| YouTube Channel

इदन्द्र (idandra)

 
Apte
English
इदन्द्र [idandra],
a.
One who sees this. तस्मादिदन्द्रो नामेदन्द्रो वै Ait.
Up.*
3.14.
वाचस्पत्यम्
Sanskrit
इदन्द्र
पु०
इदं पश्यति दृश--बा० ड्रम् त० परमात्मनितस्य निरुक्तिरैतरेये दर्शिता यथा “स एतमेव पुरुष ब्रह्मततममपश्यदिदमदर्शमिति तस्मादिदन्द्रोनाम इदन्द्रो-हवै नामैनमेवमिदमिन्द्रं सन्तमित्याचक्षते परोक्षेण, परोक्षप्रिया हि देवाः” ऐत० उ० विवृतञ्चैतद्भाष्ये “यस्मादिदमि-त्येव यत्साक्षादपरोक्षाद्ब्रहृ सर्व्वान्तरमप्रश्यन्नपरोक्षेण ।तस्मादिदं पश्यतीति इदन्द्रो नाम परमात्मा इदन्द्रो-हवै नाम प्रसिद्धो लोक ईश्वरः तमेवं इदन्द्रम् ।इदमितिपरोक्षाभिधानेनाचक्षते ब्रह्मविदः संव्यवहारार्थंपूज्यतमत्वात् प्रत्यक्षनामग्रहणभयात् तथा हि परो-क्षप्रियाः परोक्षनामग्रहणप्रिया एव ह्येव हि यस्माद्देवाःकिमु सर्व्वदेवानामपि देवो महेश्वरः” विवृतमेतदानन्दगि-रिणा “तस्येदन्द्रनामप्रसिद्ध्यापि तस्य ज्ञानस्याऽपरोक्षत्वमितिवक्तु तस्मादिन्द्रैति वाक्यम् तद्व्याचष्टे यस्मादिति
यस्मात् सर्वान्तरं ब्रह्म इदमित्यपरोक्षं प्रत्यगात्मेत्येवाऽपश्य-दित्यन्वयः कथमिदन्द्रनामत्वमत आह इदन्द्रो वाइति नन्विन्द्रो मायाभिरित्यादादिन्द्रप्रसिद्धेर्न त्विदन्द्रइत्यत आह तमेबमिति इदन्द्रस्यैव स्वतः परोक्ष-त्वार्थम् अक्षरलोपेनेन्द्र इत्याहुरित्यर्थः परोक्षोक्तेःप्रयोजनमाह पूज्येति पूज्यानां परोक्षतयैव नामवक्तव्यमित्यत्र प्रमाणमाह तथा हीति देवा इतिपूज्या इत्यर्थः अत एवाचार्य्या उपाध्याया इत्युक्तावेवप्रीतिं कुर्व्वन्ति लोके, तु विष्णुमित्रादिनामग्रहणइति भावः नाम्नः परोक्षत्वं नाम यथार्थनाम्नो रूपा-न्तरकरणेन स्वरूपाच्छादनमिति ज्ञेयम्”