इक् (ik)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaइक् - स्मरणे (अदा० पर० सक० अनि०) अध्येति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಸ್ಮರಿಸು /ನೆನೆ
इक् - स्मरणे (अदा० पर० सक० अनि०) अध्येति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಅಧ್ಯಯನ ಮಾಡು
धातुपाठः (Krishnacharya)
Sanskrit इ
इक्
स्मरणे
अदादिः
सकर्मकः
अनिट्
परस्मैपदी
अध्येति
टिप्पनी: नित्यमधिपूर्वः
Abhyankara Grammar
Englishइक् (1) short wording (प्रत्याहार) for the vowels इ, उ, ऋ and लृ
cf. इको यणचि P.VI.1.77
एच इग्घ्रस्वादेशे P.I.1.48
इको गुणवृद्धी P.I.1.3 इग्यणः संप्रसारणम् P. I.1.45, इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च P.VI. 1.127, इको ह्रस्वोऽङ्यो गालवस्य P.VI.3. 61
(2) kṛt. affix इक्(इ) applied to the root form to cite a root e. g. वदि, जनि etc. cf. इक्श्तिपौ धातुनिर्देशे P. III.3.108 Vārt. 2
(3) kṛt. affix इक् applied to the roots कृञ् and others in the sense of verbal activity e.g. कृषिः, किरिः, गिरिः cf. इक् कृष्यादिभ्यः P.III.3.108 Vārt.8.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुप्रदीपः
Sanskritइक स्मरणे
- ककारोऽधीगर्थदयेशां कर्मणि (2/3/52) इति विशेषणार्थः । अध्येति । अधीतः । अधीयन्ति । केचित् तु इणो यण् (6/4/81) इति यणादेशमिच्छन्ति-अधियन्ति (14) । अधीयाय । अघ्यगात् ।। 28 ।।
वाचस्पत्यम्
Sanskritइक् स्मरणेऽधिपूर्व्वक एव कित् कित्करणमधीगर्थेत्यादौ विशेषा-र्थम् अदादि० अनिट् । अध्येति अध्यैषीत्अध्यगात् इत्यन्ये इण इवास्य तिङि रूपं न कृति ।अघीयन् । “ससीतयोराघवयोरधीयन्” भट्टिः । एतद्योगेकर्म्मणि संवन्धविवक्षायां षष्ठी । मातुरध्येति । प्रति-पदविहिततयाऽनया षष्ट्या न समासः मातुरध्ययनम् ।“कियत्स्विदिन्द्रो अध्येति कियन्मातुः कियत् पितुः”ऋ० ४, १७, १२ । “रामस्य दयमानोऽसावध्येति तवलक्ष्मणः” भट्टिः सम्बन्धाविवक्षायां तु द्वितीया । “अग्निस्वर्ग्यमध्येषि मृत्यो!” कठो० । “अयमारुणिः संप्रती-ममात्मानं वैश्वानरमध्येति” छा० उ० । “अधीहिभगवन् । ब्रह्मेति” छा० उ० ।
क्षीरतरङ्गिणी
Sanskritइक् स्मरणे
- ककारो ऽधीगर्थ (2352) इति विशेषणार्थः- मातुरध्येति इण्वदिकः (2445 वा0) अतिदेशाद् अध्यगात्, अधियन्ति, अधिगमयति, अधिजिगमिषति अधीत्य 35
धातुवृत्तिः
Sanskritइक् (अर्थः) स्मरणे
अयमपप्यधिपूर्वः मातुरध्येत मातरमध्येति, "अधीगर्थ'' इति कर्मणश्शेषत्वेन षष्ठी धातोः ककारो ऽत्रैवेगिति विशेषणार्थाः ( अधीतः, अधीयन्ति ) इत्यादिसर्वमिण्वत् "इण्वदिक'' इति वचनाद् "इणो यण्'' "इणो गा लुङि'' इत्यस्यापि भवति आत्रेयस्तु यणमुक्त्वा केचित्तु "इणो गा लुङि'' इत्यतिदेशकार्या( 1 ) ( 1 ) अधिकारकार्यार्थमिति बहुषु पुस्तकेषु पाठः र्थमेव, "इण्वदिक'' इत्यतिदेशमिच्छन्ति, तन्मते इयङि अधीयन्तीति पक्षान्तरमप्याह "इणो यण्'' इत्यत्र न्यासे च पक्षद्वयं दर्शितम् "णकारोच्चारंण इङिकोर्निवृत्त्यर्थम् ये तु "इण्वदिकः'' इति सामान्येनातिदेशमिच्छन्ति तेषामिङ एव निवृत्त्यर्थम् इकस्तु भवितव्यमेव यणा इति मैत्रेयस्तु इयङमेवोदाहृत्य, केचित्तु यणादेशमिच्छन्ति' इत्याह हरदत्तस्तु इयङादेशं न सहते "इण्वदिकः'' इत्युपादाय यदाह "यद्यस्यैवायं प्रकरणस्य शेषः स्यात्, "इण्कोर्गालुङि'' इति सूत्रन्यासः कर्तव्य इत्येवावक्ष्यत एतश्च खलु पृथगिण्वदिक इत्याह, ततो मन्यामहे सर्वशास्त्रस्य शेषोऽयम्' इति एवं च "ससीतयो राघवयोरधीयन्' इति भट्टिप्रयोगश्चिन्त्यः "णौ गमिरबोधने'' "सनि च'' इत्यबोधने विधीयमानो गम्यादेशोऽस्यापि भवति, यतस्यत्र बोधनशब्देनानभवरूपं ज्ञानं गृह्यते, न च स्मृरिनुभवः, अत एव वृत्तौ अधिगमयति, अधिजिगमिषति, इति गम्यादेश उदाहृतः 37
