| YouTube Channel

आह्निकं (AhnikaM)

 
शब्दकल्पद्रुमः
Sanskrit
आह्निकं, त्रि, (अह्ना निर्वृत्तं अहन् + ठञ् ।)दिननिर्व्वर्त्त्यं दिनसाध्यं इति मेदिनी
दिन-सम्बन्धी
आह्निकं,
क्ली,
(अह्ना निर्वृत्तं अहन् + ठञ् ।)भोजनं प्रकरणसमूहः ग्रन्थभागः ।नित्यक्रिया इति मेदिनीकरहेमचन्द्रौ
अथ रघुनन्दनभट्टाचार्य्यकृताह्निकाचारतत्त्वोक्त-कर्म्माणि संक्षेपेण लिख्यन्ते
तत्र प्रथमयामार्द्धकृत्यम् ।“ब्राह्मेमुहूर्त्ते जागरित्वा ब्रह्मविष्णुशिवनवग्रहान्स्मृत्वा गुरुप्रणामं कृत्वा आत्मानं ब्रह्मत्वेन संभाष्यतद्विवमकर्त्तव्यधर्म्मकर्म्मार्थं चिन्तयेत्
ततः शयनादुत्याय स्मत्रिवासस्त्यक्त्व पृथिवींनमस्कृत्य दक्षिणचरणं भूमौ विन्यस्य कर्क्कोट-कनागदमयन्तीनलऋतुपर्णराजकार्त्तवीर्य्यार्ज्जुनान्स्मृत्वा नेत्रमुखे प्रक्षाल्य द्विराचामेत्
ततः नैरृत्यां दक्षिणस्यां वा दिशि मूत्रपुरीषात्-सर्गं जलमृत्तिकाशौचञ्च कृत्वा द्विराचम्य हरिंस्मृत्वा दिवा सूर्य्यं रात्रौ चन्द्रं तारां वा तदसम्भवेअग्निं पश्येत्
ततो दन्तधावनं दन्तकाष्ठाभावे निषिद्धदिनेच द्वादशगण्डूषजलैः पत्रैर्व्वा मुखं शोधयित्वाद्विराचामेत् ।ततः प्रातःस्नानं तिलकं सन्ध्यातर्पणञ्च कृत्वासूर्य्योदयपर्य्यन्तं गायत्रीं जपेत्
स्नानाशक्तौआर्द्रवस्त्रेण गात्रमार्ज्जनं मन्त्रस्नानञ्च कृत्वासन्ध्योपासनं कुर्य्यात्
तत आदर्शादिदर्शनं दधिदूर्व्वादिमङ्गलद्रव्यस्पर्श-नञ्च कुर्य्यात् इति
*
अथ द्वितीययामार्द्धकृत्यम्
वेदविद्याद्यभ्यासः समित्पुष्पाद्याहरणञ्च
*
अथ तृतीययामार्द्धकृत्यम् ।गुरुदेबधार्म्मिकोपासनं कुटुम्बभरणार्थमीश्वरो-पासनादि
*अथ चतुर्थयामार्द्धकृत्यम् ।मध्याह्नस्नानं तत्र परखातोदके चेत् तदा सप्तपञ्च त्रीन् वा मृत्पिण्डान् तीरे क्षिप्त्वा नाभि-मात्रोदके कुशहस्तः सशिरस्कमज्जनं कृत्वा द्विरा-चम्य सङ्कल्प्य यथाविधि त्रिर्निमज्जेत्
ततः स्नानवस्त्रपाणिव्यतिरेकेण गात्रमार्जनं तिलकंतर्पणञ्च कुर्य्यात्
ततः अष्टममुहूर्त्ते मध्याह्नसन्ध्यां समाप्य ब्रह्मयज्ञंविधाय देवपूजनं कृत्वा पादोदकं नैवेद्यञ्च यथा-काले उपयुञ्जीत
*
अथ पञ्चमयामार्द्धकृत्यम्
बलिवैश्वदेवकर्म्मणी काम्यबलिकर्म्म वामदेव्यगानंगानाशक्तौ तस्य त्रिः पाठः पार्ब्बणश्राद्धानन्तरंबलिवश्वदेवकर्म्मणी कर्त्तव्ये
बलिकर्म्मानन्तरमतिथिलाभार्थं मुहूर्त्तं गोदोहन-कालं वा अभोजनेन प्रतीक्षेत तल्लगे भिक्षा-दिकं दत्त्वा तदनुव्रजेत् तदानीमतिथ्यलाभे नि-त्यश्राद्धान्तरमतिथीन् भोजयेत् भोजनासामर्थ्येभिक्षां दद्यात् अतिथ्यलाभे ब्राह्मणाय दानंतदसम्भवे अग्नौ जले वा किञ्चिदन्नं क्षिपेत्
