इक्षुः* (ikSuH*)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishइक्षुः [ikṣuḥ], [इष्यते$सौ माधुर्यात्, इष्-क्सु 3.157]
Sugarcane
परि त्वा परितत्नुनेक्षुणागामविद्विषे 1.34.5.
of another tree कोफिला.
Wish, desire. -कन्दा A pumpion gourd, Cucurbita Pepo. (Mar. कोहाळें).-काण्डः, -ण्डम् of two different species of sugarcane (काश and मुञ्जतृण). -कान्तः A class of the six storeyed buildings (Mānasāra 24.55). -कुट्टकः a gatherer of sugar-cane. -गन्धः Saccharum Spontaneum (Mar. लघु- गोखरू). -गन्धिका Convolvulus paniculatus (भूमिकूष्माण्ड).-ज produced from sugar-cane. -तुल्या अनिक्षुः.-दण्डः, -यष्टिः the stem or cane of Saccharum Officinale. -दर्भा a kind of grass. -दा of a river.
नेत्रम् a kind of sugar-cane.
the eye of sugarcane. (Mar. पेरावरील डोळा). -पत्रः a kind of grain (Mar. जोंधळे). -पाकः molasses. -प्रः of a tree (शरवृक्ष). -बालिका a kind of grass (काश).
भक्षिका a meal of sugar and molasses.
A machine for crushing sugarcane. -भक्षिती a woman who eats a sugar-cane. -मती, -मालिनी, मालवी of a river.-मूलम् the root of sugar-cane
a kind of sugar-cane.-मेहः diabetes or diabetes mellitus (cf. मधुमेह).-मेहिन् diabetic. -यन्त्रम् a sugar-mill. -योनिः [इक्षोरिव योनिः यस्य] Saccharum Officinarum (पुण्ड्रकइक्षु).
रसः the juice of sugar-cane.
molasses, unrefined sugar.
a kind of काश grass
-रसोदः One of the seas. ˚क्वाथः raw or unrefined sugar, molasses. -वणम् a sugar-cane wood. -वल्लरी, -वल्ली the common yellow cane. -वारि , -समुद्रः the sea of syrup, one of the seven seas. -वालिका (also इक्ष्वालिका) [इक्षुरिव वलति वल्- ण्वुल्]
of a tree (Mar. तालिमखाना.).
the काश grass.
वाटिका, वाटी a kind of sugar-cane (पुण्ड्रक).
a garden of sugar-canes.
विकारः sugar, molasses.
any sweetmeat. -शाकटम्, -शाकिनम् a field fit for planting the sugar-cane. -सारः molasses, raw or unrefined sugar.
Apte 1890
Englishइक्षुः [इष्यतेऽसौ माधुर्यात्, इष्-क्सु Uṇ. 3. 157] 1 Sugar-cane.
2 N. of another tree कोफिला.
3 Wish, desire.
Comp.
कांडः,
डं N. of two different species of sugar-cane (काश and मुंजतृण).
कुट्टकः a gatherer of sugar-cane.
गंधः Saccharum Spontaneum.
ज a. produced from sugar-cane.
दंडः,
यष्टिः f. the stem or cane of Saccharum Officinale.
दर्भा a kind of grass.
दा N. of a river.
नेत्रं {1} a kind of sugar-cane. {2} the eye of sugar-cane.
पत्रः a kind of grain.
पाकः molasses.
प्रः N. of a tree (शरवृक्ष).
बालिका a kind of grass (काश).
भक्षिका a meal of sugar and molasses.
भक्षिती a woman who eats a sugar-cane.
मती,
मालिनी,
मालवी N. of a river.
मूलं the root of sugar-cane
a kind of sugar-cane.
मेहः diabetes or diabetes mellitus (cf. मधुमेह).
मेहिन् a. diabetic.
यंत्रं a sugar-mill.
योनिः [इक्षोरिव योनिः यस्य] Saccharum Officinarum (पुंड्रकैक्षु).
रसः {1} the juice of sugar-cane. {2} molasses, unrefined sugar. {3} a kind of काश grass
°क्वाथः raw or unrefined sugar, molasses.
वणं a sugar-cane wood.
वल्लरी,
वल्ली the common yellow cane.
वारि n.,
समुद्रः the sea of syrup, one of the seven seas.
