आहार (AhAra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Capeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishआहार [āhāra], (रा or री )
Bringing near, procuring, getting
भाराहारः कार्यवशात् Sk.
Going to fetch
अयं गच्छति भर्ता मे फलाहारो महावनम् * 3.296.23.
रः Taking, fetching, or bringing near
निर्गतस्तु पुराद्वीरो भक्ष्याहारप्रचोदितः 7.68.2.
Employing, using.
Taking food.
Food
(आहरन्ति रसमस्मादित्याहारः Sk.)
˚वृत्तिमकरोत् 1 took his dinner
फलाहार, ˚वृत्तिः means of livelihood
भैक्षाहारः living on alms
यवाहार, निराहार -अर्थिन् begging or seeking for food. -तेजस् Quicksilver. -निःसरणमार्गः the posterior part, passage of voiding excrements.
पाकः cooking.
digestion (of food). -विरहः want of food, privation, starvation. -संभवः the juice of the body, chyle, lymph.
Apte 1890
Englishआहार a. (रा or री f.) 1 Bringing near, procuring, getting
भाराहारः कार्यवशात् Sk.
2 Going to fetch
अयं गच्छति भर्ता मे फलाहारो महावनं Sāv. 4 23.
रः 1 Taking, fetching, or bringing near.
2 Employing, using.
3 Taking food.
4 Food
(आहरंति रसमस्मादित्याहारः Sk.)
°वृत्तिमकरोत् Pt. 1 took his dinner
फलाहार, °वृत्तिः means of livelihood
भैक्षाहारः living on alms
यवाहार, निराहार &c.
Comp.
अर्थिन् a. begging or seeking for food.
निःसरणमार्गः the posterior part, passage of voiding excrements.
पाकः {1} cooking. {2} digestion (of food).
विरहः want of food, privation, starvation.
संभवः the juice of the body, chyle, lymph.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishआ-हार, अस्, आ, or ई, अम्, bringing near, procuring
going to fetch
(अस्), m. taking, fetching, bringing
near
employing
taking food, food (e. g. आहारं
कृ, to take food, eat).
—आहार-विरह, अस्, m.
want of food.
—आहार-सम्भव, अस्, m. the juice
of the body, chyle, lymph, serum.
—आहारार्थिन्
(°र-अर्°), ई, इनी, इ, begging or seeking for food.
Macdonell
EnglishBenfey
Englishआहार आहार, i. e. आ-हृ + अ,
Food, Pañc. 55, 19.
--
अन्-,
I.
non-eating, Hit. 24, 12.
II. one
who abstains from eating, Rām. 3, 75, 30.
एकाहार, i. e. एक-आहार, eating
only once a day, MBh. 13, 5159.
निस्-,
without food, Rām. 1, 48, 31. पक्-
ष-, taking food only twice a
month, MBh. 3, 15409.
फल-, ,
री, in order to fetch fruits, Sāv. 4,
23.
शाक-, living upon potherbs,
Bhartṛ. 2, 79.
सु-, easily to be
procured, Rām. 2, 31, 26.
स्वेच्छा-,
i. e.
स्व-इच्छा-, omnivorous.
Hindi
Hindiआहार
Apte Hindi
Hindiआहारः
- आ+हृ+घञ्
"लाना, ले आना, या निकट लाना"
आहारः
- आ+हृ+घञ्
भोजन करना
आहारः
- आ+हृ+घञ्
भोजन
Shabdartha Kaustubha
Kannadaआहार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಭೋಜನ /ಊಟ
निष्पत्तिः - > आ + हृञ् (हरणे) - "घञ्" (३-३-१८)
Bopp
LatinEdgerton Buddhist Hybrid
Englishāhāra, m.
(1) some member of a shipʼs crew, mentioned with nāvika and others Av 〔i.200.5〕
〔ii.61.9〕
evidently = āhāraka, q.v.
perhaps tower, cf. Pali Jāt. 〔iv.159.16〕 (nāvaṃ) āharitvā gāmato, apparently having towed away from the village
cf. also āharaṇa
(2) in Mvy 〔798〕 = Tib. rgyud, usually = tantra
perhaps a mystic technique in general, or possibly bringing in in a more specific sense, see s.v. yamaka
(3) district, province: Māy 〔28〕
see Hultzsch, Aśoka, 〔163 n. 11〕
(4) āhāra, nt. = Skt. āhāra, m. food: Divy 〔13.7〕 °raṃ, n. sg.
same MSV 〔iii.22.10〕. On āhāra-kṛtya see s.v. kṛtya (2).
Indian Epigraphical Glossary
EnglishLanman
EnglishSanskrit Tibetan
Tibetankha zas
१) अन्न २) अशन ३) आहार ४) उपभजन ५) जेमन ६) भक्त ७) भोजन ८) सुभोजन
rgyud
१) आहार २) उपचार ३) एकसंतान ४) गति ५) चरित ६) तन्तु ७) तन्त्र ८) धार ९) निबन्ध १०) प्रवेश ११) युग १२) वर्तनी १३) विचार १४) संतति १५) संतान १६) सन्धि १७) समुदाचार १८) स्रोतस् १९)
अभिधानचिन्तामणिः
Sanskritन्यादः स्वदनं खादनमशनं निघसो वल्भनमभ्यवहारः ।
जग्धिर्जक्षणभक्षणलेहाः प्रत्यवसानं घसिराहारः ॥ ४२३ ॥
प्सानावष्वाणविष्वाणा भोजनं जेमनादने ।
न्याद (पुं), स्वदन (क्ली), खादन (क्ली), अशन (क्ली), निघस (क्ली), वल्भन (क्ली), अभ्यवहार (पुं), जग्धि (स्त्री), जक्षण (क्ली), भक्षण (क्ली), लेह (पुं), प्रत्यवसान (क्ली), घसि (पुं), आहार (पुं), प्सान (क्ली), अवष्वाण (पुं), विष्वाण (पुं), भोजन (क्ली), जेमन (क्ली), अदन (क्ली)
अभिधानरत्नमाला
Sanskritअशन
अशन, आहार
अशनं स्यादाहारः पूपापूपौ च पूपलिका ॥ ३१९ ॥
verse 2.1.1.319
page 0038
वल्भन
