| YouTube Channel

आहारशुद्धि (AhArazuddhi)

 
Monier Williams Cologne
English
आ-हार—शुद्धि
f.
purity in food,
ChUp.
वाचस्पत्यम्
Sanskrit
आहारशुद्धि स्त्री आहारस्य भक्ष्यादेः शुद्धिः भक्ष्यादि-द्रव्यस्य शुद्धौ सा शुद्धिः स्मृत्युक्तदिशाऽवसेया सा चअभक्ष्यमर्ज्जनेन भक्ष्यभोजनएप भवति अभक्ष्याणि चअभक्ष्यशब्दे २७४ पृष्ठे उक्तानि आहारदोषनिवारणार्थाशुद्धिः दुष्टाहारजन्यदोषनिवारणार्थायां शुद्धौ प्रायश्चित्ते ।“आहारशुद्धि वक्ष्यामि तन्मे निगदतः शृणु अक्षारलवणंभैक्ष्यं पिबेद्ब्राह्मीं सुर्व्वसम्” इत्यादिना अत्रिस०दर्शिता शब्दादिविषयज्ञानशुद्धौ “आहारशुद्धौसत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः” छा० उ० “आह्रि-यते इत्याहारः शब्दादिविषयज्ञानम् तद्धि भोक्तुर्भोगाया-ह्रियते तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धिराहारशुद्धिः रागद्वेषमोहदोषैरसंसृष्टविषयविज्ञान-मित्यनर्थान्तरं तस्याहारस्य शुद्धौ सत्यां तद्वतोऽन्तःकरणसत्त्वस्य शुद्धिर्नैर्मल्यं भवति” भाष्यम् आहारशब्दस्यभक्ष्यार्थतामपहाय तथा व्याख्यानं तु “रागद्वेषवि-मुक्तैस्तु विषयानिन्द्रियैश्चरन्” इति गीतोक्तिमनुसृ-त्यैवेति आनन्दगिरिः