| YouTube Channel

इन्दीवरं (indIvaraM)

 
शब्दकल्पद्रुमः
Sanskrit
इन्दीवरं,
क्ली,
(इन्दी लक्ष्मीस्तस्याः वरं प्रियं ।) नील-पद्मं तत्पर्य्यायः नीलाम्बुजन्म इत्यमरः ।कुवलयं नीलाब्जं नीलोत्पलं इति रत्न-माला
(“इन्दीवरेण नयनं मुखमम्बुजेन” इतिकालिदासः “इन्दीवरश्यामतनुर्नृपोऽसौ” इतिरघुः ६५ ।) (नीलोत्पलशब्देऽस्यगुणादयो ज्ञेयाः ।)