ततो नित्यश्राद्धं वामदेव्यगानं तदशक्तौ ऋक्-त्रय पठेत् नित्यश्राद्धकरणासामर्थ्ये वलितर्प-णाभ्यां पितृयज्ञसिद्धिः
ततो गोग्रासदानं गो-नमस्कारञ्च कुर्य्यात्
ततो यथाविधि भोजनं ।विष्णुपादोदकादिकं पूर्व्वमगृहीतञ्चेत् इदानींगृह्णीयात्
ततः स्थानान्तरं गत्वा मृद्भिर्घर्षणै-र्मुखहस्तौ शोधयित्वा तृणादिना दन्तलग्नरसद्रव्य-मपनीय जलगण्डूषैर्मुखाभ्यन्तरं संशोध्य पाणिपादौप्रक्षालयेत्
तत आसनस्थ एव भूमौ पादौ संस्थाप्य द्विरा-चम्य मुखं तुलसीपत्रादिना संशोध्य दक्षिणपादा-ङ्गुष्ठे दक्षिणहस्तेन मन्त्रेण जलं दद्यात्
ततो महीमार्जनाभावेऽशुचित्वादविलम्बमेव भो-जनपात्रमुद्धृत्य उच्छिष्टमपनीय तत् स्थानं गोमयो-दकाभ्यां सिञ्चेत्
ततः सुस्थ आसने उपविश्य इष्टदेवतानाम स्मृत्वाअन्नजीर्णतार्थं मन्त्रपाठपूर्व्वकवामहस्तेनोदरं परि-मृज्य पादशतव्रजनानन्तरं वामपार्श्वेन किञ्चित्कालं शयित्वा ताम्बूलादिमुखवासनद्रव्यं भोक्तव्यम्इति
*
अथ षष्ठसप्तमयामार्द्धकृत्यम् ।इतिहासपुराणादिश्रवणम्
अथाष्टमयामार्द्धकृत्यम्
लौकिकचिन्ताकरणम् सायंसन्ध्योपासनम् ।इष्टदेवतास्मरणादिकञ्च कुर्य्यात्
*
अथ रात्रिकृत्यम् ।सन्ध्यानन्तरमिष्टदेवतामन्त्रजपत्रिकालपाठ्यस्तवनारायणस्मरणानि कुर्य्यात्
ततोऽन्नादिपाके जाते पूर्व्ववद्वलिवैश्वदेवकर्म्मणीकृत्वा अतिथिलाभेऽन्नादिकं तस्मै दत्त्वा अवश्य-भरणीयैः सह सार्द्धप्रहराभ्यन्तरेऽनतितृप्तं भु-ञ्जीत अन्नभोजनाभावे ताम्बूलादिकं भोक्तव्यम्
प्रथमयामाभ्यन्तरे विद्याभ्यासं कुर्य्यात्
ततःशयनं शुचिदेशे खट्वोपरि शय्यां कृत्वा शिरो-देशे पूर्णकुम्भं निधाय रात्रिवासः परिधाय प्रक्षा-लितपाणिपादो द्विराचान्तः पूर्व्वशिरा दक्षिण-शिरा वा पद्मनाभं स्मृत्वा यामद्वयाभ्यन्तरेशयीत
*
अथ दारोपगमनम् ।ऋतौ निषिद्धेतरदिने स्त्रीसम्भोगं कृत्वा तांदक्षिणपार्श्वेन स्वापयेत्
ततः अविलम्बेन मूत्रपुरीषोर्त्स्गवत् मृज्जलाभ्यांलिङ्गं हस्तौ पादौ प्रक्षाल्य द्विराचम्य स्नायात्
ऋतुभिन्नगमने तु लिङ्गप्रक्षालनमाचमनद्वयमात्रञ्चकुर्य्यात् स्त्रियास्तु ऋतावनृतावपि लेपादिक्षा-लनानन्तरमाचमनमात्रं स्नानं
क्षालनादेःपूर्व्वं मूत्रपुरीषोत्सर्गौ कुर्य्यात् सम्भोगानन्तरंतस्यां रात्रौ एकशय्यायां शयीयातां अनृता-वपि गर्भवत्त्वेऽपि कामुकीमुपेयात्
ऋतावभिगम्य प्रातर्नैमित्तिकमङ्गशून्यस्नानं कु-र्य्यात्
ऋतुगमनं पुत्त्रोत्पत्तिपर्य्यन्तमावश्यकम्
इत्या-ह्निकाचारतत्त्वोक्तकर्म्म समाप्तं
*