| YouTube Channel

आस्तिकः (AstikaH)

 
E Bharati Sampat
Sanskrit
(पुं) १.जरत्कारुमहर्षेः पुत्रः। (वि) २.अस्ति देवः परलोकः इति मतिर्यस्य अस्ति+ठक् ‘अस्तिनास्तिदिष्टं मतिः’ ४.४.६०।
शब्दकल्पद्रुमः
Sanskrit
आस्तिकः,
पुं,
(अस्तीत्यस्य अस्ति + ठक् ।) मुनि-विशेषः तु जरत्कारुमुनिपुत्त्रः तत्पितागर्भस्थं तं ज्ञात्वास्तीत्युक्त्वा गत इत्यस्मादास्तिकः ।(यथा, --“अस्तीत्युक्त्वा गतो यस्मात् पिता गर्भस्थमेव तम् ।वनं तस्मादिदं तस्य नामास्तिकेति विश्रुतम्”
)इति महाभारतम्
(“आस्तिकस्य मुनेर्माता भगिनी वासुकेस्तथा” ।इति मनसाप्रणाममन्त्रः ।)
आस्तिकः, त्रि, (अस्ति ईश्वर इति मतिर्यस्य ।अस्ति + ठक् ।) नास्तिकभिन्नः ईश्वरोऽस्तीति-वादी वेदप्रामाण्यवादी तत्पर्य्यायः श्रद्धालुः २श्राद्धः इति हेमचन्द्रः
(“सत्यधर्म्मच्युतात् पुंसः क्रुद्धादाशीविषादिव ।अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः”
इति महाभारते आदिपर्ब्बणि
)