इङ् (iG)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaइङ् - अध्ययने (अदा० आत्म० सक० अनि०) अधीते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಅಧ್ಯಯನ ಮಾಡು
धातुपाठः (Krishnacharya)
Sanskrit इ
इङ्
अध्ययने
अदादिः
सकर्मकः
अनिट्
आत्मनेपदी
अधीते
टिप्पनी: नित्यमधिपूर्वः
धातुप्रदीपः
Sanskritइङ् अध्ययने
- अधीते । अधीयाते । अधीयते । अधिजगे । अधिजगाते । अध्यगीष्ट ।अध्यैष्ट । अध्यैष्यत । अध्यगीष्यत । अध्यापयति । अध्यापिपत् । अध्यजीगपत् । अधिजिगापयिषति । अध्यापिपयिषति । अधिजिगांसते ।अधीयानः । अधीयन् । पारायणम् । अधीतः । अधीत इति अध्यायकः । अध्यापयतीति अध्यापकः । ण्यन्ताण्ण्वुल् । कठश्चासावध्यापकश्चेति कठाध्यापकः । ब्राह्मणाध्यापक इति याजकादिभिश्च (2/2/9) इति कारकषष्ठीसमासः ।। 37 ।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritइङ् अध्ययने अधिपूर्व्व एव ङित् अदा० आत्म० अनिट् ।अधीते अधीयीत अध्यैष्ट--अध्यगीष्ट । “अधिजगे, अध्यै-ष्यत--अध्यगीष्यत “योऽधीते शक्तितोऽन्वहम्” स्मृतिः ।“नाधीयीत कदाचन” मनुः । “अध्यैष्ट वेदांस्त्रिदशानयष्ट”भट्टिः शानच् अधीयानः । अकृच्छ्रिणि कर्त्तरि शतृअधीयन् “अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम्”भट्टिः अध्येतव्यम् “श्रोतव्यमिह श्रूद्रेण नाध्येतव्यं कदा-चन” । “स्वाध्यायोऽध्येतव्यः” श्रुतिः । अध्ययनीयम् ।अध्येयः “वेदएव सदाऽध्येयः” स्मृतिः । अध्येता । अधीतः“अधीतवेदवेदाङ्गत्वेन” वेदन्त सा० । ज्ञानार्थत्वात् कर्त्तरिक्तअधीतः “अधीते शतसाहस्रम्” स्मृतिः “अधीतिः “अ-धीतिबोधाचरणप्रचारणैः” नैष० । अध्येष्यमाणः ।“पीत्वापोऽध्येष्यमाणस्तु आचमेत् प्रयतोऽपि सन्” मनुःमावे अधीतम् । अधीतमनेन इनि अधीती । “त्वगुत्त-रासङ्गवतीमधीतिनीम्” कुमा० अधीत्य “अनधीत्य द्विजोवे-दान् योऽन्यत्र कुरुते श्रमम्” स्मृतिः । “अधीत्य चतुरोवे-दान्” पुरा० । अध्ययनम् । “अध्ययनेनाविप्रकृष्टः” पा० ।“सत्ताण्डवैरध्ययनं विनापि” मथुरा० अध्यायः “स्वाध्या-योऽध्येतव्यः” श्रुतिःणिच् अध्यापयति “अष्टवर्षं ब्राह्मण-मुपनयीत तमध्यापयीत” श्रुतिः अध्यापिपत् अध्यजिगपत्“अध्यापयामास पितॄन्” मनुः णिच्--सन् । अध्यापि-पयिषति--ते अधिजिगापयिषति--ते केवलात् सन् । अधि-जिगांसते । अध्यापकः अध्यापकशब्दे उदा० अध्यापितः“अध्यापितस्यीशनसापि नीतिम्” कुमा० । “भृतका-ध्यापको यश्च भृतकाध्यापितस्तथा” मनुः ।
क्षीरतरङ्गिणी
Sanskritइङ् अध्ययने
