| YouTube Channel

आस्तरणं (AstaraNaM)

 
शब्दकल्पद्रुमः
Sanskrit
आस्तरणं,
क्ली,
(आस्तीर्य्यते यत् येन वा आङ् +स्तृ + कर्म्मणि करणे वा ल्युट् ।) हस्तिपृष्ठस्थित-चित्रकम्बलं झुल इति भाषा तत्पर्य्यायः ।प्रवेणी वर्णः परिस्तोमः कुथा कुथः ।इत्यमरः
प्रवेणिः परिष्टोमः कुथं ।इत्यमरटीका
(शय्या, कुशासनं यथा रामा-यणे, काण्डे ।“राङ्कवास्तरणे पूर्व्वमयोध्यायामिवासने” ।महाभारते, आदिपर्ब्बणि ।“दर्भास्तरणमास्तीर्य्य निश्चयात् धृतराष्ट्रजः”
)