वालिका [इक्षुरिव वलति वल्-ण्वुल्] {1} N. of a tree. (Mar. तालिमखाना.) {2} the काश grass.
वाटिका,
वाटी {1} a kind of sugar-cane (पुंड्रक). {2} a garden of sugar-canes.
विकारः {1} sugar, molasses. {2} any sweetmeat.
शाकटं,
शाकिनं a field fit for planting the sugar-cane.
सारः molasses, raw or unrefined sugar.
Hindi
Hindiगन्ना
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiइक्षुः
- "इष्यतेऽसौ माधुर्यात्, इष्-क्सु"
"गन्ना, ईख"
इक्षुः
- इष्+ क्सु
एक प्रकार का बांस
E Bharati Sampat
Sanskrit(पुं) इष्यते । इषु(इच्छायाम्)+क्सुः। उ०३.१५७। फलविशेषः यस्य रसात् गुडशर्करादयः उत्पाद्यन्ते । १.रसालः। ‘रसालं सिल्हके वोले रसालेश्चेक्षुवृक्षयोः’ मेदिनी०। ‘इक्षुकर्कटको वंशः कान्तारो वेणुनिस्वनः इक्षुर्न्यपौण्डकस्तु रसालः सुकुमारकः’ धन्वन्तरीनिघण्टुः। ‘इक्षुछालानिषादिन्यस्तस्य गोप्तुर्गुणोदयम्’ रघुः ४.२०। २.इच्छा ।
Wordnet
Sanskrit इक्षुः, रसालः, कर्कोटकः, वंशः, कान्तारः, सुकुमारकः, अधिपत्रः, मधुतृणः, वृष्यः, गुडतृणः, मृत्युपुष्पः, महारसः, ओसिपत्रः, कोशकारः, इक्षवः, पयोधरः
तृणविशेषः यस्य काण्डात् गुडशर्करा निर्मीयते।
"कृषकः कृषौ इक्षोः रोपणं करोति।"
इक्षुः
एकः राजा ।
"इक्षोः वर्णनम् वायुपुराणे वर्तते"
वैजयन्तीकोषः
SanskritWord: इक्षुः
Root: इक्षु
Gender: पुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Sugar-cane
Sacharum officinarum
Tamil Karumbu
Shloka(s):
3|3|225|2 ► इक्षुभेदास्तु कान्तारवंशपुण्ड्रादयो नरि॥ (भूमिकाण्डः/वनाध्यायः)
3|3|226|1 ► खड्गपत्रोऽप्यथानिक्षुर्वायसालीक्षुपालिका । (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
➠ 3|3|225|2 ⇢ इक्षुः (इक्षु) (पुं) ⇒ Sugar-cane
Sacharum officinarum
Tamil Karumbu ⇒
➠ 3|3|225|2 ⇢ वृष्यः (वृष्य) (पुं) ⇒ Sugar-cane
Sacharum officinarum
Tamil Karumbu ⇒
➠ 3|3|225|2 ⇢ मधुतृणः (मधुतृण) (पुं) ⇒ Sugar-cane
Sacharum officinarum
Tamil Karumbu ⇒
➠ 3|3|225|2 ⇢ मृत्युपुष्पः (मृत्युपुष्प) (पुं) ⇒ Sugar-cane
Sacharum officinarum
Tamil Karumbu ⇒
➠ 3|3|225|2 ⇢ महारसः (महारस) (पुं) ⇒ Sugar-cane
Sacharum officinarum
Tamil Karumbu ⇒
➠ 3|3|226|1 ⇢ खड्गपत्त्रः (खड्गपत्त्र) (पुं) ⇒ Sugar-cane
Sacharum officinarum
Tamil Karumbu ⇒
Related word(s):
Tamil
Tamilஇக்ஷு: : கரும்பு.
