| YouTube Channel

इत्यादिना (ityAdinA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“सूच पैशुन्ये”@} 2 अदन्तः।
सर्वाण्यपि रूपाणि चौरादिककूटयतिवत् 3 ऊह्यानि।
सूचकः-चिका, सुसूचयिषकः-षिका
‘सूचिसूत्रि--’ 4 इत्यादिना अनेकाच्त्वेऽपि यङि 5 सोसूचकः
सूचयिता-त्री, सुसूचयिषिता-त्री, सोसूचिता-त्री
इति रूपाणि कत्रयति 6 वत् यथासम्भवमूह्यानि।
सूचकः, 7 सूची, सूचिः, विषूचिका, 8 सूक्ष्मम् इमानि अधिकान्यत्रेति विशेषः।
9
प्रासङ्गिक्यः
01
=>
(१९०९)
02
=>
(१०-चुरादिः-१८७४। अक। सेट्। उभ।)
03
=>
(२४०)
04
=>
(वा। ३-१-२२)
05
=>
[[१। ‘सूचिसूत्रि--’ (वा। ३-१-२२) इति यङ्
\n\n अनेकाच्त्वादप्राप्ते सति वार्तिकेन प्राप्तिः। अजन्तलक्षणस्यैकाज्विषयत्वादषोपदेशत्वात् उत्तरखण्डे षत्वम्।]]
06
=>
(१६१)
07
=>
[[२। पचादिगणपाठात् (३-१-१३४) सूची इति भवति।]]
08
=>
[[३। औणादिके (द। उ। ७-४१) स्मन्प्रत्यये रूपमेवम्। सूचयति सूच्यते वा सूक्ष्मम् = अणुः।]]
09
=>
[पृष्ठम्१३७५+ २८]