| YouTube Channel

इदावत्सर (idAvatsara)

 
Yates
English
इदावत्सर (रः) 1.
m.
A particular year.
Wilson
English
इदावत्सर
m.
(-रः) A year, one of the five sorts of years in which
gifts of clothes and food are productive of great rewards.
Monier Williams Cologne
English
इ-दा—वत्सर॑
m.
(originally perhaps) ‘the present or current year’
one of the names given to the single years of a period of five years
one of the five years in which gifts of clothes and food are productive of great rewards,
AV.
VS.
MaitrS.
&c.
(इदावत्सरीय,
mfn.
belonging to such a year Comm. on
Pāṇ.
इदु-वत्सर and इद्-वत्सर
=
इदा-वत्सर above, इद्-वत्सरीय
=
इदावत्सरीय above.)
शब्दकल्पद्रुमः
Sanskrit
इदावत्सरः,
पुं,
(इदा इति वत्सरः ।) संवत्सरादि-पञ्चान्तर्गतवत्सरविशेषः अस्मिन् वत्सरे अन्न-वस्त्रदानं महाफलम् इति विष्णुधर्म्मोत्तरम्
(“संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोसीद्वत्-सरोऽसि” इति वाजसनेयीसंहिता २७ ४५
)
वाचस्पत्यम्
Sanskrit
इदावत्सर
पु०
इदाचिह्नितः वत्सरः वत्सरपञ्चकान्त-र्गते वत्सरभेदे तदानयनप्रकारो यथा “शकाङ्कात् पञ्च-भिःशेषात् समाद्याद्यास्तु वत्सराः सपरीदानुपूर्व्यास्तेतथोदापूर्व्वका मताः” ज्यो० तथा एकाङ्के शिष्टे सवत्सरः, द्व्यङ्के परिवत्सरः, त्र्यङ्के इदावत्सरः, चतुरङ्के अनुवत्सरः, पञ्चाङ्के शिष्टे उदावत्सरः तेषां फलन्तु मल० त० विष्णु-ध० “संवत्सरे तथा दानं तिलस्य तु महाफलम् परि-पूर्व्वेतथा दानं यवानाञ्च द्विजोत्तम! इदापूर्व्वेऽन्नव-स्त्राणां धान्यानाञ्चानुपूर्व्वके उदासंवत्सरे दानं रजतस्यमहाफलम्” उदावत्सरस्थाने इद्वत्सरोऽपि “परिवत्स-रोऽसीदावत्सरोऽसीद्वत्सरोऽसि” राज० श्रु० “नभोमण्डलंसह द्यावापृथिव्योर्मण्डलाभ्यां कात्र्स्न्येन सह भुञ्जीत तंकालं लवत्सररं परिवत्सरमिदावत्सरमनुवत्सरमुद्व-त्सरमिति भानोर्मान्द्यशैघ्य्रसमागतिभिः समामननन्ति”भाग० स्क० “मण्डलाभ्यां चन्द्रार्कमण्डलाभ्यां सह-भुञ्जीतेति तेन यदा सूर्य्यस्य शुक्लप्रतिपदि संक्रान्तिर्भवतितदा सौरचान्द्रयोर्मासयोर्युगपदुपक्रमो भवति संवत्स-रः ततः सौरमानेन वर्षे षट् दिनानि वर्द्धन्ते चान्द्र-मानेन षट् ह्रसन्तीति द्वादशदिनव्यवधानादुभयोरग्रप-श्चाद्भावो भवति एवं पञ्च वर्षाणि गच्छन्ति तत्र द्वौ मल-मासौ भवतः ततः पुनः षष्ठः संबत्सरः” श्रीधरः ।तथा समकालारब्धसौरचान्द्रमासयुक्तोबत्सरःसंवत्सरःचान्द्रसौरमासयोरारम्भे समत्वपरिवर्ज्जितमासारब्धोवत्सरः परिवत्सरः इद् इत्थं परिवत्, आरम्भेसमत्वपरिवर्ज्जनवत्त्वेऽपि अन्ते तयोः समत्वस्यागतिमान्वत्सरः इदावत्सरः अनुगतः सौरसंक्रान्तिं चान्द्रो-मासो यत्र तादृशोवत्सरः अनुवत्सरः अस्य वर्षस्या-सक्रान्तमासशून्यतया संक्रान्त्यनुगतचान्द्रमास घटितत्वेनतथात्वम् उत्क्रान्तो रविसंक्रान्तिं चन्द्रमासोऽत्र पुनःसमकालारम्भागतिमांश्च योवत्सरः उदावत्सरः अ-स्येव इद्वर्षत्वं चान्द्रसौरयोर्मासयोरारम्भेसमकालप्राप्त्यैव ।एवमेषामन्वर्थकता द्रष्टव्या पञ्चमवर्षे मलमासद्वय-पातकथनभपि “पञ्चमे षञ्चमे वर्षे द्वौ मासावधिमासकौ ।तेषां कालातिरेकेण ग्रहाणामतिचारतः” एतच्च प्रायिकं“द्वात्रिंशद्भिर्गतैर्मासैः दिनैः षीडशभिस्तथा घटिकानांचतुष्केण पतति ह्यधिमासकः” काल० धृतसिद्धान्तवाक्यात्तेन प्रागुक्तभारतवाक्यं “मलमासः विज्ञेयोमासेत्रिंशत्तमे भवेदिति” काठकगृह्यवाक्यञ्च ज्योतिःशास्त्रो-क्तमध्यमानमाश्रित्यैव सिद्धान्तवाक्यं तु स्फुटमानमा-श्रित्येत्यनयोरविरोधः एवमेव माधवादयः
Stchoupak
French
इदा-वत्सर-
m.
n.
d'une des années d'un cycle de cinq.