कृदन्तरूपमाला
Sanskrit1 {@“इक् स्मरणे”@} 2 ‘अयत्येतीयते गत्यां अधीतेऽध्येति चेङिकोः।’ 3 इति देवः।
नित्यमधिपूर्वकः।
अध्यायकः-यिका, 4 अधिगमकः-मिका, 5 अधिजिगमिषकः-षिका
अध्येता-त्री, अधिगमयिता-त्री, अधिजिगमिषिता-त्री
6 अधीयन्-न्ती, अधियन्, अधिगमयन्-न्ती, अधिजिगमिषन्-न्ती
अध्येष्यन्-न्ती-ती, अधिगमयिष्यन्-न्ती-ती, अधिजिगमिषिष्यन्-न्ती-ती
-- अधिगमयमानः, अधिगमयिष्यमाण
7 अधीत् 8 -अधीतौ-अधीतः
-- -- अधीतः-तम्, अधिगमितः, अधिजिगमिषितः-तवान्
अध्ययः, 9 मन्त्राध्यायः, अधिजिगमिषुः, अधिजिगमयिषुः
अध्येतव्यम्, अधिगमयितव्यम्, अधिजिगमिषितव्यम्
अध्ययनीयम्, अधिगमनीयम्, प्रत्यायनीयम्, अधिजिगमिषणीयम्
अध्येयम्, प्रत्याय्यम्, अधिगम्यम्, अधिजिगमिष्यम्
10 अधीत्यः, प्रत्याय्यम्, अधिगम्यम्, अधिजिगमिष्यम्
ईषदध्ययः, दुरध्ययः, स्वध्ययः
-- -- अधीयमानः, अधिगम्यमानः, प्रत्याय्यमानः, अधिजिगांस्यमानः 11
अध्यायः, अधिगमः, प्रत्यायः, अधिजिगमिषः
अध्येतुम्, अधिगमयितुम्, अधिजिगमिषितुम्
अधीतिः, अधिगमना, अधिजिगमिषा, अधिजिगमयिषा
अध्ययनम्, अधिगमनम्, अधिजिगमिषणम्
12 अधीत्य, 13 अधिगमय्य, अधिजिगमिष्य
अध्यायम् २, 14 अधिगमम् २, अधिगामम् २, अधिजिगमिषम् २
01 (६२)
02 (२-अदादिः-१०४७-सक। अनिट्-पर।)
03 (१४)
04 [[५। ‘णौ गमिरबोधने’ (२-४-४६) ‘इण्वदिकः’ (वा। २-४-४५) इत्यतिदेशात् गमादेशः। अमन्तत्वेन मित्त्वात् ‘मितां हस्वः’ (६-४-९२) इति उपधाह्रस्वः। अन्यत्र--बोधने प्रत्याययकः-यिका-प्रत्यायितम्--इत्यादि।]]
05 [[६। ‘सनि च’ (२-४-४७) इति गमादेशः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इतीडागमः। बोधने तु प्रतीषिषकः इत्यादि।]]
06 [[आ। ‘सूतोऽपि गङ्गासलिलैः पवित्वा सहाश्वमात्मानमनल्पमन्युः। ससीतयो राघव- योरधीयन् श्वसन् कदुष्णं पुरमाविवेश।।’ भ। का। ३-१८ ‘इण्वदिकः’ (वा। २-४-४५) इति अतिदेशेन ‘इणो यण्’ (६-४-८१) इत्यत्र यणा भाव्यम्। तदानीं ‘अधियन्’ इति रूपमिति केचित्।]]
07 [पृष्ठम्००६३+ २७]
08 [[१। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्येकादेशस्यासिद्धत्वात् तुक्।]]
09 [[२। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
10 [[आ। ‘इण्वदिकः (वा। २-४-४५)’ इत्यतिदेशात्-- ‘एतिस्तु’ (३-१-१०९) इति क्यपि ‘अधीत्य’ इति रूपम्। ‘इत्यः स्वधीतोपनिषद्भिरेषामधीत्यरूपः स वियम् क्रमेण।’ धा। का। २-४८। इति प्तयोगः। ‘… ‘एतिस्तु--’ (३-१-१०९) इति क्यब्विधौ नित्यमधिपूर्वत्वादस्यैतिग्रहणेन न ग्रहः। तथा च भाष्ये-- ‘अध्येयं व्याकरणं’ इति यदन्तो निर्दिश्यते’ इति माधवधातुवृत्तौ।]]
11 [[३। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
12 [[४। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्येकादेशशास्त्रासिद्ध्या तुक्।]]
13 [[५। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
14 [[६। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
