| YouTube Channel

इद्वत्सर (idvatsara)

 
Yates
English
इद्वत्सर (रः) 1.
m.
A year.
अभिधानचिन्तामणिपरिशिष्टम्
Sanskrit
--source--
हिमागमस्तु हेमन्ते वसन्ते पिकवान्धवः
पुष्पसाधारणश्चापि ग्रीष्मे तूष्मायणो मतः २४
आखोरपद्मौ वर्षे तु ऋतुवृत्तिर्युगांशकः
कालग्रन्थिर्मासमलः संवत्सर्वर्तुशारदौ २५
वत्स इद्वत्सर इडावत्सरः परवाणिवत्
-wordlist-
हिमागम (पुं), पिकबान्धव (पुं), पुष्पसाधारण (पुं), उष्मायण (पुं), आखोर (पुं), पद्म (पुं), ऋतुवृत्ति (स्त्री), युगांशक (पुं), कालग्रन्थि (स्त्री), मासमल (पुं), संवत् (स्त्री), सर्वर्तु (पुं), शारद (पुं), वत्स (पुं), इद्वत्सर (पुं), इडावत्सर (पुं), परवाणिवत् (पुं)
शब्दकल्पद्रुमः
Sanskrit
इद्वत्सरः,
पुं,
इदावत्सरः यथा, --“संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।इद्वत्सरस्तृतीयस्तु चतुर्थस्त्वनुवत्सरः
पञ्चमो वत्सरस्तेषां तदेभिः पञ्चभिर्युगं ।तेषु संवत्सरो ह्यग्निः सूर्य्यस्तु परिवत्सरः
सोम इद्वत्सरस्तेषां वायुश्चैवानुवत्सरः ।रुद्रस्तु वत्सरो ज्ञेयः पञ्चाव्दा ये युगात्मकाः”
इति देवीपुराणे कालव्यवस्थानामाध्यायः