- इङोऽधिनावश्यंभावी योगः यदाह-कश्चित् तमनुवर्तते अधीते अधीयते-अकृत्सार्वधातुकयोर्दीर्घः (7425) गाङ् लिटि (2449) अधिजगे वेदम् विभाषा लुङ्लृङोः (2450) गाङ्कुटादिभ्योऽञ्णिन्ङित् (121) इति ङित्त्वम्, घुमास्थागापाजहाति (6466) इतीत्वम्- अध्यगीष्ट, अध्यैष्टः अध्यगीष्यत, अध्यैष्यत इङश्च (2448) इति सनि गमिः, अज्झनगमां सनि (6416) इति दीर्घः-अधिजिगांसते क्रीङ्जीनां णौ (6148) आत्त्वम्-अध्यापयति, बुधयुध (1386) इत्यतङ् णौ च संश्चङोः (2451) अधिजिगापयिषति, अध्यापिपयिषति, अध्यजीगपत्, अध्यापिपत् इङ्धार्योः शत्रकृच्छ्रिणि (32130) अधीयन् पारायणम् इङश्च (3321) इति घञ्- उपाध्यायः अपादाने स्त्रियां वा ङीष् (3321 वा0) उपाध्यायी, उपाध्याया अध्यायन्यायोद्यावा (33122) इत्यध्यायः साधुः 34
धातुवृत्तिः
Sanskritइङ् (अर्थः) अध्ययने
नित्यमधिपूर्वः ( अधीते, अधीयाते, अधीयते, अधीषे, अधीये, अधीवहे, ) क्ङ्त्यिजादावियङ् "रामादधीतसंदेश' इति भट्टिप्रयोगे पञ्चमी चिन्त्या, "आख्यातोपयोगे'' इत्याख्यातुः प्रतिपादयितुरपादानत्वं यस्मादुपयोग एव, उपयोगश्चनियमपूर्वकं विद्याग्रहणम्, तच्च उपाध्यादधीते इत्यादावेव सम्भवति ( अधिजगे, अधिजगाते, अधिजगिषे, अधिजगे, अधिजगिवहे) "गाङ् लिटि'' इति गाङादेशः क्रादिनियमादिट् "आतो लोप इटि च'' इत्याल्लोपः तस्य स्थानिवद्भावाद् द्विर्ववनम् गाशब्दस्यतु न स्थानिवत्त्वम्, "गाङ् लिटि''इति द्विलकारकनिर्देशाद् लावस्थावयामेव तद्विर्वचनिमित्ताज्निमित्तत्वाभावात् ( अध्येता अध्येष्यते अधीताम्, अधीयाताम्, अधीष्व, अध्ययै, अध्यावहै ) आटि गुणाययोरुपसर्गस्य यणादेशः पूर्वं धातोरुपसर्गेण योगेऽपि गुणात्पूर्वमन्तरङ्गत्वेन सवर्णदीर्घो न भवति, "वार्णादाङ्गं बलीय' इति गुणस्य बलीयस्त्वात् अथ वा"प्रत्ययः'' "णेरध्ययने वृत्तम'' इत्यादिनिर्देशान्न भविष्यति ( अध्यैतद् अध्यैयाताम्, ) अध्यैयत ) झस्यादादेशः ( अध्यैथाः, अध्यैयि, अध्यैवहि, ) अजादौ परत्वादियङि पश्चादाटि वृद्धौ उपसर्गस्य यणादेशः ज्ञापितं च "घुमास्था'' इत्यत्र हल्ग्रहणेन विप्रतिषेधे प्राप्ते "असिद्धवदत्र'' इत्यसिद्धत्वं नेति ( अधीयीतद् अधीयाताम्, अधीयीथाः, अधीयीध्वम्, अधीयीय, अधीयावहि, ) धातोरियङ्युपसर्गेण सवर्णदीर्घः आशिषि ( अध्येषीष्ट, अध्येषीयास्ताम्, अध्येषीष्ठाः', अध्येषीढ्वम्, ) इणः परत्वान्मूर्धन्यः (अध्येषीय, ) धातोर्गुणः, उपसर्गस्य यण् (अध्यगीष्ठ, अध्यगीषाताम्, अध्यगीष्ठाः, अध्यगीढ्वम्, अध्यगीषि) "विभाषा लुङ्लृङोः'' इति पक्षे गाङादेशः "गाङ्कुटादिभ्योञ्णिन्ङित्'' इत्यञ्णितः प्रत्ययस्य