| YouTube Channel

इतरः (itaraH)

 
Hindi
Hindi
सामान्य
E Bharati Sampat
Sanskrit
(वि)(इतरत्) इना कामेन तरति तृ(प्लवनतरणयोः)+अच् ‘नन्दिग्रहि०’ ३.१.१३४। १.अन्यः, अपरः। ‘वामेतरस्तस्य करः प्रहर्तुः’ रघुः२.३१। २.नीचः, पामरः। ‘इतरानपि तादृशाविहैतान्न गोपो यादव स्समर्च्यः’ याद०१५.४९। ‘इतर इव परिभूय ज्ञानम्, अविगणय्य तपः प्रभावम्, उन्मूल्य गाम्भीर्यम् मन्मथेन जडीकृतः’ काद०। ३.भेदाश्रयः। ‘इतरतापशतानि यथेच्छया वितर तानि सहे चतुरानन’ उद्‌भटः। ‘तमिमं कुरू दक्षिणेतरम्’ कुमार०।
शब्दकल्पद्रुमः
Sanskrit
इतरः, त्रि, (इना कामेन तरतीति + तॄ + अच्यद्वा इतेन ज्ञानेन क्षीयते इति बाहुलकात् अरः ।)अन्यः (“वामेतरस्तस्य करः प्रहर्त्तुः” इतिरघुः ३१ ।) नीचः इत्यमरः