वल्भन, अभ्यवहार, प्रत्यवसान, जेमन, जग्धि, खादन, अशन, भक्षण, आहार, भोजन, स्वदन
वल्भनमभ्यवहारः प्रत्यवसानं च जेमनं जग्धिः ।
खादनमशनं भक्षणमाहारो भोजनं स्वदनम् ॥ ३२५ ॥
verse 2.1.1.325
page 0039
शब्दकल्पद्रुमः
Sanskritआहारः, (आङ् + हृ + घञ् ।) द्रव्यगलाधः-करणं । तत्पर्य्यायः । जग्धिः २ भोजनं ३ जेमनं ४लेपः ५ निघषः ६ न्यादः ७ । इत्यमरः ॥
जमनं ८विघषः ९ इति तट्टीका ॥
प्रत्यवसानं १० भक्षणं११ अशनं १२ ॥
इति रत्नमाला ॥
अभ्यवहारः१३ स्वदनं १४ निगरः १५ । इति राजनिर्घण्टः ॥
अस्य गुणाः । सद्यस्तृप्तिजनकत्वं । बलकारित्वं ।देहधारकत्वञ्च । इति राजवल्लभः ॥
(“तमुवाच भगवानात्रेयः । हिताहारोपयोग एक-एव पुरुषस्याभिवृद्धिकरो भवति । अहिताहारो-पयोगः पुनर्व्वाधिनिमित्तमिति” ।“तमुवाच भगवानात्रेयः । यदाहारजातमग्नि-वेश ! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति, विषमांश्च समीकरोतीत्येतद्धितं विद्धि त्वहितंविपरीतं इत्येतद्धिताहितलक्षणमनपवादम्भवतिएवं वादिनञ्च भगवन्तमात्रेयमग्निवेश उवाच ।भगवन्नन्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्व्वभिषजोविज्ञास्यन्ति । तमुवाच भगवानात्रेयः । येषांविदितमाहारतत्त्वमग्निवेश ! गुणतो द्रव्यतःकर्म्मतः सर्व्वावयवतो मात्रादयो भावास्तत्र तदेव-मुपदिष्टं विज्ञातुमुत्सहेरन् यथा तु खल्वेतदुप-दिष्टं भूयिष्ठकल्पाः सर्व्वभिषजो विज्ञास्यन्तितथैतदुपदेक्ष्यामः । मात्रादीन् भावानुदाहरन्त-स्तेषां हि बहुविधविकल्पा भवन्ति । आहारविधि-विशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्या-स्यामः । तद्यथा, आहारत्वमाहारस्यैकविधमर्था-भेदात् । स पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात् ।द्विविधः प्रभावो हिताहितोदर्कविशेषात् । चतु-र्विधोपयोगः पानाशनभक्ष्यलेह्योपयोगात् । षडा-स्वादो रसभेदतः षड्विधत्वात्” । इति चरकः ॥
“यदाहारगुणैः पानं विपरीतं तदिष्यते ।अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च” ॥
इति च चरकः ॥
“प्राणिनां पुनर्मूलमाहारो बलवर्णौजसाञ्च षट्सुरसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः” ॥
“स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसङ्घातःसुखकरश्च भवति” ।“आहारः प्रीणनः सद्यो बलकृद्देहधारकः ।आयुस्तेजःसमुत्साहस्मृत्योजोऽग्निविवर्द्धनः” ॥
इति सुश्रुतः ॥
) स त्रिविधः । सात्विकः १ राज-सिकः २ तामसिकः ३ । सात्विकाहारो यथा, --८ श्लोकः ।“आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्द्धनाः ।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विक-प्रिया” । राजसिकारो यथा, ९ श्लोकः ।“कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः” ॥
तामसिकाहारो यथा, १० श्लोकः ।“यातयामं गतरसं पूतिपर्य्युषितञ्च यत् ।उच्छिष्टमपि चामेध्यं मोजनं तामसप्रियम्” ॥
इति श्रीभगवद्गीता १७ अध्यायः ॥
आहरणं ।इति मेदिनी ॥
(“स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया” ।इति महाभारतम् । आदिपर्ब्बणि ७६ । सम्भव-पर्ब्बणि ७६ । ३५ ।)
वाचस्पत्यम्
Sanskritआहार आ + हृ--घञ् । १ आहरणे । उपसर्गयोगात्२ भोजने “निराहारौ यताहारौ तन्मनस्कौ समाहितौ”देवीमा० आहारविधिश्च सुश्रुते उक्तः यथा “अथाहा-रविधिं वत्स! विस्तरेणाखिलं शृणु । आप्तान्वित-मसंकीर्ण्णं शुचि कार्य्यं महानसम् । तत्राप्तैर्गुणसम्पन्न-मन्नं भक्ष्यं सुसंस्कृतम् । शुचौ देशे सुसंगुप्तं समुपस्थापये-द्भिषक् ॥
विषध्नैरगदैः स्पृष्टं प्रीक्षितं व्यजनोदकैः ।सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् । वक्ष्याम्यतःपरंकृत्स्नमाहारस्योपकल्पनम् । घृतं कार्ष्ण्यायसे देयं पेयादेया तु राजते । फलानि सर्वभक्ष्यांश्च प्रदद्याद्वैदलेषुच । परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् । प्रद्रवाणिरसांश्चैव राजतेषूपहारयेत् । कट्वराणि खडांश्चैव सर्व्वान्शैलेषु दापयेत् । दद्यात्ताम्रमये पात्रे सुशीतं सुशृतंपयः । पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत् ।काचस्फटिकपात्रेषु शीतलेषु शुभेषु च । दद्याद्वैदूर्य्य पात्रेषुरावखाण्डकशर्कराः । पुरस्ताद्विमले पात्रे सुविस्तीर्ण्णेमनोरमे । सूदः सूपौदनं दद्यात् प्रलेहांश्च सुसंस्कृतान् ।फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च । तानिदक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् । प्रद्रवाणि रसांश्चैवपानीयं पानकं पयः । खडान् यूषांञ्च पेयांश्च सव्ये पार्श्वेप्रदापयेत् । सर्व्वान् गुडविकारांश्च रावखाण्डकशर्कराः ।पुरस्तात् स्थापयेत्प्राज्ञो द्वयोरपि च मध्यतः । एवंविज्ञाय मतिमान् भोजनस्योपकल्पनाम् । भोक्तारं विजनेरम्ये निःसम्बाधे शुभे शुचौ । सुगन्धिपुष्परचिते समेदेशेऽथ भोजयेत् । विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टैरसा-दिभिः । मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् ।पूर्व्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ । पश्चाच्छेषान्रसान् वैद्यो भोजनेष्ववचारयेत् । आदौ फलानि भुञ्जीतदाडिमादीनि बुद्धिमान् । ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम् । धनम्पूर्व्वं समश्नीयात् केचिदाहु-र्व्विपर्य्ययम् । आदावन्तेच मध्ये च भोजनस्य तु शस्यते ।निरत्ययं दोषहरं फलेष्वामलकं नृणाम् । मृणालविस-शालूककन्देक्षुप्रभृतीनि च । पूर्व्वं योज्यानि भिषजा नतुभुक्ते कथञ्चन । सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः ।काले सात्म्यं लघु स्निग्धं क्षिप्रमुष्णं द्रवोत्तरम् । बुभुक्षितो-ऽन्नमश्नीयान्मात्रावद्विदितागमः । काले भुक्तं प्रीणयतिसात्म्यमन्नं न बाधते । लघु शीघ्रं व्रजेत्पाकं स्निग्धोढ्यंबलवह्निदम् । क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् ।सुखं जीर्य्यति मात्रावद्धातुसाम्यं करोति च । अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः । तेषु तत्प्रत्यनीकाद्यंभुञ्जीत प्रातरेव तु । येषु चापि मवेयुश्च दिवसा भृश-मायताः । तेषु तत्कालविहितमपराह्णे प्रशस्यते । रजन्योदिवसाश्चैव येषु चापि समाः स्मृताः । कृत्वा सममहो-रात्रं तेषु भुञ्जीत भोजनम् । नाप्राप्तातीतकालं वाहीनाधिकमथापि वा । अप्राप्तकाले भुञ्जानः शरीरे ह्यल-घौ नरः । तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ।अतीतकाले भुञ्जानो वायुनोपहतेऽनले । कृच्छ्राद्विपच्यतेभुक्तं द्वितीयञ्च न काङ्क्षति । हीनमात्रमसन्तीषं करोतिच बलक्षयम् । आलस्यगौरवाटोपसादांश्च कुरुतेऽ-धिकम् । तस्मात्सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम् ।यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् । विभज्य कालदोषा-दीन् कालयोरुभयोरपि । अचोक्षं (अपरित्रम्) दुष्ट-मुच्छिष्टं पाषाणतृणलोष्टवत् । द्विष्टं व्युषितमस्वादुपूति चान्नं विवर्जयेत् । चिरसिद्धं स्थिरं शीतमन्न-मुष्णीकृतं पुनः । अशान्तमुपदग्धञ्च तथा स्वादु नलक्ष्यते । यद्यत् स्वादुतरं तत्र विदध्यादुत्तरोत्तरम् ।प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्म्महुः । विशुद्धे रसनेतस्मै रोचतेऽन्नमपूर्बवत् । स्वादुना तस्य रसनं प्रथमेनापितर्पितम् । न तथा स्वादयेदन्यत्तस्मात्प्रक्षाल्यमन्तरा ।सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम् । स्वादुसञ्जनयत्यन्नम स्वादु च विपर्य्ययम् । भुक्त्वा च यत्प्रार्थयतेभूयस्तत् स्वादु भोजनम् । अशितश्चोदकं युक्त्या भुञ्जान-श्चान्तरा पिवेत् । दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः ।कुर्य्यादनाहृतं तद्धि मुखस्यानिष्टगन्धताम् । जीर्णेऽन्नेवर्द्धते वायुर्विदग्धे पित्तमेव तु । भुक्तमात्रे कफश्चापितस्माद्भुक्ते हरेत्कफम् । धूमेनापोह्य हृद्यैर्वा कषायक-टुतिक्तकैः । पूगकक्कोलकर्पूरलवङ्गसुमनःफलैः । कटुति-क्तकषायैर्वा मुखवैशद्यकारकैः । ताम्बूलपत्रसहितैः सुग-न्धैर्वा विचक्षणः । भुक्त्वा राजवदासीत यावदन्नक्लमो गतः ।ततः पदशतं गत्वा वामपार्श्वे तु संविशेत् । शब्दरूप-रसस्पशांन् गन्धांश्च मनसः प्रियान् । भुक्तवानुपसे-वेत तेनान्नं साधु तिष्ठति । शब्दरूपरसस्पर्शगन्धाश्चापिजुगुप्सिताः । अशुच्यन्नं तथाभुक्तमतिहास्यञ्च वामयेत् ।शयनं चासनं वापि नेच्छेद्वापि द्रवोत्तरम् । नाग्न्यातपौन प्लवनं न यानं नापि वाहनम् । नचैकरससेवायां प्र-सज्येत कदाचन । शाकावरान्नभूयिष्ठमम्लञ्च न समाचरेत् ।एकैकशः समस्तान् वा नाप्यश्नोयाद्रसान् सदा । प्राग्-भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् । पूर्व्वभुक्तेविदग्धेऽन्ने भुञ्जानो हन्ति पावकम् । मात्रागुरुं परिह-रेदाहारं द्रव्यतश्च यः । पिष्टान्नं नैव भुञ्जीत मात्रया वाबुभक्षितः । द्विगुणञ्च पिबेत्तोयं सुखं सम्यक् प्रजीर्य्यति ।पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् । गुरूणाम-र्द्धसौहित्यं लघूनां तृप्तिरिष्यते । द्रवोत्तरो द्रवश्चापि नमात्रागुरुरिष्यते । द्रवाढ्यमपि शुष्कन्तु सम्यगेवोपप-च्यते । विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ।पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति । स्रोतस्यन्नवहेपित्तं पक्तो वा यस्य तिष्ठति । विदाहि भुक्तमन्यद्वा तस्या-प्यन्नं विदह्यते । शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमा-वहेत् । आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः ।अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः । अत्यम्बुपाना-द्विषमाशनाद्वा सन्धारणत्स्वप्नविपर्य्ययाच्च । कालेऽपि सात्म्यंलघु चापि भुक्तमन्नं न पाकं भजते नरस्य । ईर्ष्याभय-क्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन । प्रद्वेषयुक्तेनच सेव्यमानमन्नं न सम्यक् परिणाममेति । माधुर्य्यमन्नंगतमामसंज्ञं विदग्धसंज्ञं गतमभ्लभावम् । किञ्चिद्विपक्वंभृशतोदशूलं बिष्टब्धमाबद्धविरुद्धवातम् । उद्गारशुद्धावपिभक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य । रसावशेषेण तुसप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् । मूर्च्छाप्रलापो वमथुःप्रसेकः सदनं भ्रमः । उपद्रवा भवन्त्येते मरणं चाप्यजी-र्णतः । तत्रामे लङ्घनं कार्य्यं विद्गधे वमनं हितम् ।विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च । वामयेदाशु तंतस्मादुष्णेन लवणाम्बुना । कार्य्यं चानशनं तावद्यावन्नप्रकृतिं भजेत् । लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् ।यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा । हिताहि-तोपसंयुक्तमन्नं समशनं स्मृतम् । बहु स्तोकमकाले वाविज्ञेयं विषमाशनम् । अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते । त्रयमेतन्निहन्त्याशु बहून् व्याधीन् करोति च ।अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति ।तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ।विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कण्ठगलञ्च यस्य ।द्राक्षाभयां माक्षिकसम्प्रयुक्तां लीढ्वाभयां वा स सुखंलभेत ।भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्न-काले । प्रातःस शुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितांहितार्थी । स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथ-मावृणोति । भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दबुद्धिंविषवन्निहन्ति” । “पञ्चभूतात्मके देहे आहारः पाञ्च-भौतिकः । विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्द्ध-येत् । अविदग्धः कफं, पित्तं विदग्धः पबनं पुनः ।सम्यग्विपक्वो निःसार आहारः परिवृंहयेत् । विण्मूत्र-माहारमलः सारः प्रागीरितो रसः । स तु व्यानेन वि-क्षिप्तः सर्व्वान्धातून् प्रतर्पयेत् । कफः पित्तं मलः शेषःस्वेदः स्यान्नखरोम च । नेत्रविट्त्वक्षु च स्नेहो धातूनांक्रमशोमलाः । दिवाविबुद्धे हृदये जाग्रतः पुण्डरीकवत्अन्नमक्लिन्नधातुत्वादजीर्णे पिहितं निशि । हृदि सन्मी-लिते रात्रौ प्रसुप्तस्य विशेषतः । क्लिन्नविस्रधातुत्वादजी-र्णे न हित दिवा” भाव० प्र० भोजनकालदेशपात्रादि-भेदंदर्शनपूर्वमेतद्व्याख्या प्रसङ्गात् कृता यथा । “आहारंपचति शिखी दोषानाहारः पवति । दोषक्षये धातून्प-चति पचति च धातुक्षये प्राणान् । आहारः प्राणिनां सद्योब-लकृद्देहधारणः । स्मृत्यायुःशक्तिवर्ण्णौजःसत्वशोभाविबर्द्धनः ।यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् । विचार्य देशकाला-दीन्कालयोरुभयोरपि” । उभयोःकालयोः प्रातः सायं च ।तथा च “सायंप्रातर्मनुष्याणामशनं श्रुतिबोधितम्” नान्तराभोजनं कुर्य्यादग्निहोत्रसमोविधिः” । प्रातः प्रथमयामादु-परि द्वितीययामादर्व्वाक् तथा च “याममध्ये न भोक्तव्यंयामयुग्मं न लङ्घयेत् । याममध्ये रसोत्पत्तिर्यामयुग्माद्व-लक्षयः” अन्यच्च “क्षुत्संभवति पक्वेषु रसदोषमलेषु च । कालेवा यदि वाऽकाले सोऽन्नकालौदाहृतः” । रसादौ पाक-ज्ञानमाह “उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः ।लघुताक्षुत्पिपासा च यदा कालः स भोजने” । स्थानमाह“आहारन्तु नरः कुर्य्यान्निर्हारसपि सर्व्वदा । निर्जनेलक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया । निर्हारो मलमू-त्रोत्सर्गः । अन्यच्च “आहारनिर्हारविहारयोगाः सदैवसद्भिर्विजने विधेयाः” इति । भाजनमाह “दोषहृद्धृष्टिदंपथ्यं हैमं भोजनभाजनम् । रौप्यं भवति चाक्षुष्यं पित्त-हृत्कफवातकृत् । कांस्थं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसा-दनम् । पैत्तलं वातकृद्रूक्षमुष्णं क्रमिकफप्रणुत् । आयसेकान्तपात्रे च भोजनं सिद्धिकारकम् । शोथपाण्डुहरं बल्यंकामलापहमुत्तमे । शैलजे मृण्मये पात्रे भोजन श्रीनिवारणम् । दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च । पात्रंपत्रमयं रुच्यं दीपनं विषपापनुत् । जलपात्रं तु प्रागुक्तंतदभावे मृदोहितम् । पवित्रं शीतलं पात्रं घटितंस्फटिकेन यत् । काचेन रचितं तद्वत्तथा वैदूर्य्यसंभवम् ।(प्रागुक्तं सुश्रुते सौवर्ण्णाद्युक्तं तच्चाम्बुशब्दे ३३०पृष्ठे” दर्शितम्) । “भोजनाग्रे सदा पथ्यं लवणार्द्रकभ-क्षणम् । अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम्”लवणस्य पित्तजनकंत्वादार्द्रकस्य कटुत्वेन पित्तलत्वात् बुभु-क्षितस्य वृद्धपित्तस्य कघं प्रथमं लवणार्द्रकभक्ष-णमुचितम् उच्यते “लवणं सैन्धवं ज्ञेयं चन्दनं रक्तच-न्दनमिति” वचनाल्लवणमत्र सैन्धवं तत्त्रिदोषघ्नम् यतआह गुणग्नन्थे “सैन्धवं लवणं स्वादु दीपनं पाचनं लघु ।स्निगधं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत्” आर्द्रकंतु पित्तविरोधि मधुरपाकित्वात् यत आह तत्रैव “आ-र्द्रिका भेदिनी गुर्व्वी तीक्ष्णोष्णा दीपनी च सा । कटुकामधुरा पाके रूक्षा वातकफापहा” । अन्यदपि लवणार्द्रकंच नात्रपित्तविरोधि संयोगस्वभावात् संयोगस्वरूप-ञ्चैतादृशं भोजनस्य पूर्व्वं लवणार्द्रकभक्षणबोधकवचन-मेव प्रमाणयति । भोजनादौ दृष्टिदोषविनाशाय ब्रह्मा-दीन् स्मरेत् । तद्यथा “अन्नं ब्रह्मा रसोविष्णुर्भोक्ता देवोमहेश्वरः । इति संचिन्त्य भुञ्जानं दृष्टिदोषो न बाधते ।