| YouTube Channel

इतरेतरयोगः (itaretarayogaH)

 
E Bharati Sampat
Sanskrit
(पुं) इतरेतरस्य योगः। १.इतरेतरयोगद्वन्द्वः द्वन्द्वसमासस्य कश्चन प्रकारः। द्वन्द्वसमासः इतरेतरयोगः समाहारः इति द्विविधः। समासघटकानां सर्वेषाम्पदानां क्रियायामन्वयः यत्र भवति सः इतरेतरयोगद्वन्द्वः। २.परस्परसम्बन्धः। ‘मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु’ माघः१०.१४।
वाचस्पत्यम्
Sanskrit
इतरेतरयोगः
पु०
इतरेतरस्य योग अन्वयः प्रत्येकप्राधा-न्येन सर्व्वेषामन्वये तदर्थे हि द्वन्द्वसमास इष्यते सचाने-कवत् प्रत्येकप्राधान्यात् धवश्च खदिरश्च इति वाक्ये हिधरखदिरौ इत्यत्र भिनत्तीत्यादि क्रियायां प्रत्येकस्य प्राधा-नान्येनैवान्वयः तथा एकजातीयक्रियान्वयितावच्छेदकविशिष्टेप्रत्येकान्वयबोधकत्वे इतरेतर योगाख्यः द्वन्द्वः संहति-प्राधान्ये तु समाहारद्वन्द्वः इति भेदः परस्परसम्पन्धे