद्वयं चेति तीक्ष्णायां भाद्रपदाद्वयं सशाक्राश्वयुक्पौष्णम् योगान्तिकेति मूलं द्वे चाषाढे गतिः सुत-स्येन्दोः घोरा श्रवणस्त्वाष्ट्रं वसुदेवं वारुणंचैव पापाख्यासावित्रं मैत्रं शक्राग्निदैवतं चेति उदयप्रवासदिवसैःस एव गतिलक्षणं प्राह चत्वारिंशत्त्रिंशद् द्विसमेताविंशतिर्द्विनवकं नव मासार्धं दश चैकसंयुताः प्राकृता-द्यानाम् प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् ।सङ्क्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ऋज्व्यतिवक्रावक्रा विकला मतेन देवलस्यैताः पञ्चचतुर्द्व्येकाहाऋज्वापादीनां षडभ्यस्ताः ऋज्वी हिता प्रजानामतिवक्रार्थंगतिर्विनाशयति शस्त्रभयदा वक्रा विकला भयरोग-सञ्जननी पौषाषाढश्रावणवैशास्वेष्विन्दुजः समाघेषु ।दृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु कार्त्तिकेऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः ।शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि तदा विदधाति ।रुद्धानि सौम्येऽस्तमिते पुराणि यान्युद्गते तान्युपयान्तिमोक्षम् अन्येतु पश्चादुदिते वदन्ति लाभः पुराणां भव-तीति तज्ज्ञाः हेमकान्तिरथ वा शुकवर्णः सस्यकेनमणिना सदृशो बा स्निग्धमूर्तिरलघुश्च हिताय व्यत्ययेन शुभकृच्छशिपुत्रः” गगने बुधस्थानमुक्तं भा० स्क० ।“ततो बुधः सोमसुत उलभ्यमान तत उपरिष्टात् प्रायेणशुक्रवत् यदार्कात् व्यतिरिच्येत तत्रातिभयप्रायाना-वृट्यादिभयमाशंसते” इन्दुजातन्दुनन्दनेन्दुपुत्रादयोऽ-प्यत्र नर्म्मादायां नद्यां स्त्री सा मेकलकन्यकासोमसुता मुनिशापात् नदीत्वमाप्ता इयं प्रतीच्यामबन्तिषुस्थिता प्रत्यक्स्रोतोवहा यथा “अवन्तिषु प्रतीच्यां वैकीर्त्तमिष्यामि ते दिशि यानि तत्र पवित्राणि पुण्या-न्यायतनानि प्रियङ्ग्वाम्रबणोपेता वानीरफलशालिनी ।प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत! ।त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि सरिद्व-नानि शैलेन्द्रा देवाश्च सपितामहाः नर्मदायां कुरुश्रेष्ठ!सह सिद्धर्षिचारणैः स्नातुमायान्ति पुण्यौधैः सदा वारिषुभारत” भा० आ० ८९ अ०