अञ्जनागर्भसंभूतं कुमारं ब्रह्मचारिणम् । दृष्टिदोषविना-शाय हनूमन्तं स्मराम्यहम्” “अश्रीयात्तन्मना भूत्वा पूर्व्वं तुमधुरं रसम् । मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान् ।फलान्यादौ समश्नीयद्दाडिमादीनि बुद्धिमान् । विनामोचाफलं तद्वद्वर्जनीया च कर्क्कटी । मृणालविसशालूकक-न्देक्षुप्रभृतोन्यपि पूर्व्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन” । मृणालं पद्मनालं, विसं विसषण्डक, शालूककन्दंप्रसिद्धम् । “गुरु पिष्टमयं द्रव्यं तण्डुलान् पृथुकानपि । नजातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः । घृतपूर्व्वं समश्नीयात्कठिनं प्रकृतौमृदु । अन्ते पुनर्द्रवाशी तु बलारोग्येन मुञ्चति” अयमर्थः प्राक् घृतपूर्व्वं कठिनं समश्नीयात्यथाकाश्यादिवासिनः प्रथमं सव्यञ्जनां घृतपूर्वां रोटिकांभुञ्जते ततो मृदुलसूपादिकमोदनं भुञ्जते अन्ते पुनर्द्रवाशिनःभोजनान्ते दधिदुग्धतक्रादि भुञ्जते । “यद्यत् स्वादूत्तरं तद्धिविदध्यादुत्तरोत्तरम् । भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम्” । स्वाद्वन्यस्य गुणमाह । “सौमनस्यं बलं पुष्टिमुत्साहंरसनासुखम् । स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम्” ।अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्ज्जरम् । अतिक्लिन्नंग्लानिकरं युक्तियुक्त हि भोजनम् । अतिद्रुततयाहारीगुणान् दोषान्न विन्दति । भोज्यं शीतमहृद्यं च स्याद्विलम्बि-तमश्नतः । त्रिविधं गुरु तन्निवारयन्नाह “मन्दानलो नरो द्रव्यंमात्रागुरु विवर्जयेत् स्वभावतश्च गुरु यत्तथा संस्कारतोगुरु ।मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः । संस्कार-गुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् । आहारः षद्विधःश्चूष्यं पेयं लेह्यं तथैव च । भोज्यं भक्ष्यं तथा चर्व्यंगुरु विद्याद्यथोत्तरम् । चूष्यं इक्षुदाडिमादि, पेयंपानकशर्करोदकादि । लेह्यं रसालाक्वथितादि (कडी)इति लोके पसिद्धम् । भोज्यं भक्तसूपादि । भक्ष्यं लड्डुक-मण्डकादि (खरं विशदमव्यवहार्य्यंभक्ष्यमितिपात० भा०) ।चर्व्यं चिपिटचणकादि । स्वभावगुरुसंस्कारगुरुणोः स्वभाव-लघुनश्च भक्ष्यस्य भोजनपरिमाणमाह “गुरूणामर्द्धसौहित्यंलघूनां तृप्तिरिष्यते” अयमर्थः मांसपिष्टान्नादिभिरर्द्धं सौहित्यंकर्त्तव्य मुद्गादिभिः स्वाभाविक्या मात्रया तृप्तिः कर्त्त-व्येति । “द्रवोद्रवोत्तर श्चापि न मात्रागुरुरिष्यते” । द्रवः पेया-दिर्द्रवोत्तरः तक्राद्यधिक ओदनादिः मात्रातोधिकोऽपिमात्रागुरुर्न्न मन्तव्यः पेयस्य सर्वतोलघुत्वात् उक्तञ्च सुश्रुते“पेयलेह्याद्यभक्ष्यणां गुरु विद्याद्यथोत्तरमिति” पेयंक्षीरादि लेह्यं रसालादि आद्यम् ओद्रनसूपादि भक्ष्यंमोदकादि “द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपच्यते । विशुष्-कमन्नमभ्यस्तं न पाकं साधु गच्छति” । अयमर्थः शुष्कमपिस्रोतोरोधकरमपि द्रवाढ्यं सम्यक् पाकं याति । केवलस्यशुष्स्यान्नस्य दोषमाह विशुष्कमन्नमित्यादि । अपक्वंतत् किं भवतीत्यपेक्षायामाह “पिण्डीकृतमसंक्लिन्नंविदाहमुपगच्छति” पिण्डीकृतम् अष्ठीलावद्भूतम् असं-क्लिन्नमसम्पगार्द्रं विदाहमुपगच्छति विदग्धं भवती-त्थर्थः । शुष्कादीनां वैगुण्यमाह “शुष्कं विरुद्धंविष्टम्भि वह्निव्यापदमावहेत्” शुष्कञ्चिपिटादि विरुद्धंक्षीरमत्स्यादि, विष्टम्भि चणकमसूरादि, वह्निमान्द्यङ्कु-र्य्यात् । “न भक्त्वा न रदैश्छित्वा, न निशायां न वा बहून् ।न जलान्तरितानद्भिःसक्तूनद्यान्न केवलान् । पुनर्द्दानंपृथक्पानं सामिषम्पयसा निशि । दन्तच्छेदनमुष्णं च सप्तसक्तुषु वर्जयेत्” विषमाशनस्य लक्षणमाह । “बहु स्तोकम-काले वा ज्ञेयं तद्विषमाशनम्” बहुलाल्पस्य भक्षितस्य दोष-माह “आलस्यगौरवाटोपशब्दांश्च कुरुतेऽधिकम् । हीन-मात्रमसन्तोषं करोति च बलक्षयम्” अधिकमन्नम् ।अकाले भुक्तेर्दोषमाह “अप्राप्तकाले भुञ्जानो ह्यस-मर्थतनुर्न्नरः तांस्तान् व्याधीनवाप्नोति मरणञ्चाधि-गच्छति” अप्राप्तकाले कालादतिप्राक् भुञ्जानः असमर्थ-शरीरो भवति तथा सति तांस्तान् व्याधीन् शिरोव्यथा-विसूचिकाऽलसकविलम्बिकादीन् आप्नोति तेषामाधिक्येमरणमपि प्राप्नोतीत्यर्थः “कालेऽतीतेऽश्नतोजन्तोर्वायु-नोपहतेऽनले । कृच्छ्राद्विपच्यते भोक्तुर्न स्याद्भोक्तुं पुनःस्पृहा” । कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत् । वायोःसञ्चारणार्थाय चतुर्थमवशेषयेत्” । “रसेनान्नस्य रसना प्रथमे-नोपतर्पिता । न तथा स्वादुमाप्नोति यथा सेव्याम्बुना-न्तरा” “अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एवदोषः । तस्मान्नरो वह्निविवर्द्धनाय मुहुर्मुहुर्वारि पिबेदभूरि ।भक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत् । मध्येऽग्निदोषनं श्रेष्ठमन्ते स्थौल्यकफप्रदम् । अन्यच्च “समस्थूलकशाभुक्तमध्यान्तप्रथमाम्बुपाः” इति वाग्भटः” भुक्तं भोजनम्“तृषितस्तु न चाश्नीयात् क्षुधितो न पिबेज्जलम् । तृषितस्तुभवेद्गुल्मी क्षुधितस्तु जलोदरी । ननु शिष्टा भोजनान्ते दुग्धपिबन्ति तत्कथमुचितं यतस्त्रिधा विभक्तस्य भोजनकालस्यप्रथमो भागोवातस्य, द्वितीयः पित्तस्य, तृतीयः कफस्य, यत आह “अश्रीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम् ।मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान्” अस्यायमभि-प्रायः भोजने पूर्व्वं भुक्तो मधुरो रसो बुभुणितस्य वात-पित्तयोः शमको भवति । भोजनमध्ये भुक्ते अम्ललवणेपित्तोपशमनेन वह्निवृद्धिं कुरुतः । भोजनान्त्यसमये भुक्ताःकटुतिक्तकषाया रसाः कफं शमयन्तीति । अतोभोजना-वसानसमयस्य कफकालत्वात् तत्र कथं श्लेष्मजनकं दुग्धंपातुनुचितं भवति । यतौक्तम् । “दुग्धं स्वादुरसं स्निग्धमो-जस्यं धातुवर्द्धनम् । वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतल-मिति” उच्यते “विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मा-नवः । तद्विदाहोप्रशान्त्यर्थं भोजनान्ते पयः पिवेत्” अतएवब्रह्मपुराणे “कुर्य्यात् क्षीरान्तमाहारं न दध्यन्तं कदाचनेतिलवणाम्लकदुष्टानि विदाहीन्यपि यानि तु । तद्दोषं हर्तु-माहारं मधुरेण समापयेदिति” भोजनावसानसमये दुग्-धादिमधुरभोजने वातकफोपशमनेन लवणाम्लकटुभोजनज-नितां पित्तस्य वृद्धिं नाशयति पित्तवृद्धिनाशनेन च पित्त-वृद्धिरुपक्षीणा भवतीति कफवृद्धिरग्निमान्द्यादीनुत्पादयितुंन शक्नोति” ।आह्निकतत्त्वेस्मार्त्ताहारविधिरुक्तो यथा विष्णुपु० । “सकेवलमघं भुङ्क्तेयोभुङ्क्तेत्वतिथिंविना । अघं स केवलं भुङ्क्तेयःपचत्यात्मकारणात् । इन्द्रियप्रीतिजननं वृथापाक विवर्जयेत्”तथा “सुवासिनीर्दुःखिनश्च गर्भिणीवृद्धबालकान् भोजयेत् ।सस्कृतान्नेन प्रथमं, चरमं गृही । अभुक्तवत्सु चैतेषु भुञ्जन्भुङ्क्तेऽतिदुष्कृतिम् । मृतश्च नरकं गत्वा श्लेष्मभुग्जायतेनरः । अस्नात्वाशी मलं मुङ्क्षे अजप्त्वा पूयशोणितम् ।अहुत्वा च कृमिं भुङ्क्ते अदत्त्वा विषभोजनम् असंस्कृ-तान्नभुङ्मूत्रं बालादिप्रथमं शकृत् । भुञ्जतश्च यथा पुंसःपापबन्धोन जायते । इह चारोग्यमतुलं बलवृद्धिस्तथानृप”! । तथा “प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतोगृही ।अन्नं प्रशस्तं पथ्यञ्च प्रोक्षितं प्रोक्षणोदकैः । न कुत्सिता-हृतं नैव जुगुप्सावदसंस्कृतम्” । विष्णुपु० “मन्त्राभिमन्त्रितशस्तं न च पर्युषितं नृप! । अन्यत्र फलमांसेभ्यः शुष्क-शाकादिकात्तथा । तद्वद्वादरिकेभ्यश्च गुडपक्वेभ्यएव च ।भुञ्जीतोद्धृतसाराणि न कदाचिन्नरेश्वर! । नाशेषं पुरुषो-ऽशीयादन्यत्र जगतीपते! । मध्वन्नदधिसर्पिर्भ्यः सक्तुभ्यश्चविवेकवान् । अश्नीयात्तन्मना भूत्वा पूर्बन्तु मधुरं रसम् ।लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः । प्राग्द्रवंपुरुषोऽश्नन् वै मध्ये च कठिनाशनः । पुनरन्ते द्रवाशीतु वलारोग्ये न मुञ्चति । अनिन्द्यं भक्षयेदित्यं वाग्यतो-ऽन्नमकुत्सयन् । पञ्च ग्रासान् महामौनं । प्राणाद्याप्यय-नाय तत्” । मन्त्राभिमन्त्रितमिति मन्त्रानादेशे गायत्रीतिवचनात् गायत्र्यभिमन्त्रितम् । गारुडे “शाकं सूपञ्च भूयिष्ठंअत्यम्लञ्च विवर्जयेत् । नचैकरससेवायां प्रसज्येत कदाचन” ।छन्दोग० प० । “मुनिभिर्द्विरशनमुक्तं विप्राणां मर्त्य-वासिनां नित्यम् । अहनि च तथा तमस्विन्यां सार्द्धप्रह-रयामान्तः” । अहनि अचिरो दितास्तमितसूर्य्येतरदिन-मात्रे । तत्राप्यायुर्वेदीयेविशेषः । “याममध्ये न भोक्तव्यंत्रियामन्तु न लङ्घयेत्” । याममध्ये रसस्तिष्ठेत्त्रियामेतु रसक्षयः” । तत्रापि पञ्चमयामार्द्धोमुख्यकालो दक्षवचनात्(तच्चाह्निकशब्दे ९०६ पृष्ठे वक्ष्यते त्रियामन्त्वित्रद्वियाम-मित्येवायुर्वेदोये पाठः । दक्षवचनानुरोधात् त्रियाममितिपाटकल्पनं बोध्यम्) । महामौनं हुङ्कारादिरहितम् ।तथाचात्रिः “मौनव्रत महाकष्टंहुङ्कारेणैव नश्यति । तथासतिमहान् दोषस्तस्मात्तु नियतश्चरेत् । एष क्रमः पौराणिकत्वात्सर्व्वसाधारणः । विष्णुः । “न तृतीयमथाश्नीयादापद्यपिकदाचन” । गोतासु । “आयुःसत्त्वबलारोग्यसुखप्रीतिवि-वर्द्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्वि-कप्रियाः । कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहाराराजसस्येष्टा दुःखशोकामयप्रदाः । यातयामं गतरसं पूतिप-र्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्”मनुः । “आयुष्यं प्राङ्मुखोभुङ्क्ते यशस्यं दक्षिणामुखः ।श्रियः प्रत्यङ्मुखोभुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः” । निय-मे त्वेवम् अनियमे तु नोदङ्मुखः । हारीतः “नो-दङ्मुखोऽश्नीयात्” । निष्कामस्य तु प्राङ्मुखेनैव यथाहदेवलः । “प्राङ्मुखोऽन्नानि भुञ्जीत शुचिःपीठमधिष्ठितः ।विशुद्धवदनःप्रीतोभुञ्जीत न विदिङ्मुखः” । जीवन्मातृकस्यदक्षिणामुखत्वनिषेधमाह आप० “दक्षिणामु-खोन भुञ्जोत एवंविधभोजनमनायुष्यं मातुरुपदिशति” ।चित्तु “कुहूस्नानं नयाश्राद्धं तिलैस्तर्पणमेव च ।न जीवत्पितृकः कुर्य्याद्दक्षिणामुखभोजनम्” इत्याचाररत्नाकरधृताज्जीवत्पितृकस्यापि निषेध इत्याहुः । व्यासः“पञ्चार्द्रोभोजनं कुर्य्यात् प्राङ्मुखोमौनमास्थितः । हस्तौपादौ तथैवास्यमेषु पञ्चार्द्रता मता” । व्यासः “अप्ये-कपङ्क्त्यां नाश्नीयात् संवृतः स्वजनैरपि । कोहि जानातिकिं कस्य प्रच्छन्नं पातकं महत् । भस्मस्तम्बजलद्वार मार्गैःपङ्क्तिञ्च भेदयेत्” । जलादिना पङ्क्तिभेदाकरणे तु शङ्खः ।“एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने । यद्योकोऽपित्यजेत् पात्रं शेषमन्नं विवर्जयेत् । मोहात् भुञ्जीत यःपङ्क्त्यामुच्छिष्टसहभोजनम् । प्राजापत्यं चरेद्विप्रः क्षत्रःसान्तपनन्तथा”! । एतत्समानार्थमभिधायाह गोभिलः ।“भुञ्जानेषु तु विप्रेषु यस्तु पात्रं परित्यजेत् । भोजने विघ्नक-र्त्तासौ ब्रह्महापि तथोच्यते” । आप० “दिवा पुनर्न भुञ्जी-तान्यत्र फलमूलेभ्यः” । मनुः “नातिप्रगे नातिसायं न सायंप्रातराशितः” अतिप्रगेऽचिरोदितसूर्य्ये अतिसायं सूर्य्या-स्तमितसमये एवं प्रातराशितः दिनभोजनेनातितृप्तः नसायं न रात्रौ भुञ्जीतेत्यर्थः । आप० “यस्तु भो-जनशालायां भीक्तुकामौपस्पृशेत् । आसनस्थोनचान्यत्रस विप्रः पङ्क्तिदूषकः” बौधा० “उपलिप्ते समे स्थानेशुचौ लघ्वासनान्विते । चतुरस्रं त्रिकोणञ्चवर्त्तुलञ्चार्द्धचन्द्रकम् । कर्त्तव्यमानुपूर्व्येण ब्राह्माणा-दिषु मण्डलम्” । “अकृत्वा मण्डलं ये तु भुञ्जतेऽ-धमयोनयः । तेषान्तु यक्षरक्षांसि हरन्त्यन्नानितद्बलात्” । आप० । “भिन्नकांस्ये तु योविप्रोयदिभुङ्क्ते तु कामतः । उपवासेन चैकेन पञ्चगव्येन शुद्ध्यति”तथा शूद्रादिभोजनेनापरिष्कृतपात्रेऽपि वृद्धमनुः “ताम्रपात्रे न भुञ्जीत भिन्नकांस्ये मलाविले । पलाशपद्मपत्रेषुगृही भुक्त्वैन्द्रंवं चरेत्” । नव्यवर्द्धमानधृताग्निपु० “अर्कपत्रे तथा पृष्ठे आयसे ताम्रभाजने । करे कर्प-टके चैव भुक्त्वा चान्द्रायणञ्चरेत्” । पृष्ठे कदलीपत्रादि-पृष्ठे । पैठी० “ताम्ररजतसुवर्णाश्मशङ्खशुक्ति-स्फटिकानां भिन्नमभिन्नमिति न दोषः” । अत्र पाषाण-पात्रं भोजने विहितम् । “तैजसानां मणीनाञ्च सर्व्वस्या-श्ममयस्य च । भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः”इति मनुना पाषाणपात्रस्य शुद्धिविधानाच्च । प्रचेताः“ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् । यतिश्चब्रह्मचारी च विधवा च विवर्जयेत्” । अत्रिः “आसनेपादमारोप्य योभुङ्क्ते ब्राह्मणः क्वचित् । मुखेन चान्नमश्नातितुल्यं गोमांसभक्षणैः” । मुखेन हस्तोत्तोलनं विनागवादिवदित्यर्थः । आश्वमेधिके “आर्द्रपादस्तु भुञ्जीतप्राङ्मुखश्चासने शुचौ । पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेनवा पुनः” । बौधा० “भोजनं हवनं दानमुपहारःपरिग्रहः । बहिर्जानु न कार्य्याणि तद्वदाचमनं स्मृतम्”हारीतः “मार्जनार्च्चाबलिकर्म्मभोजनानि दैवतीर्थेनकुर्य्यात्” । पराशरभा० वृद्धमनुः “न पिबेन्नच भुञ्जीतद्विजः सव्येन पाणिना । नैकहस्तेन च जलं शूद्रेणाव-र्जितं पिबेत्” । मार्क० “पादप्रसारणंकृत्वा न च वेष्टितमस्तकः” । मनुः “पूजयेदशनं नित्यंचाद्याच्चैवमकुत्सयन् । दृष्ट्वा हृष्येत् प्रसीदेच्च प्रणमेच्चैवसर्व्वदा । अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः प्रार्थयेत्ततः ।अस्माकं नित्यमस्त्वेतदिति भक्त्याथ वन्दयेत्” । विष्णुपु० “नागः कूर्म्मश्च क्रकरो देवदत्तोधनञ्जयः ।बहिःस्था वायवः पञ्च तेषां भूमौ प्रदीयते । अदत्त्वा बाह्यवायुभ्यः प्राणादिभ्यो न होमयेत्” । इति शिष्टपठित-वचनान्नागादिभ्योबलिदानमिति प्राचीनाचारः । तत्रान्नंदेवेभ्योदत्त्वैव भोक्तव्यं तथा च गीता “इष्टान् भोगान्हि वोदेवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो-योभुङ्क्ते स्तेन एव सः” । यज्ञैः भाविता संवर्द्धिताःवोयुष्मभ्यं भोगानन्नादीन् वृष्ट्यादिद्वारा दास्यन्ति अतोदेवैर्दत्तान् अन्नादीन् तेम्योऽदत्त्वा योभुङ्क्ते स चौर एव ।स्मृतिः “निवेद्य प्राशनात् पूर्व्वं देवपादोदकाहुतिः ।होतव्या जठरे वह्नौ स्वेन पाणितलेन तु” । तेन पादो-दकेनापोशानं कृत्वा प्राणाहुतिर्नैवेद्येन कार्य्या । स्वदत-नैवेद्यभक्षणन्तु पश्चादुपपादयिष्यते । ब्रह्मपु० “आपो-शानञ्च गृह्णीयात् सर्व्वतोर्थमयञ्च यत् । अमृतो-पस्तरणमसि विष्णोरन्नमयस्य च । अत्र चास्तरणार्थन्तुप्राश्यते ह्यमृतं सकृत् । अमृतोपस्तरणमसि स्वाहेति चसमुद्धरेत्” । सन्ध्यापद्धतौ लिखितवचनं प्रमाणय-न्तोऽसीत्येतदनन्तरं स्वाहाकारं कुर्व्वन्ति । ब्रह्मपु० “हस्तेन लङ्घयेन्नान्नं नोदकेन कदाचन । दम्भाद्योलङ्घयेम्भुञ्जस्तेनान्नं निहतं भवेत् । हतञ्चान्नमभक्ष्यत्वं तस्ययाति दुरात्मनः । प्राणेभ्यस्त्वथ पञ्चभ्यः स्वाहाप्रणवसं-युताः । पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषु च ।प्राणाहुतिमुद्रामाह शौनकः । “तर्जनीमध्यमाङ्गुष्ठैर्लग्नाप्राणाहुतिर्भवेत् । मध्यमानामिकाङ्गुष्ठैरपाने जुहुयात्ततः । कनिष्ठानामिकाङ्गुष्ठैर्व्याने च जुहुयाद्धविः । तर्जनीन्तु अहिष्कृत्वा उदाने जुहुयात्ततः । समाने सर्व्वहस्तेनसमुदायाहुतिर्भंवेत्” । स्मृत्यर्थसारे । “प्राणाहुतौ घृता-भावे पश्चाद्भुञ्जीत नो घृतम्” । देवलः “न भुञ्जीत घृतं नित्यंगृहस्थो भोजनद्वये । पवित्रमथ जुष्टञ्च सर्पिराहुरघा-पहम्” । काशी० “दर्भपाणिस्तु योभुङ्क्षेतस्य दोषोनबाधते । केशकीठादिसम्भूतस्ततोऽश्नीयात् सदर्भकः ।