इदि (idi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit इन्द्
इदि
परमैश्वर्ये
अदादिः, भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
इन्दति
इदित्
धातुप्रदीपः
Sanskritइदिँ इदि परमैश्वर्य्ये
- इन्दति । इन्दाञ्चकार । इन्दिदिषति । इन्द्रः । इन्द्रवरुण (4/1/49) इत्यादिना ङीषानुकौ । इन्द्राणी । अत इञ् (4/1/95) ऐन्द्रिः । सास्य देवता (4/2/24) ऐन्द्रं हविः । छ च (4/2/28), महेन्द्राद् घाणौ च (4/2/29) महेन्द्रीयम् । महेन्द्रियम् । माहेन्द्रम् । तस्येदम् (4/3/120) इत्यण्-ऐन्द्रं धनुः । शिशुक्रन्द (4/3/88) इत्यादिना छः इन्द्रजननमधिकृत्य कृतो ग्रन्थ इन्द्रजननीयः । इन्द्रियमिन्द्रलिङ्ग (5/2/93) इत्यादौ निपात्यते इन्द्रियम् ।। 62 ।।
क्षीरतरङ्गिणी
Sanskritइदिँ इदि परमैश्वर्ये
(अर्थविवरणम्) परमैश्वर्यं परमेशनक्रिया
इन्दति ऋज्रेन्द्राग्रवज्र (उ0228) इति रक् - इन्द्रः 61
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritइदिँ इदि (अर्थः) परमैश्वर्ये
( इन्दति इन्दाञ्चकार इन्दितेत्यादि ) लिटि "इजादेश्च'' इत्याम् इन्द्रः "ऋज्रेन्द्र इरनन्तो निपातितः इन्द्राणी ( सूत्रम्) इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् (इति सूत्रम्) इति पुंयोगादाख्यायां ङीषानुकौ ( सूत्रम्) पुंयोगादाख्यायाम् (इति सूत्रम्) पुंसोयोगात्तच्छब्देन स्त्रियामभिधानम् इन्द्रमात्मन इच्छति"सुप आत्मनः क्यच्''इति इषिकर्मणः सुबन्तादात्मेच्छायां क्यचि अकारस्य "अस्य च्वौ'' क्यचि च'' इतीकारे इन्द्रीयति अस्मात्सन्यतो लोपे "नन्द्रा'' इत्यत्राजादेरिति वर्त्तते, स च कर्मधारयः पचम्यन्त इत्यादेरचः परेषां नदराणां द्विर्वचननिषेध इति व्यवहितत्वादृकारस्य द्विर्वचने ( इन्दिद्रीयिषतीति भवति अग्नीन्द्रौ देवते अस्य आग्नेन्द्रं हविः ) "देवताद्वन्द्वे च'' इति पूर्वपदस्यानङ्, "सास्य देवता'' प्रथमान्ताद्देवतोपाधिकादस्त्यर्थेऽणित्यणि "देवताद्वन्द्वे च'' इति प्राप्ताया उत्तरपदवृद्धेः "नेन्द्रस्य परस्य'' इति निषेधः ( इन्दिरा ) बाहुलकात् किरच् 63
कृदन्तरूपमाला
Sanskrit1 {@“इदि परमैश्वर्ये”@} 2 परमैश्वर्यम् = परमेश्वरक्रिया-इति क्षीरस्वामी।
इन्दकः-दिका, इन्दकः-दिका, 3 इन्दिदिषकः-षिका
इन्दिता-ती, इन्दयिता-त्री, इन्दिदिषिता-त्री
इन्दन्-न्ती, इन्दयन्-न्ती, इन्दिदिषन्-न्ती
इन्दिष्यन्-न्ती-ती, इन्दयिष्यन्-न्ती-ती, इन्दिदिषिष्यन्-न्ती-ती
-- इन्दयमानः, इन्दयिष्यमाणः
-- इन्-इन्दौ-इन्दः
-- -- इन्दितम्-तः-तवान्, इन्दितः, इन्दिदिषितः-तवान्
इन्दः, इन्दः, इन्दिदिषुः, इन्दिदयिषुः
4 5 इन्द्रः-इन्द्राणी, 6 इन्दिरा
-- इन्दितव्यम्, इन्दयितव्यम्, इन्दिदिषितव्यम्
इन्दनीयम्, इन्दनीयम्, इन्दिदिषणीयम्
इन्द्यम्, इन्द्यम्, इन्दिदिष्यम्
ईषदिन्दः, दुरिन्दः, स्विन्दः
-- इन्द्यमानः, इन्द्यमानः, इन्दिदिष्यमाणः
इन्दः, इन्दः, इन्दिदिषः
इन्दितुम्, इन्दयितुम्, इन्दिदिषितुम्
7 इन्दा, इन्दना, इन्दिदिषा
इन्दनम्, इन्दनम्, इन्दिदिषणम्
इन्दित्वा, इन्दयित्वा, इन्दिदिषित्वा
समिन्द्य, समिन्द्य, इमिन्दिदिष्य
इन्दम् २, इन्दित्वा २, इन्दम् २, इन्दयित्वा २, इन्दिदिषम् २
इन्दिदिषित्वा २,
01 (६९)
02 (१-भ्वादिः-६३-अक। से। पर।)
03 [[२। ‘न न्द्राः संयोगादयः’ (६-१-३) इति नकारस्य द्वित्वनिषेधः।]]
04 [[आ। ‘अतर्दकास्त्वद्य विकर्दमाशयाः प्रखर्दवृत्तैरसमन्तितान्तिकाः। श्रुतान्दुकैः चितगजेन्द्ररोधिनः तुष्यन्तु सन्तो गुणबिन्दुलोलुपाः।।’ धा। का। १-९।]]
05 [[३। औणादिके (द। उ। ८-४६) रन् प्रत्यये रूपम्। स्त्रियां पुंयोगे ‘इन्द्रवरुण-’ (४-१-४९) इत्यादिना ङीष्, तत्संनियोगेनानुगागमश्च भवति।]]
06 [[४। औणादिके किरच् प्रत्यये रूपम्।]]
07 [पृष्ठम्००७२+ ३७]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
