| YouTube Channel

आहकज्वरः (AhakajvaraH)

 
शब्दकल्पद्रुमः
Sanskrit
आहकज्वरः,
पुं,
(आहको नासारोग एव ज्वरः ।)नासारोगविशेषः नासाज्वर इति ख्यातः ।तस्य लक्षणम् ।“तनुना रक्तशोथेन युक्तो नासापुटान्तरे ।गात्रशूलज्वरकरः श्लेष्मणा ह्याहकः स्मृतः”
इति वैद्यकम्
(आहव इति क्वचिद्वैद्यके पाठः ।तद्यथा, आहवज्वरस्य लक्षणम् ।“शोथः सरक्तो नासायां व्यथास्रावौ ज्वरस्तथा ।वातश्लेष्मासृगुत्थञ्च आहवाख्यं विनिर्द्दिशेत्” ।अस्य चिकित्सा यथा, वैद्यकचिकित्सारत्ने
“टूर्व्वाचव्यं फलं माषकुलत्थौ वंशपत्रिका ।जलस्थलभवौ कर्णमोरटाखरमञ्जरी
दण्डोत्पलस्य मूलानि क्वाथ्यादष्टगुणेऽम्भसि ।तत्पादशेषिते तैलं तुलां कृत्वा विपाचयेत् ।तत्तैलं प्रतिमर्षण आहवाख्यं ञ्वरं जयेत्”
*
दूर्व्वाद्यं तैलं
*
)