यावदेवान्नमश्नीयान्न ब्रूयात्तद्गुणागुणान् । अतोमौनेन-योभुङ्क्षे स भुङ्क्ते केवलामृतम्” । मनुः “स्वाध्याये भोजनेचैव दक्षिणं पाणिपुड्वरेत्” । उड्वरेद्वस्त्राद्बहिः कुर्य्यादि-त्यर्थः । बौधा० “आचम्प संवृते देशे उपविश्यान्नंसंगृंह्य सर्व्वाङ्गुलीभिरशब्दमश्नीयात्” । संगृह्य अन्न-पात्रं सम्यक्स्पृष्ट्वेत्यर्थः । काशी० “प्रदद्याम्भुवः पतयेभुवनपतये तथा । भूतानां पतये स्वाहेत्युक्त्वा भूमौ बलि-त्रयम् । आपोशानं विधानेन कृत्वाश्नीयात् सुधीर्द्विजः” ।ब्रह्मपु० “तेजोसीति जपस्त्वन्नं प्रणमेदमृतञ्च यत् ।आपोशानञ्च गृह्णीयात् सर्व्वतीर्थमयञ्च यत् । अमृतो-पस्तरणमसि विष्णोरन्नमयस्य च” । अन्नमयस्य विष्णो-र्यदास्तरणमसीत्यर्थः ततश्च तेजोसीति नमस्कृत्यभुञ्जीतेत्यर्थः । भविष्यो० “स्नातस्तु वरुणस्तेजी जुह्व-तोऽग्निः श्रियं हरेत् । भुञ्जानस्य यमस्त्वायुस्तस्मान्न-व्याहरेत्त्रिषु” । मौने विशेषमाह आप० । “तत्रत्रैविद्यवृद्धैर्मुनिभिरन्यैराश्रमिभिर्बहुश्रुतैर्दन्तैर्दन्तानसन्धा-यान्तर्मुख एव यावद्यावदर्थं भाषेत न मन्त्रलोपोभवती-तिविज्ञायते इति” मन्त्रलोपोमौनब्रतलोपः । ब्रह्मपु० “यस्तु पाणितले भुङ्क्ते यस्तु हुङ्कारसंयुतम् । प्रसृता-ङ्गुलिभिर्यस्तु तस्य गोमांसवद्भवेत् । करेण च पिबेत्तोयंयावन्मांसं न भक्षयेत् । मांसलिप्तकरे तोयं तुल्यंगोमांसभक्षणैः” । अत्र मांसलिप्तकरेण जलपाननिषेधात्मांसलिप्तकरं प्रलाल्यैवापोशनं कर्त्तव्यम् । प्रत्यापोशाने तुहस्तप्रक्षालननिषेधात् मांसलिप्तकरं प्रक्षाल्य पुनरन्नलिप्तकरेण प्रत्यापोशानं कर्त्तव्यम् । षट् “पिब-तो यत् पतेत्तोयं भाजने मुस्वनिःसृतम् । अभक्ष्यं तद्भवे-दन्नं भुक्त्वा चान्द्रायणञ्चरेत् । वामपार्श्वेस्थिते तोये यो-भुङ्क्ते ज्ञानदुर्बलः । ग्रासे ग्रासे मलं भुक्त्वा पानीयं रुधिरंपिबेत् । विद्यमाने तु हस्ते तु व्राह्मणोज्ञानदुर्बलः ।तोयं पिबति वक्त्रेण श्वादिर्जायेत नात्यथा । उद्धृत्यवामहस्तेन यत्तोयं पिवति द्विजः । सुरापानेन तुल्यं स्यात्मनुराह प्रजापतिः” । वामहस्तेन केवलवामहस्तेन । अत-एव “पीतशेषन्तु यत्तोयं तत्पिबेन्न द्विजोत्तमः” ।“पीतशेषं पिबेन्नैव” इति ब्रह्मपु० अविशेषात् सर्व्वंनिषिद्धम्” । व्रह्म० “तिलकल्कं जलं क्षीरं दधिक्षौद्र घृतानि च । न त्यजेदर्द्धजग्धानि सक्तुं शाकंकदाचन” । भारते “पानीयं पायसं सर्पिर्दधिक्षौद्र-घृतान्यपि । निरश्यं शेषमेतेषां न प्रदेयन्तु कस्यचित्” ।एतन्न त्याज्यं अशक्तौ कस्यचिन्न देयमित्यर्थः । निरश्यंनिःशेषमशनीयमित्यर्थः । तथा “अन्नं प्रशस्तं पथ्यञ्चप्रोक्षितं प्रोक्षणोदकैः” । इति प्रागुक्तविष्णुपुराणाद्युक्ते-तरभक्षणे दोषमाह मनुः “आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति” । अन्नदोषस्त्रिविधः दृष्टद्वारकः अदृष्टद्वारकः दृष्टादृष्टद्वारकः । दृष्टद्वारकआयुर्व्वेदोक्तः ।अदृष्टद्वारकः स्मृत्युक्तः । उभयत्रोक्तास्तु बालवत्साविवत्सा-दुग्धादिदोषा दृष्टा दृष्टद्वारकाः । अतएव मनुनैवोक्तम् “स्वा-ध्याये चैव युक्तः स्यात् नित्यमात्महितेषु च” युक्तउद्घुक्तः । हारीतः “पृथक् पानं पुनर्दानमामिषं पाय-सानि च । दन्तच्छेदनमुष्णञ्च सप्त सक्तुषु वर्जयेत्” ।सचाहारस्त्रिविधः सात्विकराजसतामसभेदात् यथोक्तंगीतायाम् “आहारस्त्वपि सर्वस्य त्रिविधोभवति प्रियः ।यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु” इत्युपक्रम्य “आयुः-सत्त्वेत्यादि” तच्च वाक्यम् आ० त० ९०१ पृष्ठे दर्शितम्” ।अत्र सर्व्वत्र “कृदभिहितोभावोद्रव्यवत् प्रकाशते” इति भा-ष्योक्तेः आह्रियते भुज्यते कर्म्मणि घञि वा आहारशब्दस्यभक्ष्यपरत्वम् अतएव भावप्र० “आहारः षडिवधश्चूष्य-मित्यादि” ८९९ पृष्ठेउक्तम् । स च षोढा “आहार्य्यंषड्विधंभोज्य भक्ष्यं चर्व्यं तथैव च । लेह्यं चूष्यं तथा पेयंतदुदाहारणानि तु । भोज्यमोदनपूपादि भक्ष्यमोदन-मण्डके । चर्व्यं चिपिटधानादि रसालादि तु लिह्यते ।चूष्यमाम्रफलेक्ष्वादि षीयते पानकं पयः” भाप्रप्र० उक्तेः ।आह्रियते इत्याहारः । ३ शब्दादिविषयज्ञाने च आहा-रशुद्धि शब्देशा० भा० वाक्यम् उदा० ।
Capeller
GermanBurnouf
Frenchआहार आहार a. (हृ) qui apporte. -- S. vivres,
provisions
aliment.
आहारयामि c. faire que qqn. apporte: करम् le tribut.
Employer, faire usage: बैअम् de la force.
Eprouver:
हर्षम् de la joie.
आहारसम्भव (सम्-भू) l'essence des aliments:
chyle, sérum, lymphe, etc.
आहार्य a. accessoire, adventice
artificiel. -- S. mise
en scène, décors, t. de théâtre.
आहार्यशोभा beauté artificielle.
Stchoupak
Frenchआ-हार-
-ई- ag. ifc. qui procure, qui amène, qui veut amener
fait d'amener, etc.
fait de se nourrir, aliment, repas.
°निर्गम-स्थान- nt. °निःसरण-मार्ग- voie par où les
aliments sont évacués.
°भूमि- endroit où l'on prend son repas.
°योजन- nt. préparatifs d'un repas.
°वृत्ति- moyens de vivre.
°शुद्धि- pureté des mets.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
