| YouTube Channel

इङ्गुदी (iGgudI)

 
Yates
English
इङ्गु-दी (दी) 3.
f.
Idem.
Apte Hindi
Hindi
इङ्गुदी
स्त्री*
- "इङ्ग्-उ=इङ्गुः तं द्यति खण्डयति इति, दो-क"
"एक औषधि का वृक्ष, हिंगोट का वृक्ष, मालकंगनी"
Shabdartha Kaustubha
Kannada
इङ्गुदी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗಾರೆ ಗಿಡ
निष्पत्तिः - > दो (अवखण्डने) - "कः" (३-२-३)
व्युत्पत्तिः - > इङ्गुः रोगः तं द्यति
प्रयोगाः - > "प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः"
उल्लेखाः - > शाकु० १-१३
E Bharati Sampat
Sanskrit
(स्त्री) इङ्गुः रोगः तं द्यति इङ्गु+दो(अवखण्डने)+कः। ‘आतोऽनुपसर्गे कः’ ३.२.३, पृषो०। इङ्गुदीपादपः औषधिवृक्षः। ‘प्रस्निञ्छा क्वचिदिङ्गुदीफलभदः सूच्यन्त एवोपलाः’ शाकु०१३।
Wordnet
Sanskrit
Synonyms:
ज्योतिष्मती, पारावताङ्घ्री, कटभी, पिण्या, पारावतपदी, नगणा, स्फुटबन्धनी, पूतितैला, इङ्गुदी, स्वर्णलता, अनलप्रभा, ज्योतिर्लता, सुपिङ्गला, दीप्ता, मेध्या, मतिदा, दुर्जरा, सरस्वती, अमृता
noun
लताविशेषः-यस्याः बीजात् तैलं प्राप्यते तथा या वातकफहारिणी अस्ति।
"ज्योतिष्मतेः बीजस्य तैलं बहु उपयुक्तम् अस्ति।"
Synonyms:
विषकन्दः, पूतिगन्धः, इङ्गुदी
noun
कण्टकयुक्तस्य वनवृक्षस्य फलम्।
"विषकन्दात् तैलं प्राप्यते।"
अभिधानचिन्तामणिः
Sanskrit
--source--
नागरङ्गस्तु नारङ्ग इङ्गुदी तापसद्रुमः
-wordlist-
नागरङ्ग (पुं), नारङ्ग (पुं), इङ्गुदी (त्रि), तापसद्रुम (पुं)
अमरकोशः
Sanskrit
Word: इङ्गुदी
Root: इङ्गुदी
Gender: स्त्री
Number: all
Meaning(s):
tree of ascetics
Indian almond [Terminalia Catappa - Bot.]
Shloka(s):
2|4|46|1 इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ। (वनौषधिवर्गः)
Synonym(s):
2|4|46|1 इङ्गुदी (इङ्गुदी) (स्त्री)
2|4|46|1 तापसतरुः (तापसतरु) (पुं) tree of ascetics, Indian almond [Terminalia Catappa - Bot.]
Related word(s):
परा_अपरासंबन्धः वृक्षः
जातिः वृक्षः
अवयव_अवयवीसंबन्धः इङ्गुद्याः_फलम्
शब्दकल्पद्रुमः
Sanskrit
इङ्गुदी,
स्त्री,
(इङ्गुद + ङीष् ।) वृक्षविशेषः इङ्गौटइति भाषा जीयापुता इति तु वङ्गदेशीयाःप्रमादेन वदन्ति तस्य तु पुत्त्रजीव इत्यादीनिनामानि प्रसिद्धानि तत्पर्य्यायः तापसतरुः ।इत्यमरः
हिङ्गुपत्रः विषकण्टः अनिलान्तकः५ गौरत्वक् तनुपत्रः शूलारिः तापसद्रुमः९ तीक्ष्णकण्टः १० तैलफलः ११ पूतिगन्धः १२विगन्धकः १३ क्रोष्टुफलः १४ ।(यथा रघुः १४ ८१ ।“ता इङ्गुदीस्नेहकृतप्रदीप-मास्तीर्णमेध्याजिनतल्पमन्तः”
)अस्या गुणाः मदगन्धित्वं कटुत्वम् उष्णत्वम् ।फेनिलत्वम् लघुत्वम् रसायनत्वम् जन्तु-वातामयकफव्रणनाशित्वञ्च इति राजनिर्घण्टः
(अस्य पर्य्यायपूर्व्वकं गुणानाह ।“इङ्गुदोऽङ्गारवृक्षश्च तिक्तकस्तापसद्रुमः ।इङ्गदः कुष्ठभूतादिग्रहव्रणविषक्रिमीन्
हन्त्युष्णश्वित्रशूलघ्नस्तिक्तकः कटुपाकवान्” ।इति भावप्रकाशः
) ज्योतिष्मतीवृक्षः इतिरत्नमाला
नयाफट्की इति भाषा