अमरकोशः
SanskritWord: इक्षुः
Root: इक्षु
Gender: पुं
Number: all
Meaning(s):
⇒ eyelash
⇒ sugarcane
⇒ sugar-cane
⇒ sugar cane
⇒ stem of the sugar-cane
Shloka(s):
2|4|163|2 ► रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः॥ (वनौषधिवर्गः)
Synonym(s):
➠ 2|4|163|2 ⇢ रसालः (रसाल) (पुं) ⇒ wheat, sugar-cane, mango tree, kind or mouse, kind of grass, bread-fruit tree
➠ 2|4|163|2 ⇢ इक्षुः (इक्षु) (पुं) ⇒ eyelash, sugarcane, sugar-cane, sugar cane, stem of the sugar-cane
Related word(s):
परा_अपरासंबन्धः ➡ इक्षुभेदः
जातिः ➡ तृणम्
अवयव_अवयवीसंबन्धः ➡ इक्षुमूलम्
शब्दकल्पद्रुमः
Sanskritइक्षुः, (इष्यतेऽभिलष्यतेऽसौ इति । इष् + क्सु ।)स्वनामख्याततृणं । आक् इति भाषा । तत्पर्य्यायः ।रसालः २ । इत्यमरः ॥
कर्कोटकः ३ वंशः ४कान्तारः ५ सुकुमारकः ६ अधिपत्रः ७ मधुतृणः ८वृष्यः ९ गुडतृणः १० । इति राजनिर्घण्टः ॥
मृत्युपुष्पः ११ महारसः १२ असिपत्रः १३ को-शकारः १४ इक्षवः १५ । इति शन्दरत्नावली ॥
पयोधरः १६ । इति जटाधरः ॥
* ॥
तस्य भेदाः ।वंशकः १ कान्तारः २ भीरुः ३ पौण्ड्रः ४ । इतिरत्नमाला ॥
सामान्येक्षुगुणाः । रक्तपित्तनाशित्वं ।बलशुक्रकफकारित्वं । पाके मधुरत्वं । स्निग्धत्वं ।गुरुत्वं । शीतलत्वं । मूत्रशुद्धिकारित्वञ्च । तस्यमूले अतिमधुरत्वं । मध्ये मधरत्वं । ग्रन्थित्वज-ग्रभागेष लवणरसत्वञ्च । इति राजवल्लभः ॥
मूलादूर्द्ध्व मधुरत्वं । मध्ये अतिमधुरत्वं । अग्रक्रमाल्लवणत्वं नीरसत्वञ्च ॥
अभुक्ते इक्षुभक्षणगुणः ।पित्तदातृत्वं । भुक्ते वातप्रकोपणत्वं । भुक्तिमध्येगुरुतरत्वश्च ॥
इति राजनिर्घण्टः ॥
दन्तनिष्पी-डितेक्षुरसगुणाः । हिमत्वं । शुक्रकारित्वं । तृप्तिजनकत्वम् । जीवनहितकारित्वम् । वायुरक्तपित्तनाशित्वं । स्वादुत्वं । स्निग्धत्वं । प्रीतिदातृत्वं । रक्त-वर्द्धकत्वं । मुखप्रह्लादकारित्वं । धातुवर्द्धकत्वञ्च ।इति राजवल्लभः ॥
अपि च । रक्तदोषभ्रमशमन-कारित्वं । अल्पश्लेष्मदातृत्वं । हृद्यत्वं । रुचिजनकत्वं ।मूत्रशुद्धिकारित्वं । देहस्य कान्तिदातृत्वं । बल-कारित्वं । पीयूषोपमत्वं । त्रिदोषशमनत्वञ्च ।इति राजनिर्घण्टः ॥
यन्त्रनिष्पीडितरसगुणाः ।रक्तशुक्रकारित्वं । शीतलत्वं । सारकत्वं । रुचि-करत्वं । दाहजनकत्वञ्च ॥
इति राजवल्लभः ॥
अ-पि च । दन्तनिष्पीडितरसगुणवद्गुणत्वं । किञ्चित्पित्तवायुनाशित्वं । अकोमलत्वं । अस्वादुत्वं ।क्षीरविष्टम्भदाहकारित्वञ्च । पर्य्युषिततद्रसगुणाः ।वान्तिहरत्वं । वातजनकत्वं । जाड्यप्रतिश्यायरोग-दातृत्वं । कफवायुकारित्वञ्च । इति राजनिर्घण्टः ॥
तत्पक्वरसगुणाः । गुरुत्वं । सुतीक्ष्णत्वं । कफवात-नाशित्वञ्च । इति राजवल्लभः ॥
स्निग्धत्वं । अति-शयगुरुत्वं । अतिपाके विदाहत्वं । पित्तास्नदोष-कारित्वञ्च । इति राजनिर्घण्टः ॥
