| YouTube Channel

इक्षुरसः (ikSurasaH)

 
Apte Hindi
Hindi
इक्षुरसः
पुं*
इक्षुः-रसः -
गन्ने का रस
इक्षुरसः
पुं*
इक्षुः-रसः -
"गुड़, राब या शक्कर"
E Bharati Sampat
Sanskrit
(पुं) इक्षोः निष्पन्नः रसः। इक्षुक्वाथरसः।
Wordnet
Sanskrit
Synonyms:
इक्षुरसः
noun
इक्षोः रसः।
"इक्षुरसः स्वादु पौष्टिकं पेयम् अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
इक्षुरसः,
पुं,
(इक्षोरिव रसो यस्य ।) काशतृणं ।इति भावप्रकाशः
(इक्षुवृक्षस्य रसः अस्य गुणाःक्रमेण यथा
दन्तपीडितेक्षुरसगुणाः जीवन-हितकारित्वं, हिमत्वं, शुक्रकारित्वं, तृप्तिजनकत्वं, वायुरक्तपित्तनाशित्वं, स्वादुत्वं, रक्तवर्द्धकत्वं धातु-वर्द्धकत्वञ्च यथा भावप्रकाशः ।“दन्तद्धिष्पीडितस्येक्षो रसः पित्तास्रनाशनः ।शर्करासमवीर्य्यः स्यादविवादी कफप्रदः”
यन्त्रनिष्पीडितरसगुणाः, रक्तशुक्रकारित्वम्, शी-तलत्वं, सारकत्वं, दाहजनकत्वं, किञ्चित् पित्त-वायुनाशित्वं, क्षीरविष्टम्भदाहकारित्वञ्च यथा, भावप्रकाशे, --“मूलाग्रजन्तुग्रन्थ्यादिपीडनात् मलसंकरात् ।किञ्चित्कालं विधृत्याथ विकृतिं याति यान्त्रिकः
तस्मात् विदाही विष्टम्भी गुरुः स्यात् यान्त्रिकोरसः पर्य्युषितेक्षुरसगुणाः वान्तिहरत्वं, वातज-नकत्वं, जाड्यप्रतिश्यायरोगदातृत्वं, कफवायुकारि-त्वञ्च यथा भावप्रकाशे ।“रसः पर्य्युसितो नेष्टो ह्यम्लो वातापहो गुरुः ।कफपित्तकरः शोषी भेदनश्चातिमूत्रलः”
*
पक्वेक्षुरसगुणाः गुरुत्वं सुतीक्ष्णत्वं कफ-वातनाशित्वं स्निग्धत्वं अतिपाके विदाहत्वं ।पित्तास्रदोषशोषकारित्वञ्च यथा भावप्रकाशे ।“पक्वो रसो गुरुः स्निग्धः सुतीक्ष्णः कफवातनुत् ।गुल्मानाहप्रशमनः किञ्चित् पित्तहरः स्मृतः”
*
इक्षुरसविकारगुणाः यथा भावप्रकाशे ।“इक्षोर्विकारास्तृड्दाहमूर्च्छापित्तास्रनाशनाः ।गुरवो मधुरा बल्याः स्निग्धाः वातहराः सराः ।वृष्या मोहहराः शीता वृंहणा विषहारिणः”
)