| YouTube Channel

आहर्त्त (Ahartta)

 
वाचस्पत्यम्
Sanskrit
आहर्त्त
त्रि०
+ हृ--तृच् स्त्रियां ङीप् अर्ज्जके “आहर्त्ताशोधयेत् भुक्तिमागमञ्चापि संसदि” वृह० आयोजके“आहर्त्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप!” भा० आ०५ अ० आनेतरि “आहर्त्ता सर्वरत्नानां सर्वेषां सुखा-वहः” भा० व० १४ अ० अनुष्ठातरि “आहर्त्ता क्रतूनाम्”काद० शीलार्थे तृणि तु कर्म्मणि षष्ठी “आत्मनो-बधमाहर्त्ता क्वासौ विहगतस्कर” विक्रमो०