अस्य विकाराः ॥
“लसीकाफाणितगुडखण्डमत्स्यण्डिकासिताः ।निर्म्मला लघवो ज्ञेयाः शीतवीर्य्या यथोत्तरम्” ॥
इति राजवल्लभः । अथेक्षुवर्गः । तत्रेक्षोर्नामानिगुणाश्च ।“इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूरिरसोऽपि च ।गुडमूलोऽसिपत्रश्च तथा मधुतृणः स्मृतः ॥
इक्षवो रक्तपित्तघ्ना बल्या वृष्याः कफप्रदाः ।स्वादुपाकरसाः स्निग्धा गुरवो मूत्रला हिमाः” ॥
* ॥
अथेक्षुभेदाः ।“पौण्ड्रको भीरुकश्चापि वंशकः शतपोरकः ।कान्तारस्तापसेक्षुश्च काण्डेक्षुः सूचिपत्रकः ॥
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् ।इत्येता जातयस्तेषां कथयामि गुणानपि” ॥
* ॥
अथ पौण्ड्रकभीरुकयोर्गुणाः ।“वातपित्तप्रशमनो मधुरो रसपाकयोः ।सुशीतो वृंहणो बल्यः पौण्ड्रको भीरुकस्तथा” ॥
* ॥
अथ कोशकारगुणाः ।“कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः” ॥
* ॥
अथ कान्तारेक्षुगुणाः ।“कान्तारेक्षुर्गुरुर्वृष्यः श्लेष्मलो वृंहणः सरः” ॥
* ॥
अथ दीर्घपोरवंशकयोर्गुणः ।“दीर्घपोरः सुकठिनः सक्षारो वंशकः स्मृतः” ॥
* ॥
अथ शतपोरकगुणाः ।“शतपर्ब्बा भवेत् किञ्चित् कोशकारगुणान्वितः ।विशेषात् किञ्चिदुष्णश्च सक्षारः पवनापहः” ॥
* ॥
अथ मनोगुप्तागुणाः ।“मनोगुप्ता वातहरी तृष्णामयविनाशिनी ।सुशीता मधुरातीव रक्तपित्तविनाशिनी” ॥
* ॥
अथ तापसेक्षुगुणाः ।“तापसेक्षुर्भवेत् मृद्वी मधुरा श्लेष्मकोपना ।तर्पणा रुचिकृच्चापि वृष्या च बलकारिणी” ॥
* ॥
अथ बालयुववृद्धेक्षुगुणाः ।“बाल इक्षुः कफं कुर्य्यान्मेदोमेहकरश्च सः ।युवा तु वातहृत् स्वादुरीषत्तीक्ष्णश्च पित्तनुत् ॥
रक्तपित्तहरो वृद्धः क्षतहृत् बलवीर्य्यकृत्” ॥
* ॥
अथाङ्गभेदेन भेदः ।“मूले तु मधुरोऽत्यर्थं मध्येऽपि मधुरः स्मृतः ।अग्र ग्रन्थिषु च ज्ञेयं इक्षुः पटुरसो जनैः” ॥
* ॥
अथ दन्तपीडितेक्षुरसगुणाः ॥
“दन्तनिष्पीडितस्येक्षोः रसः पित्तास्रनाशनः ।शर्करासमवीर्य्यः स्यादविदाही कफप्रदः” ॥
* ॥
अथ यन्त्रपीडितस्येक्षुरसस्यं गुणाः ।“मूलाग्रजन्तु ग्रन्थ्यादिपीडनान्मलसंकरात् ।किञ्चित् कालं विधृत्याच विकृतिं याति यान्त्रिकः ॥
तस्माद्विदाही विष्टम्भी गुरुः स्याद्यान्त्रिको रसः” ॥
अथ पर्य्युषितस्येक्षुरसस्य गुणाः ।“रसः पर्य्युषितो नेष्टो ह्यम्लो वातापहो गुरुः ।कफपित्तकरः शोषी भेदनश्चातिमूत्रलः” ॥
* ॥
अथ पक्वस्येक्षुरसस्य गुणाः ।“पक्वो रसो गुरुः स्निग्धः सुतीक्ष्णः कफवातनुत् ॥
गुल्मानाहप्रशमनः किञ्चित्पित्तहरः स्मृतः” ॥
* ॥
अथेक्षुरसस्य विकाराणां गुणाः ।“इक्षोर्विकारास्तृड्दाहमूर्च्छापित्तास्ननाशनाः ।गुरवो मधुरा बल्याः स्निग्धा वातहराः सराः ॥
वृष्या मोहहराः शीता वृंहणा विषहारिणः” ॥
इति भावप्रकाशः ॥
(अथ श्वेतेक्षुगुणाः ।“रसायनोत्तमो बल्यो रोगवारणमुत्तमः ।स्निग्धश्च तर्पणो वृष्यो वृंहणश्च सजीवनः ॥
