| YouTube Channel

इक्ष्वाकुः (ikSvAkuH)

 
Apte
English
इक्ष्वाकुः [ikṣvākuḥ], 1
N.
of the celebrated ancestor of the Solar kings who ruled in Ayodhyā
(he was the first of the Solar kings and was a son of Manu Vaivasvata
(cf. Bhāg. क्षुवतस्तु मनोर्जज्ञ इक्ष्वाकुर्घाणतः सुतः)
इक्ष्वाकुवंशो$भि- मतः प्रजानाम्
U.*
1.44.
(pl. ) Descendants of Ikṣvāku
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम्
R.*
3.7. -क्रुः
f.
A kind of bitter gourd, Cucurbita Lagenaria (Mar. कडू दुध्या).
Apte 1890
English
इक्ष्वाकुः 1 N. of the celebrated ancestor of the solar kings who ruled in Ayodhyā
he was the first of the Solar kings and was a son of Manu Vaivasvata
(cf. Bhāg. क्षुवतस्तु मनोर्जज्ञ इक्ष्वाकुर्घ्राणतः सुतः)
इक्ष्वाकुवंशोऽ भिमतः प्रजानां U. 1. 44.
2 A descendant of Ikṣvāku
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतं R. 3. 70.
कुः f. A kind of bitter gourd.
Apte Hindi
Hindi
इक्ष्वाकुः
पुं*
- "इक्षुम् इच्छाम् आकरोति इति, इक्षु-आ-कृ-डु"
"अयोध्या में राज्य करने वाले सूर्यवंशी राजाओं का पूर्व पुरुष, यह वैवस्वत मनु का पुत्र था और सूर्यवंशी राजाओं में सब से प्रथम पुरुष था"
इक्ष्वाकुः
पुं*
- -
इक्ष्वाकु की सन्तान
E Bharati Sampat
Sanskrit
(पुं) इक्षुम् इच्छाम् आकरोति १.सूर्यवंशस्य राजा मनुचक्रवर्तेः पुत्रः। मनोः इक्ष्वाकुः, नाभागः, धृष्णुः, शर्थातिः इत्यादयः नव पुत्राः। अयम् इक्ष्वाकुः एव अयोध्यायाः प्रथमः राजा (पु.ब.व) २.इक्ष्वाकुवंशे जाताः राजानः। ‘इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हिसिद्धयः’ रघुः१.७२। ‘गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम्’ रघुः३.७०।
Wordnet
Sanskrit
Synonyms:
इक्ष्वाकुः
noun
एकः सूर्यवंशीयः राजा यः प्रतापवान् आसीत्।
"इक्ष्वाकुः रामस्य पूर्वजः आसीत्।"
Tamil
Tamil
இக்ஷ்வாகு: : அயோத்தியில் அரசு செய்த சூரிய குல மன்னர்களில் முதல் அரசன்.
अमरकोशः
Sanskrit
Word: इक्ष्वाकुः
Root: इक्ष्वाकुः
Gender: undefined
Number: undefined
Meaning(s):
bitter gourd
bitter cucumber [Citrullus colocynthis - Bot.]
fruit of a wild species of Calabash [Lagenaria Vulgaris - Bot.]
Shloka(s):
2|4|156|1 इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे। (वनौषधिवर्गः)
Synonym(s):
2|4|156|1 इक्ष्वाकु (इक्ष्वाकु) (स्त्री) bitter gourd, bitter cucumber [Citrullus colocynthis - Bot.], fruit of a wild species of Calabash [Lagenaria Vulgaris - Bot.]
2|4|156|1 कटुतुम्बी (कटुतुम्बी) (स्त्री)
Related word(s):
परा_अपरासंबन्धः लता
जातिः लता
शब्दकल्पद्रुमः
Sanskrit
इक्ष्वाकुः
पुं,
(इक्षुमाकरोतीति इक्षु + आङ् + कृ+ मितद्र्वादित्वात् डुः यद्वा इक्ष इति शब्दंअकतीति अक गतौ बाहुलकादुण् ।) वैवस्वतमनु-पुत्त्रः तु सत्ययुगे अयोध्यायां सूर्य्यवंशीयादि-राजः इति पुराणम्
(गीतायाम् ।“विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्” ।इक्ष्वाकोर्गोत्रे जाताः इति व्युत्पत्त्या वाच्यलिङ्गाः ।इक्ष्वाकुवंशोद्भवाः यथा रघुः ७२ ।“इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” ।)
इक्ष्वाकुः,
स्त्री,
(इक्षु + आङ् + कृ + डु ।) कटु-कुम्बी इत्यमरो मेदिनी
तितलाउ इतिभाषा (“इक्ष्वाकुकुसुमचूर्णं वा पूर्व्ववदेव क्षीरेणकाशश्वासच्छर्द्दिकफरोगेषूपयोगः” इति सुश्रुते ।“सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते” ।अस्याः पर्य्यायो यथा ।“लम्बाऽथ कटुकालावुतुम्बी पिण्डफला तथा ।इक्ष्वाकौ फलिनी चैव प्रोच्यते तस्य कल्पना”
अस्या रोगविशेषे प्रशस्तता यथा ।“कासश्वासविषच्छर्द्दिज्वरार्त्ते कफकर्षिते ।प्रताम्यति नरे चैव वमनार्थं तदिष्यते”
अवस्थाभेदेनास्या व्यवहारो यथा ।“अपुष्पस्य प्रबालानां मुष्टिं प्रादेशसम्मिताम् ।क्षीरप्रस्थे श्टतं दद्यात् पित्तोद्रिक्ते कफज्वरे
पुष्पादिषु चत्वारः क्षीरे जीमूतके यथा ।योगाहरितपाण्डूनां सुरामण्डेन पञ्चमः
फलस्य रसभागञ्च त्रिगुणक्षीरसाधितम् ।उरःस्थिते कफे दद्यात् स्वरभेदे सपीनसे
हृतमध्येफलेजीर्णे स्थितं क्षीरं यदा दधि ।जातं स्यात् कफजे कासे श्वासे वम्याञ्च तत्पिबेत्
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्द्धितः ।तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत्
अजाक्षीरेण वीजानि भावयेत् पाययेत ।विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु
तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम् ।छर्द्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः
भक्षयेत्फलमध्यं वा गुडेन पललेन ।इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्व्ववद्घृतम्
पञ्चाशद्दशवृद्धानि फणादीनां यथोत्तरम् ।पिबेद्विमृद्य वीजानि कषायेष्वासुतं पृथक् ।यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत्
कषायैः कोविदाराद्यैर्मात्राश्च फलवत् स्मृताः ।गुल्ममेहे प्रसेके कल्कं मांसरसैः पिबेत्
नरः साधु वमत्येवं दौर्ब्बल्यमश्नुते”
“इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचां ।कुष्ठं किण्वाग्निकौ चापि पिबेत्तुल्यानि पूर्व्ववत्”
)इति चरकः
)