आसुरं (AsuraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiराक्षसी
पुराणम्
Englishआसुरम् / ĀSURAM. A form of marriage. (See vivāha).
शब्दकल्पद्रुमः
Sanskritआसुरं, विड्लवणम् । इति राजनिर्घण्टः ॥
असुरस्य भावः । (यथा गीतायां ७ । १५ ।“न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमाः ।माययापहृतज्ञाना आसुरं भावमाश्रिताः” ।)असुरसम्बन्धीये त्रि । इति व्याकरणम् ॥
आसुरं, त्रि, (असुरस्येदम् । असुर + अण् ।) असुर-सम्बन्धि । यथा --“यस्मिन् नवे पुराणे च विश्वे देवा न लेभिरे ।आसुरं तद्भवेत् श्राद्धं वृषलं मन्त्रवर्जितम्” ॥
इति श्राद्धतत्त्वे ऋग्वेदीयगृह्यपरिशिष्टम् ॥
अपि च ।“स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ।आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्ज्जयेत्” ॥
इति श्राद्धतत्त्वधृतयमवचनम् ॥
* ॥
आसुरसर्गोयथा ।“द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥
प्रवृत्तिञ्च निवृत्तिञ्च जना न विदुरासुराः ।न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥
असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् ।अपरस्परसम्भूतं किमन्यत् कामहेतुकम् ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।प्रभवन्त्युग्रकर्न्माणः क्षयाय जगतोऽहिताः ॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।मोहात् गृहीत्वा सद्ग्राहान् प्रवर्त्तन्तेऽशुचिव्रताः ॥
चिन्तामपरिमेयाञ्च प्रलयान्तामपाश्रिताः ।कामोपभोगपरमा एतावदिति निश्चिताः ॥
आशापाशशतैर्ब्बद्धाः कामक्रोधपरायणाः ।ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् ।इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥
आत्मसम्भावितास्तब्धा धनमानमदान्विताः ।यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्व्वकम् ॥
अहङ्कारं बलं दर्पं कामं क्रोधञ्च संश्रिताः ।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय तती यान्त्यधमां गतिम्” ॥
इति श्रीभगवद्गीतायां १६ अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