स्वादुगुणाभिबद्धत्वाद्वातपित्तप्रशान्तिकृत् ।वृष्योऽप्यन्तर्विदाही स्यात् सितेक्षुः कफकृन्मतः” ॥
अथ कृष्णेक्षुगणाः ।“तद्वत् सुकृष्णो भवनं गुणानांवृष्यो भवेत्तर्पणवृंहणश्च ।सञ्जीवनं स्यान्मधुरो रसेनशोषापहर्त्ता व्रणशोककारी” ॥
* ॥
अथ यन्त्रोद्भवरसगुणाः ।“यन्त्रेण पीडितरसः कथितो गुरुश्चवृष्यः कफञ्च कुरुतेऽथ सुशीतलश्च ।पाके विदाहिबलकृच्च सुशोभनश्चसंसेवितो रुधिरपित्तरुजं निहन्ति” ॥
* ॥
अथ दन्तपीडितरसगुणाः ।“दन्तेन पीडितरसो रुचिकृद्गुरुश्चसन्तर्पणो बलकरः कफकृच्छ्रमघ्नः ।विष्टम्भकोऽपि रुधिरञ्च तथैव पित्तंशोषं निहन्ति मधुरः स हिमो सरश्च” ॥
* ॥
अथ पक्वरसगुणाः ॥
* ॥
“पक्वो गुरुतरः स्निग्धः सुतीक्ष्णः कफवातहा ।पित्तघ्नोऽपि विशेषेण गुल्मातिसारकासनुत्” ॥
* ॥
इति हारीतः । तथा च वाभटः शार्ङ्गधरश्च ।“इक्षोः रसो गुरुः स्निग्धो वृंहणः कफमूत्रकृत् ।वृष्यः शीतोऽस्रपितघ्नः स्वादुपाकरसः सरः ।सोऽग्रे सलवणो दन्तपीडितः शर्करासमः ॥
मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात् ।किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥
विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः ।शैत्यप्रसादमाधुर्य्यैर्वरस्तमनुवांशिकः ॥
शातपर्ब्बककान्तारनैपालाद्यास्ततः क्रमात् ।सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः” ॥
“वृष्यः शीतः स्थिरः स्निग्धो वृंहणो मधुरो रसः ।श्लेष्मणो भक्षितस्येक्षोर्यान्त्रिकस्तु विदह्यते ॥
शैत्यात् प्रसादान्माधुर्य्यात् पौण्ड्रकाद्वंशको वरः” ।इति चरकः ॥
तथा च सुश्रुते ॥
“इक्षवो मधुरा विपाका गुरवः शीताः स्निग्ध-बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफ-कराश्चेति ते चानेकविधाः । तद्यथा, --“पौण्ड्रको भ्रीरुकश्चैव वंशकः शतपोरकः ।कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् ।इत्येता जातयः स्थौल्याद्गुणान् वक्ष्याम्यतः परम् ॥
सुशीतो मधुरः स्निग्धो वृंहणः श्लेष्मणः सरः ।अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ॥
आभ्यां तुल्यगुणः किञ्चित्सक्षारोवंशको मतः ।वंशवच्छतपोरस्तु किञ्चिदुष्णः स वातहा ॥
कान्तारतापसाविक्षू वंशकानुगुणौ मतौ ।एवंगुणस्तु काष्ठेक्षु
स तु वातप्रकोपणः ॥
सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः ।वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः ।अतीवमधुरो मूले मध्ये मधुर एव तु ॥
अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ।अविदाही कफकरो वातपित्तनिवारणः ॥
वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ।गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्त्तितः ॥
पक्वो गुरुः सरः स्निग्धः सुतीक्ष्णः कफवातनुत्” ॥
)कोकिलाक्षवृक्षः । इति राजनिर्घण्टः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