ङित्त्वातिदेशाद् "घुमास्था'' इतीत्वम् गाङभावे, ( अध्यैष्ट, अध्यैषाताम्, अध्यैष्ठाः, अध्यैढ्वम्, अध्यैषि, अध्यैष्वहि, ) आटि वृद्धौ उपसर्गस्य यणादेशः (अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त अध्यगीष्यथाः, अध्यगीष्यध्वम्, अध्यगीष्ये, अध्यगीष्यावहि) पूर्ववद्गाङ्विकल्पः गाङभावे (अध्यैष्यत)इत्यादयः (अधिजिगांसते) "इङश्च''इति सनि मिरादेशः "अज्झनगमां सनि'' इति दीर्घः "पूर्ववत्सन'' इति तङ् नायमादिष्टो गमिः सनः प्रकृतिः पृथगात्मनेपदी दृष्ट इति कथं "पूर्ववद्'' इत्यतिदेशेन तङिति न भ्रमितव्यम्H यस्मात्प्रत्ययविशेषोपादाने "आर्धधातुके'' इतीयं परसप्मीत्युक्तम् तेनेङः सनि परे पश्चाद्गमिरादेश इतीङेव सनः प्रकृतिः, स च पृथगात्मनेपदी दृष्टः स एव तङ्निमित्तमिति तङ्सिद्धेःगमेरिट् परस्मैपदेषु'' इतीण्निषेधः अयं च निषेधः आत्मनेपदेन समानपदस्थस्येति कृति चेड्भवत्येव ( अधिजिगमिषांचक्रे, अधिजिगमिषिता, अधिजिगमिषा, ) इति ( अध्यापयति ) "क्रीङ्जीनांणौ'' इत्यात्वे पुक् "बुधयुध'' इत्यादिना क्रियाफलस्य कर्तृगामित्वेऽपि परस्मैपदम् (अध्यजीगपत्) "णौ च संश्चङोः'' इति सन्परे चङ्परे णौ गाङादेशविकल्पः पुकि णौ चङि ह्रस्वे द्वित्वे ऽभ्यासस्य सन्वदित्वे "दीर्घो लघोः'' इति दीर्घः, आदेशाभावे, ( अध्यापिपत् ) पूर्ववदात्वतुकोश्चङि ह्रस्वे णिलोपे "द्विर्वचनेऽचि'' इति तस्य स्थानिवत्त्ववाद् "अजादेर्द्वितीयस्य''इति पिशब्दस्य द्विर्वचनम् एवं सन्परेऽपि (अधिजिगापयिषति, अध्यापिपयिषति) सनस्सेट्त्वात् न णिलोप इति गुणायौ ( अध्याप्य ) इत्यत्र "विभाषाऽऽपः'' इत्यापः परस्य णेर्ल्यपि विधीयमानोऽयादेशो न भवति अस्याब्रूपस्य लाक्षणिकत्वात् ( अधीत्य ) सवर्णदीर्घस्य षत्वतुकोरसिद्धत्वाद् ह्रस्वनिबन्धनस्तुक् अधीतमनेन ( अधीती व्याकरणे, ) व्याकरणमधीतवानित्यर्थः "इष्टादिभ्यश्च'' इति प्रथमासमर्थाद् अनेनेति कर्त्रर्थे इनिः "क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम्'' इति कर्मणि सप्तमी रात्रिरधीता अहरधीतमित्यत्र कालाध्वनोः कर्मबल्लाद्यर्थमिति काले कर्मणि निष्ठा इति "कालाध्वनोः'' इत्यत्र भाष्यम् ( अधीयन् ) पारायणम् अक्लेशेनाधीयान इत्यर्थः "इङ्धार्योः शत्रकृछ्रिणि'' इति कर्तरि शता "न लोकाव्यय'' इत्यत्र तृन् इति प्रत्याहारग्रहणात् कर्मणि कृद्योगलक्षणा षष्ठी न भवति उगित्त्वात् स्त्रियाम् (अधीयती) (अधीयान) इत्यत्र लट्स्थानिकस्य शानचो ऽकृच्छ्रविषयेणानेन शत्रा भिन्नविषयत्वान्न बाधः ( अध्यायः ) "इङश्च'' इत्यकर्तरिकारके भावे च