| YouTube Channel

आहारः (AhAraH)

 
Hindi
Hindi
खाना
Apte Hindi
Hindi
आहारः
पुं*
- आ+हृ+घञ्
"लाना, ले आना, या निकट लाना"
आहारः
पुं*
- आ+हृ+घञ्
भोजन करना
आहारः
पुं*
- आ+हृ+घञ्
भोजन
E Bharati Sampat
Sanskrit
(पुं) आ+हृञ्(हरणे)+घञ् ‘भावे’ ३.३.१८। भोजनम्
Wordnet
Sanskrit
Synonyms:
भोजनम्, जग्धः, जेमनम्, लेपः, आहारः, निघसः, न्यादः, जमनम्, विघसः, अभ्यवहारः, प्रत्यवसानम्, अशनम्, स्वदनम्, निगरः
noun
अदनस्य क्रिया।
"भोजनात् अनन्तरं सः विश्रामार्थे गतः।"
Synonyms:
भक्षणम्, न्यागः, खदनम्, खादनम्, अशनम्, निघसः, वल्भनम्, अभ्यवहारः, दग्धिः, जक्षणम्, लेहः, प्रत्यवसानम्, घसिः, आहारः, प्सानम्, अवष्वाणम्, विष्वाणम्, भोजनम्, जेमनम्, अदनम्
noun
द्रवेतरद्रव्यगलाधःकरणम्।
"शणशाकम् वृथामांसम् करणे मथितं दधि तर्ज्जन्या दन्तधावश्च सद्यो गोमांसभक्षणम्"[श क]"
Synonyms:
भोजनम्, आहारः
noun
दिने द्विवारं भुज्यमानः पूर्णाहारः।
"तेन भोजनं स्वीकृतम्।"
शब्दकल्पद्रुमः
Sanskrit
आहारः,
पुं,
(आङ् + हृ + घञ् ।) द्रव्यगलाधः-करणं तत्पर्य्यायः जग्धिः भोजनं जेमनं ४लेपः निघषः न्यादः इत्यमरः
जमनं ८विघषः इति तट्टीका
प्रत्यवसानं १० भक्षणं११ अशनं १२
इति रत्नमाला
अभ्यवहारः१३ स्वदनं १४ निगरः १५ इति राजनिर्घण्टः
अस्य गुणाः सद्यस्तृप्तिजनकत्वं बलकारित्वं ।देहधारकत्वञ्च इति राजवल्लभः
(“तमुवाच भगवानात्रेयः हिताहारोपयोग एक-एव पुरुषस्याभिवृद्धिकरो भवति अहिताहारो-पयोगः पुनर्व्वाधिनिमित्तमिति” ।“तमुवाच भगवानात्रेयः यदाहारजातमग्नि-वेश ! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति, विषमांश्च समीकरोतीत्येतद्धितं विद्धि त्वहितंविपरीतं इत्येतद्धिताहितलक्षणमनपवादम्भवतिएवं वादिनञ्च भगवन्तमात्रेयमग्निवेश उवाच ।भगवन्नन्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्व्वभिषजोविज्ञास्यन्ति तमुवाच भगवानात्रेयः येषांविदितमाहारतत्त्वमग्निवेश ! गुणतो द्रव्यतःकर्म्मतः सर्व्वावयवतो मात्रादयो भावास्तत्र तदेव-मुपदिष्टं विज्ञातुमुत्सहेरन् यथा तु खल्वेतदुप-दिष्टं भूयिष्ठकल्पाः सर्व्वभिषजो विज्ञास्यन्तितथैतदुपदेक्ष्यामः मात्रादीन् भावानुदाहरन्त-स्तेषां हि बहुविधविकल्पा भवन्ति आहारविधि-विशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्या-स्यामः तद्यथा, आहारत्वमाहारस्यैकविधमर्था-भेदात् पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात् ।द्विविधः प्रभावो हिताहितोदर्कविशेषात् चतु-र्विधोपयोगः पानाशनभक्ष्यलेह्योपयोगात् षडा-स्वादो रसभेदतः षड्विधत्वात्” इति चरकः
“यदाहारगुणैः पानं विपरीतं तदिष्यते ।अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च”
इति चरकः
“प्राणिनां पुनर्मूलमाहारो बलवर्णौजसाञ्च षट्सुरसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः”
“स तत्रौदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसङ्घातःसुखकरश्च भवति” ।“आहारः प्रीणनः सद्यो बलकृद्देहधारकः ।आयुस्तेजःसमुत्साहस्मृत्योजोऽग्निविवर्द्धनः”
इति सुश्रुतः
) त्रिविधः सात्विकः राज-सिकः तामसिकः सात्विकाहारो यथा, --८ श्लोकः ।“आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्द्धनाः ।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विक-प्रिया” राजसिकारो यथा, श्लोकः ।“कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः”
तामसिकाहारो यथा, १० श्लोकः ।“यातयामं गतरसं पूतिपर्य्युषितञ्च यत् ।उच्छिष्टमपि चामेध्यं मोजनं तामसप्रियम्”
इति श्रीभगवद्गीता १७ अध्यायः
आहरणं ।इति मेदिनी
(“स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया” ।इति महाभारतम् आदिपर्ब्बणि ७६ सम्भव-पर्ब्बणि ७६ ३५ ।)