घञ् उपेत्यास्मादधीयतइत्युपाध्यायः, पूर्ववद्घञ् ( उपाध्याया, उपाध्यायी ) अत्र स्त्रियां क्तिनाऽस्य घञो न बाधः, [अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् ]इति वचनात् पुंयोगङीषि तु "उपाध्यायमातुलाभ्यां वा'' इति पक्षे आनुगपि भवति, (उपाध्यायी, उपाध्यायानी) इति अधीयते ऽत्रेति (अत्यध्यायः) पुंसि संज्ञायां घम्बाधित्वा "ध्यायन्याय'' इति घञ् निपात्यते (सौवाध्यायिकः) "प्रयोजनम्'' इति ठक् "नय्वाभ्याम्'' इत्यैच्, वृद्धमभावश्च के चिदत्र ऐजागमार्थं द्वारादौ स्वाध्यायशब्दं पठन्ति, तदनर्थकम् यद्यत्र शोभनो ऽध्यायः स्वाध्याय इति व्युत्पत्तिस्तदा "नय्वाभ्याम्'' इत्यैच् सिद्धः, अथ स्वशब्देन समासः, तदापि द्वारारिषु स्वशब्दस्य पाठात् तदादेरपि तत्र ग्रहणात् सौवग्रामिकादिवदैचस्सिद्धिः कठश्चासावध्यापकश्च कठाध्यापकः, "पोटायुवति'' इत्यादिना समासः
आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैस्सह
इति चरणस्य जातित्वम् चरणशब्दश्च शाखाध्यायिषु रुढः ब्राह्मणस्याध्यापको (ब्राह्मणाध्यापकः) ण्यन्ताद् ण्वुल्, याजकादित्वाद् अकेनापि षष्ठीसमासः "एतिस्तु'' इति क्यब्विधौ नित्यमधिपूर्वत्वादस्यैतिग्रहणेन न ग्रहः तथा च भाष्ये 'अध्येयं व्याकरणम्' इति यदन्तो निर्दिश्यते 36
कृदन्तरूपमाला
Sanskrit1 {@“इङ् अध्ययने”@} 2 नित्यमधिपूर्वः।
‘अयत्येतीयते गत्यां, अधीतेऽध्येति चेङिकोः।’ इति 3 देवः।
‘धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते।
विशिनष्टि तमेवार्थमुपसर्गगतिस्त्रिधा।।’ इति क्षीरतरङ्गिण्यामुद्धृतः श्लोकः।
अध्यायकः-यिका, 4 अध्यापकः-पिका, 5 अधिजिगमिषकः-षिका
अध्येता-त्री, अध्यापयिता-त्री, अधिजिगमिषिता-त्री
6 अधीयन् पारायणम्, 7 अध्यापयन्- 8 न्ती, अध्यापयिष्यन्-न्ती-ती
9 अधीयती, 10 अध्यापयन्- 11 न्ती, अध्यापयिष्यन्-न्ती-ती
12 अधीयानः, 13 -- अधिजिगांसमानः 14
अध्येष्यमाणः, -- 15 अधिजिगांसिष्यमाणः
16 अधीतः 17 -तम्, अध्यापितः, अधिजिगमिषितः-तवान्
अध्ययः, 18 मन्त्राध्यायः, अध्यापः, अधिजिगमिषुः, 19 अधिजिगापयिषुः
अध्यापिपयिषुः
अध्येतव्यम्, अद्यापयितव्यम्, अधिजिगमिषितव्यम्
अध्ययनीयम्, अध्यापनीयम्, अधिजिगमिषणीयम्
अध्येयम्, अध्याप्यम्, अधिजिगमिष्यम्
ईषदध्ययः, दुरध्ययः, स्वध्ययः
-- 20 अधीयमानः, अध्याप्यमानः, अधिजिगांस्यमानः
21 अध्यायः, 22 अध्यायः, 23 उपाध्यायः, उपाध्याया, 24 उपाध्यायी, 25 उपाध्यायानी, अध्यापः, अधिजिगमिषः
अध्येतुम्, अध्यापयितुम्, अधिजिगमिषितुम्
अधीतिः, अध्यापना, अधिजिगमिषा, अधिजिगापयिषा, अध्यापिपयिषा
अध्ययनम्, अध्यापनम्, अधिजिगमिषणम्
अधीत्य, अध्याप्य, अधिजिगमिष्य
अध्यायम् २, अध्यापम् २, अधिजिगमिषम् २
01 (६६)
02 (२-अदादिः-१०४६। सक-अनिट्-आत्म।)
03 (श्लो १४)
04 [[१। ‘क्रीङ्जीनां णौ’ (६-१-४८) इति आत्वे ‘अर्तिही--’ (७-३-३६) इति पुक्।]]
05 [[२। ‘इङश्च’ (२-४-४८) इति सनि गमिः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इति इट्। ‘परस्मैपदेषु’ इत्यस्य ‘तङानयोरभावे’ इत्यर्थः।]]
06 [[३। ‘इङ्धार्योः शत्रकृच्छ्रिणि’ (३-२-१३०) इति शता।]]
07 [[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयु- क्षमाणान् अनिशं मुमुक्षून्। अध्या- पयन्तं विनयात् प्रणेमुः पद्गाः भरद्वाजमुनिं सशिष्यम्।।’ भ। का। ३-४१।]]
08 [[५। ‘बुधयुधनशजनेङ्--’ (१-३-८६) इति ण्यन्तात् परस्मैपदमेव।]]
09 [[४। ‘उगितश्च’ (६-३-४५) इति स्त्रियां ङीप्। अधीयन् पारायणं अकृ- च्छ्रेणाधीयान इत्यर्थः।]]
10 [[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयु- क्षमाणान् अनिशं मुमुक्षून्। अध्या- पयन्तं विनयात् प्रणेमुः पद्गाः भरद्वाजमुनिं सशिष्यम्।।’ भ। का। ३-४१।]]
11 [[५। ‘बुधयुधनशजनेङ्--’ (१-३-८६) इति ण्यन्तात् परस्मैपदमेव।]]
12 [[६। इयड् पूर्वम्। पश्चात् दीर्घः।]]
13 [[B। ‘ऋग्यजुषमधीयानान् सामन्यांश्च समर्चयन्। बुभुजे देवसात्कृत्वा शूल्यमुख्यं च होमवान्।।’ भ। का। ४-९।]]
14 [[७। ‘इङश्च’ (२-४-४८) इति गमादेशः। ‘अज्झनगमां सनि’ (६-४-१६) दीर्घः।]]
15 [[८। ‘आर्धधातुकस्येट्--’ (७-२-३५) इतीट्।]]
16 [पृष्ठम्००६७+ ४२]
17 [[आ। ‘इत्यः स्वधीतोपनिषद्भिरेषामधी- त्यरूपः स वियन् क्रमेण। इयञ्जनं राजपथं समायात् वाताकुलोद्भातव- ताकमीशः।।’ धा। का। २-४८।]]
18 [[१। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
19 [[२। ‘णौ च संश्चङोः।’ (२-४-५१) इति गादेशः वा, पक्षे आत्वे पुकि अध्या- पिपयिषुः इति रूपम्।]]
20 [[३। कर्मणि युक्।]]
21 [[४। ‘अध्यायन्याय--’ (३-३-१२२) इति संज्ञायां अधिकरणे घञ्। घाप- वादः।]]
22 [[५। ‘इङश्च’ (३-३-२१) इति भावादौ घञ् असंज्ञायाम्। अध्ययन- मध्यायः।]]
23 [[B। ‘ततः कपिसमाहारं एकनिश्चायमा- गतम्। उपाध्याय इवायामं सुग्रीवोऽध्यापिपद् दिशाम्।।’ भ। का। ७-३४।]]
24 [[६। ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्’ (वा। ३-३-२१) इति ङीष् वा।]]
25 [[C। ‘मातुलोपाध्याययोरानुग् वा’ (वा। ४-१-४९।) इति स्त्रियामानुग् वा।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
